ततो वायुर्विकुर्णाणो रूपमात्रं ससर्ज ह । ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते
स्पर्शमात्रं तु वै वायू रूपमात्रं समावृणोत् । ज्योतिश्चापि विकृर्वाणं रसमात्रं ससर्ज ह
सम्भवन्ति ततोऽम्भांसि रसाधाराणि तानि च र। रसमात्राणि चाम्भांसि रूपमात्रं समावृणोत्
विकुर्वाणानि चाम्भांसि गन्धमात्रं ससर्जिरे । संघातो जायते तस्मात्तस्य गन्धो गुणो मतः
तस्मिंस्तस्मिंस्तु तन्मात्रं तेन तन्मात्रता स्मृता
तन्मात्राण्यविशेषाणि अविशेषास्ततो हि ते
न शान्ता नापि घोरास्ते न मूढाश्चाविशेषिणः । भूततन्मात्रसर्गोऽयमहकांरात्तु तामसात्
तैजसानीन्द्रीयाण्याहूर्देवा वैकारिका दश । एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः
त्वक् चक्षुर्नासिका जिह्वा श्रोत्रमत्र च पत्र्चमम् । शब्दादीनामवाप्त्यर्थं बुद्धीयुक्तानि वै द्विज
पायूपस्थौ करौ पादौ वाक् च मैत्रेय पत्र्चमी । विसर्गशिल्पगत्युक्ति कर्म तेषां च कथ्यते
आकाशवायुतेजांसि सलिलं पृथिवी तथा । शब्दादिभिर्गुणैर्ब्रह्मन्संयुक्तान्युत्तरोत्तरैः
शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः
नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना । नाशक्रुवन्प्रजाः स्त्रष्टुमसमागम्य कृत्स्त्रशः
समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । एकसंघातलक्ष्याश्च सम्प्राप्यैक्यमशेषतः
पुरुषाधिष्ठितताच्च प्रधानानुग्रहेण च महदाद्या विशेषान्ता ह्माण्डमुत्पादयन्ति ते
तत्क्रमेण विवृद्धं सज्जलबुदबुदवत्समम् । भूतेभ्योऽण्डं महाबुद्धें महत्तदुदकेशयम् । प्राकृतं ब्रह्मरूपयस्य विष्णोः स्थानमनुत्तमम्
तत्राव्यक्तस्वरूपोऽसौ व्यक्तरूपो जगत्पतिः । विष्णुर्ब्रह्मस्वरूपेण स्वयमेव व्यवस्थितः
मेरुरुल्बमभूत्तस्य जरायुश्च महीधराः । गर्भोदकं समुद्राश्च तस्यासन्सुमहात्मनः
साद्रिद्वीपसमुद्राश्च सज्योतिर्लोकसंग्रहः । तस्मिन्नण्डेऽभवद्विप्र सदेवासुरमानुषः
वारिवह्न्यनिलाकाशैस्ततो भूतादिना बहिः । वृतं दशगुणैरण्डं भूतादिर्महता तथा
अव्यक्तेनावृतो ब्रह्मांस्तैः सर्वोः सहितो महान् । एभिरावरणैरण्डं सप्तभिः प्राकृतैर्वृतम् । नारिकेलफलस्यान्तर्बीजं बाह्मदलैरिव
जुषन रजो गुणं तत्र स्वयं विश्वेश्वरो हरिः । ब्रह्मा भूत्वास्य जगतो विसृष्टौ सम्प्रवर्त्तते
सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना । सत्त्वभृद्भगवान्विष्णुरप्रमेयपराक्रमः
तमोद्रेकी चा कल्पान्ते रुद्ररूपी जनार्दनः । मैत्रेयाखिलभूतानि भक्षयत्यतिदारुणः
भक्षयित्वा च भूतानि जगत्येकार्णवीकृते । नागपर्यंकशयने शेते च परमेश्वरः
प्रबुद्धश्च पुनः सृष्टिं करोति ब्रह्मरूपधृक्
सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् । स संज्ञां याति भगवानेक एव जनार्दनः
स्त्रष्टा सृजति चात्मानं विष्णुः पाल्यंच पाति च । उपसंह्रियते चान्ते संहर्ता च स्वयं प्रभुः
पृथिव्यापस्तथा तेजो वायुराकाश एव च ।. सर्वोन्द्रियान्तः करणं पुरुषाख्यं हि यज्जगत्
स एव सर्वभूतात्मा विश्वरूपो यतोऽव्ययः । सर्गादिकं तु तस्यैव भूतस्थमुपकारकम्