मनवो मनुपुत्राश्च भूपा वीर्यधराश्च ये । सन्मार्गनिरताः शूरास्ते सर्वे स्थितिकारिणः ॥ १,७.
श्रीमैत्रेय उवाच येयं नित्या स्थितिर्ब्रह्मन्नित्यसर्गस्तथेरितः । नित्याभावश्च तेषां वै स्वरूपं मम कथ्यताम् ॥ १,७.
श्रीपराशर उवाच सर्गस्थितिविनाशांश्च भगवान्मधुसूदनः । तैस्तै रूपैरचिन्त्यात्मा करोत्यव्याहतो विभुः ॥ १,७.
नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको द्विज । नित्यश्च सर्वभूतानां प्रलयोऽयं चतुर्विधः ॥ १,७.
ब्रह्मो नैमित्तिकस्तत्र च्छेतेयं जगतीपतिः । प्रयाति प्राकृतं चैव ब्रह्मण्डं प्रकृतौ लयम् ॥ १,७.
ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि । नित्यः सदैव भूतानां यो विनाशो दिवानिशम् ॥ १,७.
प्रसूतिः प्रकृतेर्या तु सा सृष्टिः प्राकृता स्मृता । दैनन्दिनी तथा प्रोक्ता नान्तरप्रलयादनु ॥ १,७.
भूतान्यनुदिने यत्र जायन्ते मुनिसत्तम । नित्यसर्गो हि स प्रोक्तः पुराणार्थविचक्षणैः ॥ १,७.
एवं सर्वशरीरेषु भगवान्भूतभावनः । संस्थितः कुरुते विष्णुरुत्पत्तिस्थितिसंयमान् ॥ १,७.
सृष्टि स्थितिविनाशानां शक्तयः सर्वदेहिषु । वैष्णव्यः परिवर्तन्ते मैत्रेयाहर्निशं समाः ॥ १,७.
गुणत्रयमयं ह्यतद्ब्रह्यन् शक्तित्रयं महत् । योऽतियाति सा यात्येव परं नावर्तते पुनः ॥ १,७.
श्रीपारशर उवाच कथितस्तामसः सर्गो ब्रह्मणस्ते महामुने । रुद्रसर्गं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ १,८.
कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः । प्रादुरासीत्प्रभोरङ्के कुमारो नीललोहितः ॥ १,८.
रुरोद सुस्वरं सोथ प्राद्रवद्दि जसत्तम । किं त्वं रोदिषि तं ब्रह्म रुदन्तं प्रत्युवाच ह ॥ १,८.
नाम देहीति तं सोऽथ प्रत्युवाच प्रजापतिः । रुद्रस्त्वं देवनाम्नासि मारो दीर्धैर्यमावह । एवमुक्तः पुनः सोऽथ सप्तकृत्वो रुरोद वै ॥ १,८.
ततोन्यानि ददौ तस्मै सप्त नामानि वै प्रभुः । स्थानानि चैषामष्टानां पत्नीः पुत्रांश्च स प्रभुः ॥ १,८.
भवं शर्वमथेशानं तथा पशुपतिं द्विज । भीममुग्रं महादेवमुवाच स पितामहः ॥ १,८.
चक्रे नामान्यथैतानि स्थानान्येषां चकार सः । सूर्यो जलं मही वायुर्वह्निराकाशमेव च । दीक्षितो ब्रह्मणः सोम इत्येतास्तनवः क्रमात् ॥ १,८.
सुवर्चला तथैवोषा विकेशी चापरा शिवा । स्वाहा दिशस्तथा दीक्षा रोहिणी च यथाक्रमम् ॥ १,८.
सूर्यादीनां द्विजश्रेष्ठ रुद्राद्यैर्नामभिः सह । पत्न्यः स्मृता महाभाग तदपत्यानि मे शृणु ॥ १,८.
एषां सूतिप्रसूतिभ्यामिदमापूरितं जगत् ॥ १,८.
शनैश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः । स्कन्दः सर्गोऽथ सन्तानो बुधश्चानुक्रमात्सुताः ॥ १,८.
एवंप्रकारो रुद्रोऽसौ सतीं भार्यामनिन्दिताम् । उपयेमे दुहितरं रक्षस्यैव प्रजापतेः ॥ १,८.
दक्षकोपाच्च तत्याज स सती स्वकलेवरम् । हिमवद्दुहित साभून्मेनायां द्विजसत्तम ॥ १,८.
उपयेमे पुनश्चोमामनन्यां भगवान्हरः ॥ १,८.
देवौ धातृविधातारौ भृगोः ख्यातिरसूयत । श्रियं च देवदेवस्य पत्नी नारायणस्य या ॥ १,८.
श्रीमैत्रेय उवाच क्षीराब्धौ श्रीः समुत्पन्ना श्रूयतेऽमृतमन्थने । भृगोः ख्यात्यां समुत्पन्नेत्येतदाह कथं भवात् ॥ १,८.
श्रीपराशर उवाच नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनि । यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम ॥ १,८.
अर्थो विष्णुरियं वाणी नीतिरेषा नयो हरिः । बोधो विष्णुरियं बुद्धिर्धर्मोऽसौ सत्क्रिया त्वियम् ॥ १,८.
स्त्रष्टा विष्णुरियं सृष्टिः श्रीर्भूमिर्भूधरो हरिः । सन्तोषो भगवाल्लङ्क्ष्मीस्तुष्टिर्मैत्रेय शाश्वती ॥ १,८.