इत्युत्तवा प्रययौ विप्रो देवराजोऽपि तं पुनः । आरुह्म रावतं ब्रह्मन् प्रययावमरावतीम्
ततः प्रभृति निःश्रीकं सशक्र भुवनत्रयम् । मैत्रैयासीदपध्वस्तं संक्षीणौषधिवीरुधम्
न यज्ञाः संप्रवर्त्तन्ते न तपस्यन्ति तापसाः । न च दानादिधर्मषु मनश्चक्रे तदा जनः
निसत्त्वा सकला लोका लोभाद्यु पहतेन्दिरियाः । स्वल्पेऽपि हि बभूवुस्ते साभिलाषा द्रिजोत्तम
यतः सत्त्वं ततो लक्ष्मीः सत्त्वं भूत्यनुसारि च । निःश्रीकाणां कुतः सत्वं विना तेन गुणाः कुतः
बलशौर्य्याद्यभावश्च पुरुषाणां गुणौर्व्विना । लङ्वनीयः समस्तस्य बलशौर्य्य विवर्जितः
भवत्यपध्वस्तमतिर्लङूघितः प्रथितः पुमान् एवमत्यन्तनिःश्रीके त्रैलोक्ये सत्त्ववर्ज्जिते
देवान् प्रति बलोद्योगं चक्रु र्दैतेयदानवाः । लोभाभिभूता निश्रीका दैत्याः सत्त्वविवर्जिताः
श्रिया विहीनैर्निः सत्त्वैर्देवैश्चक्रु स्ततो रणम् । विजितास्त्रिदशा दैत्य रिन्द्राद्याः शरणां ययुः
पितामहं महाभागं हुताशनपुरोगमाः । यथावत् कथिते देवैर्ब्र ह्मा प्राह ततः सुरान्
परापरेशं शरणां ब्रजध्वमसुरार्द्दनम् । उत्पत्तिस्थितिनाशानामहेतुं हेतुमीश्वरम्
प्रजापतिपतिं विष्णुमनन्तमपराजितम् । प्रधानपुंसोरजयोः कारणं कार्य्य भूतयोः
प्रणतार्त्तिहरं विष्णुं स वः श्र यो विधास्यति । एवभुतवा सुरान् सर्व्वान् ब्रह्मा लोकपितामहः । क्षीरोदस्योत्तरे तीरं तैरेव सहितो ययौ
स गत्वा त्रिदशः सर्व्वैः समवेतः पितामहः । तुष्टाव वागुभिरिष्टाभिः परापरपतिं हरिम्
नमाम सर्व्व सर्व्वशमनन्तमजमव्ययम् । लोकधामधराधारमप्रकाशमभदिनम्
नारायणमणीयांसमशेषाणानणीयसाम् । समस्तानां गरिष्ठं यदू भूरादीनां गरीयसाम्
यत्र सर्व्व यतः सर्व्वमुत्पन्नं सतुपुरःसरम् । सर्व्वभूतश्च यो देवः पराणामपि यः परः
परः परस्मात् पुरुषात् परमात्मस्वरूपधृक् । योगिभिश्चिन्त्यते योऽसौ मुक्तिहेतुर्म्मुक्षुभिः
सत्तादयो न सन्तीशे यत्र च प्राकृता गुणाः । स शुद्धः सर्व्वशुद्ध भ्यः पुमानाद्यः प्रसीदतु
कला - काष्ठा-निमेषादिकालसूत्रस्य गोचरे । यस्य शक्तिर्न शुद्धस्य प्रसीदतु स नो हरिः
प्रोच्यते परमेशो हि यः शुद्धोऽप्युपचारतः । प्रसीदतु स नो विष्णुरात्मा यः सर्व्वदेहिनाम्
यः कारणञ्च कार्य्य ञ्च कारणस्यापि कारणम् । कार्य्यापि च यः कार्य्य प्रसीदतु स नो हरिः
कार्य्यकार्य्यश्य यः कार्य्य तत्कार्यस्यापि यः स्वयम् । तत्कार्य्यकार्य्यभूतो यस्ततश्च प्रणताः स्म तम्
कारणां कारणस्यापि तस्य कांरणकारणम् । तत्कारणानां हेतुं त्वां प्रणताः स्म सुरेश्वरम्
भोक्तारं भोज्यभूतञ्ज स्त्रष्टारं सृस्टमेव च । कार्य्य कर्म्मस्वरूपं तं प्रणताः स्म परं पदम्
विशुद्ध बोधनं नित्यमजमक्षयमव्ययम् । अव्यक्तमविकारं यत् तद्रिष्णोः परमं पदम्
न स्थूलं न च सूक्ष्मं यन्न विशेषणगोचरम् । तत्पदं परमं विष्णोः प्रणमामः सदामलम्
यस्यायुतायुतांशांशे विश्वशक्तिरियं स्थिता । परं ब्रह्मस्वरूपं यत् प्रणमामस्तमव्ययम्
यन्न देवा न मुनयो न चाहं न च शंकरः । जानन्ति परमेशस्य तद्रिष्णोः परम पदम्
यदू योगिनः सदोदूयुक्ताः पुण्यपापक्षयेऽक्षयम् । पश्यन्ति प्रणावे चिन्त्यं तद्रिष्णोः परमं पदम्