याचिता तेन तन्वङ्गी मालां विद्याधराङ्गना । ददौ तस्मै विशालाक्षी सादरं प्रणिपत्य च
तामादायात्मनो मूर्ध्रि स्त्रजमुन्मत्तरूपधृक् । कृत्वा स विप्रो मैत्रय परिबभ्राम मेदिनीम्
स ददर्श समायान्तमुन्मत्तैरावतस्थितम् । त्रैलोक्याधिपतिं देवं सह देवैः शचीपतिम्
तामात्मनः स शिरसः स्त्रजमुन्मत्तषटूपदाम् । आदायामरराजाय चिक्षेपोन्मत्तवन्मुनिः
गृहीत्वामराराजेन स्त्रगैरावतमूर्द्धनि । न्यस्ता रराज कैलासशिखरे जाह्नवी यथा
मदान्धकारिताक्षोऽसौ गन्धाकृष्टेन वारणाः । करेणाघ्राय चिक्षेप तां स्रजं धरणीतले
ततश्चुक्रोध भगवातन् दुर्वासा मुनिसत्तमः । मैत्रेय देवराजं तं क्रु द्धश्चैतदुवाच ह
दुर्वासा उवाच । ऐश्वर्यमत्त दुष्टात्मन्नतिस्तब्धोऽसि वासव । श्वियो धाम स्रजं यस्त्वं मद्दत्तां नाभिनन्दसि
प्रसाद इति नोक्तं ते प्रणिपातपुरः सरम् । हर्षोतूफुल्लकापोलेन न चापि शिरसा धृता
मया दत्तामिमां मालां यस्मान्न बहु मन्यसे । त्रैलोक्यश्रीरतो मूढ़ विनाशमुपयास्यति
मां मन्यतेऽन्यैः सदृशं न्यूनं शक्र भवान् द्रिजैः । अतोऽवमानमस्माकं मानिना भवता कृतम्
मद्दत्ता भवता यस्मात् क्षिप्ता माला महीतले । तस्मात् प्रनष्टलक्ष्मीकं त्रैलोक्यं ते भवतिष्यति
यस्य सञ्जातकोपस्य भयमेति चराचरम् । तं त्वं मामतिगर्वेणा देवराजावमन्यसे
महेन्द्रो वारणस्कन्धादवतीर्य्य त्वरान्वितः । प्रसादयामास तदा दुर्वाससमकल्मषम्
प्रसाद्यामानः स तदा प्रणिपातपुरः सरम् । प्रत्युवाच सहस्राक्षं दुर्व्वासा मुनिसत्तमः
नाहं कृपालुह्टदयो न च मां भजते क्षमा । अन्ये ते मुनयः शक्र दुर्व्वाससमवेहि माम्
गौतमादिबिरन्यस्त्वं गर्व्वमापादितो मुधा । अक्षान्तिसारसर्वस्वं दुर्वाससमवेहि माम्
वसिष्ठाद्यदैयासारैः स्तोत्रं कुर्व्वद्भिरुज्वकैः । गर्व्व गतोऽसि येनैवं मामप्यद्यावमन्यसे
ज्वलज्जटाकलापस्य भृकुटीकुटिलं मुखम । निरीक्ष्य कस्त्रिभुवने मम यो न गतो भयम्
नाहं क्षमिष्ये बहुना किमुक्तन शतक्रतो । विड़म्बनामिमां भूयः करोष्यनुनयात्मिकाम्
इत्युत्तवा प्रययौ विप्रो देवराजोऽपि तं पुनः । आरुह्म रावतं ब्रह्मन् प्रययावमरावतीम्
ततः प्रभृति निःश्रीकं सशक्र भुवनत्रयम् । मैत्रैयासीदपध्वस्तं संक्षीणौषधिवीरुधम्
न यज्ञाः संप्रवर्त्तन्ते न तपस्यन्ति तापसाः । न च दानादिधर्मषु मनश्चक्रे तदा जनः
निसत्त्वा सकला लोका लोभाद्यु पहतेन्दिरियाः । स्वल्पेऽपि हि बभूवुस्ते साभिलाषा द्रिजोत्तम
यतः सत्त्वं ततो लक्ष्मीः सत्त्वं भूत्यनुसारि च । निःश्रीकाणां कुतः सत्वं विना तेन गुणाः कुतः
बलशौर्य्याद्यभावश्च पुरुषाणां गुणौर्व्विना । लङ्वनीयः समस्तस्य बलशौर्य्य विवर्जितः
भवत्यपध्वस्तमतिर्लङूघितः प्रथितः पुमान् एवमत्यन्तनिःश्रीके त्रैलोक्ये सत्त्ववर्ज्जिते
देवान् प्रति बलोद्योगं चक्रु र्दैतेयदानवाः । लोभाभिभूता निश्रीका दैत्याः सत्त्वविवर्जिताः
श्रिया विहीनैर्निः सत्त्वैर्देवैश्चक्रु स्ततो रणम् । विजितास्त्रिदशा दैत्य रिन्द्राद्याः शरणां ययुः
पितामहं महाभागं हुताशनपुरोगमाः । यथावत् कथिते देवैर्ब्र ह्मा प्राह ततः सुरान्