एवं संस्तूयमानस्तु प्रणतैरमरैर्हरिः । प्रसन्नदृष्टिर्भगवानिदमाह स विश्वकृत्
तेजसो भवतां देवाः करिष्याम्युपबृ हणम् । वदाम्यहं यत् क्रियतां भवद्भिस्तदिद सुराः
आनीय सहिता दत्यैः क्षीराब्धौ सकलौषधीः । मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम्
मथ्यतामभृतं देवाः सहाये मय्यवस्थिते । सामपूर्व्वञ्च दैतेयास्तत्र साहाय्यकर्मणि
सामान्यफलभोक्तारो यूयं वाच्या भविष्यथ मथ्यमाने च तत्राब्धौ यतू समुत्पद्यतेऽमृतम्
तत्पानाद् बलिनो यूयममराश्व भविष्यथ । तथा चाहं करिष्यामि यथा त्रिदशाविद्रिषः । न प्राप्स्यन्त्यमृतं देवाः केवलं क्लेशभागिनः
इत्युत्तवा देवदेवेन सर्व्व एव ततः सुराः । सन्धानमसुरैः कृत्वा यत्नवन्तोऽमृतेऽभवन्
नानौषधीः समानीय देव-दैतेयदानवाः । क्षिप्त्वा क्षिराब्धीपयसि शरदभ्रामलत्विषि
मन्थानं मन्दरं नेत्रं कृत्वा च वासुकिम् । ततो मथितुमारब्धा मैत्रैय तरसामृतम्
विबुधाः सहिताः सर्व्वे यतः पुच्छं ततःकृताः । कृष्णेन वासुकेर्दैत्याः पूर्व्वकाये निवेशिताः
ते तस्य फणनिः श्वास- वह्निनापहतत्विषः । निस्तेजसोऽसुराः सर्वे बभुवुरमितद्यु ते
तेनैव मुखनिःशास-वायुनास्तबलाहकैः पुच्छप्रदेशे वर्षद्भिस्तथा चाप्यायिताः सुराः
क्षीरोदमध्ये भगवान् कूर्म्मरूपो स्वयं हरिः । मन्थनाद्रे रधिष्ठानं भ्रमतोऽभून्महामुने
रूपेणान्येन देवानां मध्ये चक्रगदाधरः । चकर्ष भोगिराजानं दैत्यमध्येऽपरेण च
उपर्य्यक्रान्तवान् शैलं बृहदूरूपेण केशवः । तथापरेण मैत्रय यन्न दृष्टं सुरासुरैः
तेजसा नागराजानं तथाप्यायितवान् हरिः । अन्येन तेजसा देवान् उपबृं हितवान् विभुः
मथ्यमाने ततस्तस्मिन् क्षीराब्धौ देव-दानवैः । हविर्धामाभवत् पूर्व्व सुरभिः सुरपूजिता
जग्मुर्म्मुदं ततो देवा दानवाश्च महामुने । व्याक्षिप्तचेतसश्चैव बभूवुस्तिमितेक्षणाः
किमेतदिति सद्धानां दिवि चिन्तयतां ततः । बभूव वारुणो देवी मदाधूर्णितलोचना
कृतावर्त्तातू ततस्तस्मात् क्षीरोदादू वासयन् जगत् । गन्धेन पारिजातोऽभूदू देवस्त्रीनन्दस्तरुः
रूपौदार्य्यगुणोपेतस्ततश्चाप्सरसां गणः । क्षीरोदधेः समुत्पन्नो मैत्रय परमाद्भुतः
ततः शीतांशुरभवजूजगृहे त्वं महेश्वरः । जगृहुश्च विषं नागाः क्षीरोदाज्व समुत्थितम्
ततो धन्वन्तरिर्देवः श्वेताम्बरधरस्स्वयम् । विभ्रत्कमण्डलुं पुर्णममृतस्य समुत्थितः
ततः स्वस्थमनस्कास्ते सर्व्वे दैतेय-दानवाः । बभूवुर्म्मुदिताः सर्व्वे मैत्रेय मुतिभिः सह
ततः स्फुरत्कान्तिमती विकासिकमले स्थिता । श्रीर्देवी पयसस्तस्मादुत्थिता भृतपंकजा
तां तुष्टु वुर्म्मुदा युक्ताः श्रीसूक्तेने महर्षयः । विशावसुमुखास्तस्या गन्धर्वाः पुरतो जगुः
घृताचीप्रमुखा ब्रह्मन् ननृतुश्चाप्सरोगणाः । गङ्गाद्याः सरितस्तोयैः स्नानार्थमुपतस्थिरे
दीगूगजा हेमपात्रस्थम् आदाय विमलं जलम् । स्नापयाञ्चक्रिरे देवीं सर्व्वलोकामम्लहेश्वरीम्
क्षीरोदो रुपधृक् तस्यै मालामम्लानपङ्कजाम् । ददौ विभूषणान्यङ्ग विश्वकर्मा चकार च
दिव्यमाल्याम्बरधरा स्नाता भूषणभूषिता । पश्यतां सर्व्वदेवानां ययौ वक्षःस्थलं हरेः