तयावलोकिता देवा हरिवक्षःस्थलस्थया । लक्ष्म्या मैत्रय सहसा परां निर्वृतिमागताः
उद्रगं परमं जग्मुर्दैत्या विष्णुपराङूमुखाः । त्यक्ता लक्षम्या महाभाग विप्रचित्तिपुरोगमाः
ततस्ते जगृहुर्द्दैत्या धन्वन्तरिकरे स्थितम् । कमण्डलुं महावीर्य्या यत्रास्ते तदू द्रिजामृतम्
मायया लोभयित्वा तान् विष्णुः स्त्रीरूपमास्थितः । दानवेभ्यस्तदादाय देवेभ्यः प्रददौ विभुः
ततः पपुः सुरगणाः शक्राद्यास्तत् तदामृतम् । उद्यतायुधनिस्त्रिंशा दैत्यास्तांश्व समभ्ययुः
पीतेऽमृते च बलिभिर्देवैर्दैत्यचमुस्तदा । वध्यमाना दिशो भेजे पातालं तु विवेश वै
तदा देवा मुदा युक्ताः शङ्र्वचक्रगदाभृतम् । प्रणिपत्य यथापूर्वम् आशासत त्रिविष्टपम्
ततः प्रसन्नभाः सूर्य्यः प्रययौ स्वेन वर्त्मना । ज्योतींषि च यथामार्ग प्रययुर्मु निसत्तम
जज्वाल भगवांश्वोज्व श्वौरुदीप्तिर्व्विभावसुः । धर्म्मे च सर्व्वभूतानां तदा मतिरजायत
त्रैलोक्यञ्च श्रिया जुष्टं बभूव मुनिसत्तम । शक्रश्व त्रिदशश्रेष्ठः पुनः श्रीमानजायत
सिंहासनगतः शक्रः सम्प्राप्य त्रिदिवं पुनः । देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः
नमस्ये सर्व्वभूतांनां जननीमब्जसम्भवाम् । श्रियमुन्नद्रपह्माक्षी विष्णोर्वक्षः स्थलस्थिताम्
त्वं सिद्धिस्त्वं सुधा स्वाहा स्वधा त्वं लोकपावनि । सन्धाय रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती
यज्ञविद्या महाविद्या गुह्मविद्या च शोभने । आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी
आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस्त्वमेव च । सौम्यासौम्यैर्ज्जगद्रू पैस्त्वयैतद्द वि पूरितम्
का त्वन्या त्वामृते देवि सर्व्वयज्ञमयं वपुः । अध्यास्ते देवदेवस्य योगिचिन्त्यं गदाभृतः
त्वया देवि परित्यक्तं सकलं भुवनत्रयम् । विनष्टप्रायमभवत् त्वयेदानीं समेधितम्
दाराः पुत्रास्तथागारं सुह्टदू धान्यधनादिकम् । भवत्येतन्महाभागे नित्यं त्वदूवीक्षणान्नृणाम्
शरीरारोग्यमैश्वर्य्यमरिपक्षक्षयः सुखम् । देवि त्वदूदृष्टिदृष्टानां पुरुषाणां दुर्ल्ल भम्
त्वं माता सर्व्वभूतानां देवदवो हरिः पिता । त्वयैतद विष्णुना चाद्य जगदूव्याप्तं चराचरम्
मा नः कोशं तथा गोष्ठं मा गृहं मा परिच्दम् । मा शरीरं कलत्रञ्च त्यजेथाः सर्व्वपावनि
मा पुत्त्रान् मा सुह्टदूवर्ग मा पशून् मा विभूषणम् । त्यजेथा मम देवस्य विष्णोर्व्वक्षःस्थलालये
सत्त्वैन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः । त्यज्यन्ते ते नराः सद्यः सन्त्यक्ता ये त्वयामले
त्वयावलोकिताः मुह्मन्ते पुरुषा निर्गुणा अपि
स श्लाध्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् । स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः
सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः । पराङूमुखी जगद्धात्रि यस्य त्वं विष्णुवल्लभे
न ते वर्णायितुं शक्ता गुणान् जिह्वापि वेधसः । प्रसीद देवि पह्माक्षि मास्मांस्त्याक्षीः कदाचन
एवं श्रीः संस्तुता सम्यक् प्राह देवी शतक्रतुम् । श्वृण्वतां सर्वदेवानां सर्व्वभूतस्थिता द्रिज
परितुष्टास्मि देवेश स्त्रोत्रेणानेन ते हरे । वरं वृणीष्व यस्त्विष्टो वरदाहं तवागता
वरदा यदि मे देवि वरार्हो यदि वाप्यहम् । त्रैलोक्यं न त्वया त्याज्यमेष मेऽस्तु वरः परः