इच्छा श्रीर्भगवान्कामो यज्ञोऽसौ दक्षिणा त्वियम् । आज्याहुतिरसौ देवी पुरोडाशो जनार्दनः ॥ १,८.
पत्नीशाला मुने लक्ष्मीः प्राग्वंशौ मधुसूदनः । चितिर्लक्ष्मीर्हरिर्यूप इध्मा श्रीर्भगवान्कुशः ॥ १,८.
सामास्वरूपी भगवानुद्गीतिः कमलालया । स्वाहा लक्ष्मीर्जगन्नाथो वासुदेवो हुता शनः ॥ १,८.
शङ्करो भगवाञ्छौरिर्गौरीलक्ष्मीर्द्विजोत्तम । मैत्रेय केशवः सूर्यस्तत्प्रभा कमलालया ॥ १,८.
विष्णुः पितृगणः पद्मा स्वधा शाश्वतपुष्टिदा । द्यौः श्रीः सर्वात्मको विष्णुरवकाशोतिविस्तरः ॥ १,८.
शशाङ्कः श्रीधरः कान्तिः श्रीस्तथैवानपायिनी । धृतिर्लक्ष्मीर्जगच्चेष्टा वायुः सर्वत्रगो हरिः ॥ १,८.
जलधिर्द्विजगोविन्दस्तद्वेला श्रीर्महामुने । लक्ष्मीस्वरूपमिन्द्राणी देवेन्द्रो मधुसूदनः ॥ १,८.
यमश्चक्रधरः साक्षाद्धूमोर्णा कमलालया । ऋद्धिः श्रीः श्रीधरो देवः स्वयमेव धनेश्वरः ॥ १,८.
गौरी लक्ष्मीमंहाबागा केशवो वरुणः स्वयम् । श्रीर्देवसेना विप्रेन्द्र देवसेनापतिर्हरिः ॥ १,८.
अवष्टंभो गदापाणिः शक्तिर्लक्ष्मीर्द्विजोत्तम । काष्ठा लक्ष्मीर्निमेषोऽसौ मुहूर्तोऽसौ कला त्वियम् ॥ १,८.
ज्योत्स्ना लक्ष्मीः प्रदीपोऽसौ सर्वः सर्वेश्वरो हरिः । लताभूता जगन्माता श्रीर्विष्णुर्द्रुमसंज्ञितः ॥ १,८.
विभावरी श्रीर्दिवसो देवचक्रगदाधरः । वरप्रदो वरो विष्णुर्वधूः पद्मवनाल या ॥ १,८.
नदस्वरूपी भगवाञ्छ्रीर्नदीरूपसंस्थिता । ध्वजश्च पुण्डरीकाक्षः पताका कमलालया ॥ १,८.
तृष्णा लक्ष्मीर्जगन्नाथो लोभो नारायणः परः । रती रागश्च मैत्रेय लक्ष्मीर्गोविन्द एव च ॥ १,८.
किं चातिबहुनोक्तेन संक्षेपेणेदमुच्यते ॥ १,८.
देवतिर्यङ्मनुष्यादौ पुन्नामा भगवान्हरिः । स्त्रीनाम्नी श्रीश्च विज्ञेया नानयोर्विद्यते परम् ॥ १,८.
पराशर उवाच । इदञ्च श्वृण मैत्रेय यत् पृष्टोऽहमिह त्वया । श्रीसम्बद्ध मया ह्म तच्छ्र तमासीनूमरीचितः
दुर्व्वासाः शङ्करस्यांशश्चचार पृथिवीमिमाम् । स ददर्श स्त्रजं दिव्यामषिर्विद्याधरीकरे
सन्तानाकानामखिलं यस्या गन्धेन वासितम् । अतिसेव्यमभूद् ब्रह्मनू तदूवनं वनचारिणाम्
उन्मत्तव्रतधृगू विप्रस्तां दृष्ट्वा शोभनां स्त्रजम् तां ययाचे वरारोहां विद्याधरवधूं ततः
याचिता तेन तन्वङ्गी मालां विद्याधराङ्गना । ददौ तस्मै विशालाक्षी सादरं प्रणिपत्य च
तामादायात्मनो मूर्ध्रि स्त्रजमुन्मत्तरूपधृक् । कृत्वा स विप्रो मैत्रय परिबभ्राम मेदिनीम्
स ददर्श समायान्तमुन्मत्तैरावतस्थितम् । त्रैलोक्याधिपतिं देवं सह देवैः शचीपतिम्
तामात्मनः स शिरसः स्त्रजमुन्मत्तषटूपदाम् । आदायामरराजाय चिक्षेपोन्मत्तवन्मुनिः
गृहीत्वामराराजेन स्त्रगैरावतमूर्द्धनि । न्यस्ता रराज कैलासशिखरे जाह्नवी यथा
मदान्धकारिताक्षोऽसौ गन्धाकृष्टेन वारणाः । करेणाघ्राय चिक्षेप तां स्रजं धरणीतले
ततश्चुक्रोध भगवातन् दुर्वासा मुनिसत्तमः । मैत्रेय देवराजं तं क्रु द्धश्चैतदुवाच ह
दुर्वासा उवाच । ऐश्वर्यमत्त दुष्टात्मन्नतिस्तब्धोऽसि वासव । श्वियो धाम स्रजं यस्त्वं मद्दत्तां नाभिनन्दसि
प्रसाद इति नोक्तं ते प्रणिपातपुरः सरम् । हर्षोतूफुल्लकापोलेन न चापि शिरसा धृता
मया दत्तामिमां मालां यस्मान्न बहु मन्यसे । त्रैलोक्यश्रीरतो मूढ़ विनाशमुपयास्यति