एव संस्तूयमानस्तु भगवाञ्छरङ्वचक्रधूक् । जगाम दर्शनं तेषां मैत्रेय परमेश्वरः
तं दृष्ट्वा ते तदा देवाः शर्ङ्वचक्रगदाधरम् । अपूर्व्वरूपसंस्थानं तेजसां राशिमूर्ज्जितम्
प्रणम्य प्रणताः पूर्व्वं संक्षोभस्तिमितेक्षणाः । तुष्टुवुः पुण्डरीकाक्षं पितामहपुरोगमाः
नमो नमोऽविशेषस्त्वं त्वं ब्रह्मा त्वं पिनाकधृक् । इन्द्रस्त्वमग्रिः पवनो वरुणः सविता यमः
वसवो मरुतः साध्या विश्वे देवगणा भवान् । योऽयं तवागतो देव समीपं देवतागणः
स त्वमेव जगत्स्त्रष्टा यतः सर्व्वगतो भवान् । त्वं यज्ञस्त्वं वषटूकारस्त्वमोङ्करः प्रजापतिः
वेद्यावेद्यञ्च सर्व्वात्मंस्त्वन्मयञ्चाखिलं जगत् । त्वामत्र शरणां विष्णो प्रयाता दैत्यनिर्ज्जिताः
वयं प्रसीद सर्वात्मंस्तेजस्याप्याययस्व नः । तावदर्त्तिस्तथा वाञ्छा तावन्मोहस्तथासुखम्
यावन्नायाति शरणं त्वामशेषाघनाशनम् । त्वं प्रसादं प्रसन्नात्मन् प्रपन्नानां कुरुष्व नः
तेजसां नाथ सर्वेषां स्वशत्त्याप्यायनं कुरु
एवं संस्तूयमानस्तु प्रणतैरमरैर्हरिः । प्रसन्नदृष्टिर्भगवानिदमाह स विश्वकृत्
तेजसो भवतां देवाः करिष्याम्युपबृ हणम् । वदाम्यहं यत् क्रियतां भवद्भिस्तदिद सुराः
आनीय सहिता दत्यैः क्षीराब्धौ सकलौषधीः । मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम्
मथ्यतामभृतं देवाः सहाये मय्यवस्थिते । सामपूर्व्वञ्च दैतेयास्तत्र साहाय्यकर्मणि
सामान्यफलभोक्तारो यूयं वाच्या भविष्यथ मथ्यमाने च तत्राब्धौ यतू समुत्पद्यतेऽमृतम्
तत्पानाद् बलिनो यूयममराश्व भविष्यथ । तथा चाहं करिष्यामि यथा त्रिदशाविद्रिषः । न प्राप्स्यन्त्यमृतं देवाः केवलं क्लेशभागिनः
इत्युत्तवा देवदेवेन सर्व्व एव ततः सुराः । सन्धानमसुरैः कृत्वा यत्नवन्तोऽमृतेऽभवन्
नानौषधीः समानीय देव-दैतेयदानवाः । क्षिप्त्वा क्षिराब्धीपयसि शरदभ्रामलत्विषि
मन्थानं मन्दरं नेत्रं कृत्वा च वासुकिम् । ततो मथितुमारब्धा मैत्रैय तरसामृतम्
विबुधाः सहिताः सर्व्वे यतः पुच्छं ततःकृताः । कृष्णेन वासुकेर्दैत्याः पूर्व्वकाये निवेशिताः
ते तस्य फणनिः श्वास- वह्निनापहतत्विषः । निस्तेजसोऽसुराः सर्वे बभुवुरमितद्यु ते
तेनैव मुखनिःशास-वायुनास्तबलाहकैः पुच्छप्रदेशे वर्षद्भिस्तथा चाप्यायिताः सुराः
क्षीरोदमध्ये भगवान् कूर्म्मरूपो स्वयं हरिः । मन्थनाद्रे रधिष्ठानं भ्रमतोऽभून्महामुने
रूपेणान्येन देवानां मध्ये चक्रगदाधरः । चकर्ष भोगिराजानं दैत्यमध्येऽपरेण च
उपर्य्यक्रान्तवान् शैलं बृहदूरूपेण केशवः । तथापरेण मैत्रय यन्न दृष्टं सुरासुरैः
तेजसा नागराजानं तथाप्यायितवान् हरिः । अन्येन तेजसा देवान् उपबृं हितवान् विभुः
मथ्यमाने ततस्तस्मिन् क्षीराब्धौ देव-दानवैः । हविर्धामाभवत् पूर्व्व सुरभिः सुरपूजिता
जग्मुर्म्मुदं ततो देवा दानवाश्च महामुने । व्याक्षिप्तचेतसश्चैव बभूवुस्तिमितेक्षणाः
किमेतदिति सद्धानां दिवि चिन्तयतां ततः । बभूव वारुणो देवी मदाधूर्णितलोचना
कृतावर्त्तातू ततस्तस्मात् क्षीरोदादू वासयन् जगत् । गन्धेन पारिजातोऽभूदू देवस्त्रीनन्दस्तरुः