स्त्रोत्रणे यस्तथेतेन त्वां स्तोष्यत्यब्धिसम्भवे । स त्वया न परित्याज्यो द्रितीयोऽस्तु वरो मम
त्रैलोक्यं त्रिदशश्रष्ठे न सत्यक्ष्यामि वासव । दत्तो वरो मया यस्ते स्तोत्राराधनतुष्टया
यश्च सायं तथा प्रातः स्तोत्रेणानोन मानवः । मां स्तोष्यति न तस्याहं भविष्यामि पराङूमुखी
एवं वरं ददौ देवी देवराजाय वै पुरा । मेत्रेय श्रीर्महाभागा स्तोत्राराधनतोषिता
भृगोः ख्यात्यां समुतूपन्ना श्रीः पूर्व्वमुदधेः पुनः । देव-दानवयत्नेन प्रसूतामृतमन्थने
एवं यथा जगत्स्वामी देवदेवो जनार्द्दनः । अवतारं करोत्येष करोत्येष तथा श्रीस्तत्सहायिनी
पुनश्व पह्मादुदूभूता आदित्योऽभूद् यदा हरिः । यदा तु भार्गवो रामस्तदाभूद् धरणी त्वियम्
राघवत्वेऽभवत् सीता रुक्मिणो कृष्णजन्मनि । अन्येषु चावतारेषु विष्णोरेषा सहायिनी
देवत्वे देवदेहेय मनुष्यत्वे च मानुषी । विष्णोर्देहानुरूपां वै करोत्येषात्मनस्तनुम्
यश्चैतच्छणुयाज्जन्म लक्ष्म्या यश्व पठेन्नरः । श्वियो न विच्युतिस्तस्य गृहे यावत् कुलत्रयम्
पठ्यते येषु चैवैष गृहेषु श्रीस्तवो मुने । अलक्ष्मीः कलहाधारा न तेष्वास्ते कदाचन
एतत् ते कथितं ब्रह्मने यन्मां त्वं परिपृच्छसि । क्षीराब्धौ श्रीर्यथा जाता पूर्व्व भृगुसुता सती
इति सकलविभूत्यवाप्तिहेतुः स्तुतिरियमिन्द्रमुखोदूगता हि लक्ष्म्याः । अनुदनमिह पठ्यते नृबिर्यै र्वसति नेषु कदाचिदप्यलक्ष्मीः
मैत्रेय उवाच । कथितं मे त्वया सर्व्व यत्पृष्टोऽसि महामुने । भृगुसर्गात् प्रभृत्येष सर्गो मे क्थ्यतां पुनः
पराशर उवाच । भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्विष्णुपरिग्रहः । तथा धातृविधातरौ ख्यात्यां जातौ सुतौ भृगोः
आयतिर्नियतिश्चैव मैरोः कन्ये महात्मनः । धातृविधात्रोस्ते भार्य्ये तयोर्जातौ सुतावुभौ
प्राणश्चैव मृकण्डुश्च मार्कण्डेयो मृकण्जुतः । ततो वेदशीरा जज्ञे प्राणस्यापि सुतं श्वृणु
प्राणस्य कृतिमान् पुत्रो राजवांश्व ततोऽभवत् । ततो वंशो महाभाग विस्तारं भार्गवो गतः
पत्नी मरीचेः सम्भूतिः पौर्णामासमसूयत । विरजाः सर्व्वगश्चैव तस्य पुत्रौ महात्मनः
वंशसंकीर्त्तने पुत्रान् वदिष्येऽहं तयोद्रिज । स्मृतिश्वाङ्गिरसः पत्री प्रसूताः कन्यकास्तथा
सिनीवाली कुहूशचैव राका चानुमतिस्तथा । अनुसूया तथैवात्रेर्जज्ञ पुत्रानकल्मषान्
प्रीत्यां पुलस्त्यभार्य्ययां दत्तोलिस्तत्सुतोऽभवत्
पूर्व्वजन्मनि योऽगस्त्यः स्मृतः स्वायम्भुवेऽन्तरे । कर्दमश्वावरीयांश्व सहिष्णुश्व सूतत्रयम्
क्षमा तु सुषुवे भार्य्या पुलहस्य प्रजापतेः । क्रतोश्व सन्नतिर्भार्य्या बालखिल्यानसूयत
षष्टिर्यानि सहस्त्राणि यतीनामूद्ध्व रेतसाम् । अङ्गुष्ठपर्व्वमात्राणां जलदूभास्करतेजसाम्
ऊर्ज्जायाञ्च विशिष्ठस्य सप्ताजायन्त वै सुताः । रजोगात्रोर्ध्वबाहुश्व वसनश्वानघस्तथा
सुतपाः शुक्र इत्येते सर्व्वे सप्तर्षयोऽमलाः । योऽसावग्निरभिमानी ब्रह्मणस्तनयोऽग्रजः
तस्मात् स्वाहा सुतांल्लेभे त्रीणुदारौजसो द्रिज । पावकं पावमानञ्च शुचिञ्चापि जलाशिनम्
तेषान्तु सन्ततावन्ये चत्वारिंशज्व पञ्च च । एवमेकोनपञ्चाशद् वह्नयः परिकीर्तिताः
कथ्यन्ते वह्नयश्चैते पिता पुत्रत्रयञ्च यत् । पितरो ब्रह्मणा सृष्टा व्याख्याता ये मया तव