तत्त्वया नात्र कर्तव्यं दुःखं तद्वाक्यसम्भवम् ॥ १,११.
राजासनं राजच्छत्रं वराश्चावरवारणाः । यस्य पुण्यानि तस्यैते मत्वैतच्छांम्य पुत्रक ॥ १,११.
अन्यजन्मकृतैः पुण्यैः सुरुच्या सुरुचिर्नृपः । भार्येति प्रोच्यते चान्यां मद्विधा पुण्यवर्जिता ॥ १,११.
पुण्योपचयसंपन्नस्तस्याः पुत्रस्तथोत्तमः । मम पुत्रस्तथा जातः स्वल्पपुण्यो ध्रुवो भवान् ॥ १,११.
तथापि दुःखं न भवान् कर्तुमर्हसि पुत्रक । यस्य यावत्स तेनैव स्वेन तुष्यति मानवः ॥ १,११.
यदि ते दुःखमत्यर्थं सुरुच्या वचसाभवत् । तत्पुण्योपचये यत्नं कुरु सर्वफलप्रदे ॥ १,११.
सुशीलो भव धर्मात्मा मैत्रः प्राणिहिते रतः । निम्नं यथापः प्रवणाः पात्रमायान्ति सम्पदः ॥ १,११.
ध्रुव उवाच अम्ब यत्त्वमिदं प्रात्थ प्रशमाय वचो मम । नैतद्दुर्वाचसा भिन्ने हृदये मम तिष्ठति ॥ १,११.
सोऽहं तथा यतिष्यामि यथा सर्वोत्तमोत्तमम् । स्थानं प्राप्स्याम्यशोषाणां जगतामभि पूजितम् ॥ १,११.
सुरुचिर्दयिता राज्ञस्तस्या जातोस्मि नोदरात् । प्रभावं पश्य मेंब त्वं वृद्धस्यापि तवोदरे ॥ १,११.
उत्तमः स मम भ्राता यो गर्भेण धृतस्तया । स राजासनमाप्नोतु पित्रा दत्तं तथास्तु तत् ॥ १,११.
नान्यदत्तमभीप्स्यामि स्तानमम्ब स्वकर्मणा । इच्छामि तदहं स्थानं यत्र प्राप पिता मम ॥ १,११.
श्रीपराशर उवाच निर्जगाम गृहान्मातुरित्युक्त्वा मातरं ध्रुवः । पुराच्च निर्गम्य ततस्तद्बाह्योपवनं ययो ॥ १,११.
स ददर्श मुनींस्तत्र सप्तपूर्वागतान्ध्रुवः । कुष्माजिनोत्तरीयेषु विष्टरेषु समास्थितान् ॥ १,११.
स राजपुत्रस्तान्सर्वान्प्रणिपत्याभ्य भाषत । प्रश्रयावनतः सम्यगभिवादनपूर्वकम् ॥ १,११.
ध्रुव उवाच उत्तानपादतनयं मां निबोधत सत्तमाः । जातं सुनीत्यां निर्वेदाद्युष्माकं प्राप्तमन्तिकम् ॥ १,११.
ऋषय ऊचुः चतुःपञ्चा ब्दसंभूतो बालस्त्वं तृपनन्दन । निर्वेदकारणं किञ्चित्तव नाद्यापि वर्तते ॥ १,११.
न चिन्त्यं भवतः किञ्चिद्ध्रयते भूपतिः पिता । न चैवैष्ट वियोगादि तव पश्याम बालक ॥ १,११.
शरीरे न च ते व्याधिरस्माभिरुपलक्ष्यते । निर्वेदः किन्निमित्तस्ते कथ्यतां यदि विद्यते ॥ १,११.
श्रीपराशर उवाच ततः स कथयामास सुरुच्या यदुदाहृतम् । तन्निशम्य ततः प्रोचुर्मुनयस्ते परस्परम् ॥ १,११.
अहो क्षात्रं परं तेजो बालस्यापि यदक्षमा । सपत्न्या मातुरुक्तं यद्धृदयान्नापसर्पति ॥ १,११.
भोभोः क्षत्रियदायादः निर्वेदाद्यत्त्वायाधुना । कर्तुं व्यवसितं तन्नः कथ्यतां यदि रोचते ॥ १,११.
यच्च कार्यं तवास्माभिः साहाय्यममितद्युते । तदुच्यतां विवक्षुस्त्वमस्माभिरुपलक्ष्यसे ॥ १,११.
ध्रुव उवाच नाह मर्थमभीप्सामि न राज्यं द्विजसत्तमाः । तत्स्थानमेकमिच्छामि भुक्तं नान्येन यत्पुरा ॥ १,११.
एतन्मे क्रियतां सम्यक्कथ्यतां प्राप्यते यथा । स्थानमग्र्यं समस्तेभ्यः स्थानेभ्यो मुनिसत्तमाः ॥ १,११.
मरीचिरुवाच अनाराधितगोविन्दैर्नरैः स्थानं नृपात्मज । न हि संप्राप्यते श्रेष्ठं तस्मादाराधयाच्युतम् ॥ १,११.
अत्रिरुवाच परः पराणां पुरुषो यस्य तुष्टो जनार्दनः । संप्राप्नोत्यक्षयं स्थानमेतत्सत्यं मयोदितम् ॥ १,११.
अङ्गिरा उवाच यस्यान्तः सर्वमेवेदमच्युतस्याव्ययात्मनः । तमाराधय गोविन्दं स्थानमग्र्यं यदीच्छसि ॥ १,११.
पुलस्त्य उवाच परं ब्रह्म परं धाम योऽसौ ब्रह्म तथा परम् । तमाराध्य हरिं याति मुक्तिमप्यति दुर्लभाम् ॥ १,११.
पुलह उवाच ऐन्द्रमिन्द्रः परं स्थानं यमाराध्य जगत्पतिम् । प्राप यज्ञपतिं विष्णुं तमाराधय सुव्रत ॥ १,११.