सिनीवाली कुहूशचैव राका चानुमतिस्तथा । अनुसूया तथैवात्रेर्जज्ञ पुत्रानकल्मषान्
प्रीत्यां पुलस्त्यभार्य्ययां दत्तोलिस्तत्सुतोऽभवत्
पूर्व्वजन्मनि योऽगस्त्यः स्मृतः स्वायम्भुवेऽन्तरे । कर्दमश्वावरीयांश्व सहिष्णुश्व सूतत्रयम्
क्षमा तु सुषुवे भार्य्या पुलहस्य प्रजापतेः । क्रतोश्व सन्नतिर्भार्य्या बालखिल्यानसूयत
षष्टिर्यानि सहस्त्राणि यतीनामूद्ध्व रेतसाम् । अङ्गुष्ठपर्व्वमात्राणां जलदूभास्करतेजसाम्
ऊर्ज्जायाञ्च विशिष्ठस्य सप्ताजायन्त वै सुताः । रजोगात्रोर्ध्वबाहुश्व वसनश्वानघस्तथा
सुतपाः शुक्र इत्येते सर्व्वे सप्तर्षयोऽमलाः । योऽसावग्निरभिमानी ब्रह्मणस्तनयोऽग्रजः
तस्मात् स्वाहा सुतांल्लेभे त्रीणुदारौजसो द्रिज । पावकं पावमानञ्च शुचिञ्चापि जलाशिनम्
तेषान्तु सन्ततावन्ये चत्वारिंशज्व पञ्च च । एवमेकोनपञ्चाशद् वह्नयः परिकीर्तिताः
कथ्यन्ते वह्नयश्चैते पिता पुत्रत्रयञ्च यत् । पितरो ब्रह्मणा सृष्टा व्याख्याता ये मया तव
अग्रिष्वात्ता बहिर्षदोऽनग्रयः साग्नयश्व ये । तेभेयः स्वधा सुते जज्ञ मैनां वैधारिणीं तथा
ते उबे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्रिज । उत्तमज्ञानसम्पन्ने सर्व्वैः समुदितैर्गुणौः
इत्येषा दक्षकन्यानां कथितापत्यसन्ततिः । श्वद्धावान् संस्मरन्नेताम् अनपत्यो न जायते
श्रीपराशर उवाच प्रियव्रतोत्तानपादौ मनोः स्वायंभुवस्य तु । द्वौ पुत्रौ तु महावीर्यौ धर्मज्ञौ कथितौ तव ॥ १,११.
तयोरुत्तानपादस्य सुरुच्यामुत्तमः सुतः । अभीष्टायामभूद्ब्रह्यन्पितुरत्यन्तवल्लभः ॥ १,११.
सुनीतिर्नाम या राज्ञस्तस्यासीन्महिषी द्विज । स नाति प्रीतिमांस्तस्यामभूद्यस्या ध्रुवः सुतः ॥ १,११.
राजासनस्थितस्याङ्कं पितुर्भ्रतरमाश्रितम् । दृष्ट्वोत्तमं ध्रुव श्चक्रे तमारोढुं मनोरथम् ॥ १,११.
प्रत्यक्षं भूपतिस्तस्याः सुरुच्या नाभ्यनन्दत । प्रणयेनागतं पुत्रमुत्संगारोहणोत्सुकम् ॥ १,११.
सपत्नी तनयं दृष्ट्वा तमङ्कारोहणोत्सुकम् । स्वपुत्रं च तथारूढं सुरुचिर्वाक्यमब्रवीत् ॥ १,११.
क्रियते किं वृथा वत्स महानेष मनोरथः । अन्यस्त्रीगर्भजातेन ह्यसंभूय ममोदरे ॥ १,११.
उत्तमोत्तममप्राप्यमविवेको हि वाञ्छसि । सत्यं सुतस्त्वमप्यस्य किं तु न त्वं मया धृतः ॥ १,११.
एतद्राजासनं सर्व भूभृत्संश्रयकेतनम् । योग्यं ममैव पुत्रस्य किमात्मा क्लिश्यतेत्वया ॥ १,११.
उच्चैर्मनोरथस्तेयं मत्पुत्रस्येव किं वृथा । सुनीत्यामात्मनो जन्म किं त्वया नावगम्यते ॥ १,११.
श्रीपराशर वाच उत्सृज्य पितरं बालस्तच्छ्रुत्वा मातृभाषितम् । जगाम कुपितो मातुर्निजाया द्विजमन्दिरम् ॥ १,११.
तं दृष्ट्वा कुपितं पुत्रमीषत्प्रस्फुरिताधरम् । सुनीतिरङ्कमारोप्य मैत्रेयेदमभाषत ॥ १,११.
वत्स कः कोपहेतुस्ते कश्च त्वां नाभि नन्दति । कोवजानाति पितरं वत्स यस्तेपराध्यति ॥ १,११.
श्रीपराशर वाच इत्युक्तः सकलं मात्रे कथयामास तद्यथा । सुरुचिः प्राह भूपालप्रत्यक्षमतगर्विता ॥ १,११.
विनिश्वस्येति कथिते तस्मिन्पुत्रेण दुर्मनाः । श्वसक्षामेक्षणा दीना सुनीतिर्वाक्यमब्रवीत् ॥ १,११.
सुनीतिरुवाच सुरुचिः सत्यमाहेदं मन्दभाग्योसिःपुत्रक । न हि पुण्यवतां वत्स सपत्नैरेव मुच्यते ॥ १,११.
नोद्वेगस्तात कर्तव्यः कृतं यद्भवता पुरा । तत्कोपहर्तु शक्नोति दातुं कश्चाकृतं त्वया ॥ १,११.