प्रोच्यते परमेशो हि यः शुद्धोऽप्युपचारतः । प्रसीदतु स नो विष्णुरात्मा यः सर्व्वदेहिनाम्
यः कारणञ्च कार्य्य ञ्च कारणस्यापि कारणम् । कार्य्यापि च यः कार्य्य प्रसीदतु स नो हरिः
कार्य्यकार्य्यश्य यः कार्य्य तत्कार्यस्यापि यः स्वयम् । तत्कार्य्यकार्य्यभूतो यस्ततश्च प्रणताः स्म तम्
कारणां कारणस्यापि तस्य कांरणकारणम् । तत्कारणानां हेतुं त्वां प्रणताः स्म सुरेश्वरम्
भोक्तारं भोज्यभूतञ्ज स्त्रष्टारं सृस्टमेव च । कार्य्य कर्म्मस्वरूपं तं प्रणताः स्म परं पदम्
विशुद्ध बोधनं नित्यमजमक्षयमव्ययम् । अव्यक्तमविकारं यत् तद्रिष्णोः परमं पदम्
न स्थूलं न च सूक्ष्मं यन्न विशेषणगोचरम् । तत्पदं परमं विष्णोः प्रणमामः सदामलम्
यस्यायुतायुतांशांशे विश्वशक्तिरियं स्थिता । परं ब्रह्मस्वरूपं यत् प्रणमामस्तमव्ययम्
यन्न देवा न मुनयो न चाहं न च शंकरः । जानन्ति परमेशस्य तद्रिष्णोः परम पदम्
यदू योगिनः सदोदूयुक्ताः पुण्यपापक्षयेऽक्षयम् । पश्यन्ति प्रणावे चिन्त्यं तद्रिष्णोः परमं पदम्
शक्तयो यस्य देवस्य ब्रह्मविष्णुशिवादिकाः । भवन्त्यभूतपूर्वस्य तद्रिष्णोः परमं पदम्
सव्वेश सर्व्वभूतात्मन् सर्व्व सर्वाश्रयाच्युत । प्रसीद विष्णो भक्तानां भक्तानां व्ररकज नो दृष्टिगोचरम्
इत्युदीरितमाकर्ण्य ब्रह्मणस्त्रिदशास्ततः । प्रणम्योचुः प्रसीदेति व्रज नो दृष्टिगोचरम्
यन्नाय भगवान् ब्रह्मा जानाति परमं पदम् । तन्नताः स्म जगद्धा तव सर्व्व गताच्युत
इत्यन्ते वचसस्तेषां देवानां ब्रह्मणस्तथा । ऊचुर्देवर्षयः सर्व्वै बृहस्पतिपुरोगमाः
आद्यो यज्ञपुमानिडयो यः सर्व्वेषाञ्च पूर्व्वजः । तं नताः स्म जगत्स्त्रष्टुः स्त्रष्टारमविशेषणम्
भगवन् भूतभव्येश जगन्मूर्त्तिधराव्यय । प्रसीद प्रणतानां त्वं सर्व्वेषां देहि दर्शनम्
एष ब्रह्मा तथैवायं सह रुदैस्त्रिलोचनः । सर्वादित्यः समं पूषा पावकोऽय सहाग्निभिः
अश्विनौ वसवश्चेमे सव चैते मरुदूगणाः । साध्या विश्वे तथा देवा देवेन्द्रश्चायमीश्वरः
प्रणामप्रवणा नाथ दैत्यसैन्यपराजिताः । शरणां त्वामनुप्राप्ताः समस्ता देवतागणाः
एव संस्तूयमानस्तु भगवाञ्छरङ्वचक्रधूक् । जगाम दर्शनं तेषां मैत्रेय परमेश्वरः
तं दृष्ट्वा ते तदा देवाः शर्ङ्वचक्रगदाधरम् । अपूर्व्वरूपसंस्थानं तेजसां राशिमूर्ज्जितम्
प्रणम्य प्रणताः पूर्व्वं संक्षोभस्तिमितेक्षणाः । तुष्टुवुः पुण्डरीकाक्षं पितामहपुरोगमाः
नमो नमोऽविशेषस्त्वं त्वं ब्रह्मा त्वं पिनाकधृक् । इन्द्रस्त्वमग्रिः पवनो वरुणः सविता यमः
वसवो मरुतः साध्या विश्वे देवगणा भवान् । योऽयं तवागतो देव समीपं देवतागणः
स त्वमेव जगत्स्त्रष्टा यतः सर्व्वगतो भवान् । त्वं यज्ञस्त्वं वषटूकारस्त्वमोङ्करः प्रजापतिः
वेद्यावेद्यञ्च सर्व्वात्मंस्त्वन्मयञ्चाखिलं जगत् । त्वामत्र शरणां विष्णो प्रयाता दैत्यनिर्ज्जिताः
वयं प्रसीद सर्वात्मंस्तेजस्याप्याययस्व नः । तावदर्त्तिस्तथा वाञ्छा तावन्मोहस्तथासुखम्
यावन्नायाति शरणं त्वामशेषाघनाशनम् । त्वं प्रसादं प्रसन्नात्मन् प्रपन्नानां कुरुष्व नः
तेजसां नाथ सर्वेषां स्वशत्त्याप्यायनं कुरु