श्रद्धा कामं चला दर्पं नियमं धृतिरात्मजम् । सन्तोषं च तथा तुष्टिर्लोभं पुष्टिरसूयत ॥ १,७.
मेधा श्रुतं क्रिया दण्डं नयं विनयमेव च ॥ १,७.
बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् । व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयता ॥ १,७.
सुखं सिद्धिर्यशः कीर्तिरित्येते धर्मसूनवः । कामाद्रतिः सुतं हर्षं धर्मपौत्रमसूयत ॥ १,७.
हिंसा भार्या त्वधर्मस्य ततो जज्ञे तथानृतम् । कन्या च निकृतिस्ताभ्यां माया जज्ञे च वेदना ॥ १,७.
माया च वेदना चैव मिथुनं त्विदमेतयोः । तयोर्जज्ञेथ वै माया मृत्युं भूतापहारिणम् ॥ १,७.
वेदना स्वसूतं चापि दुःखं जज्ञेऽथ रौरवात् । मृत्योर्व्याधिजराशोकतृष्णक्रोधाश्च जज्ञिरे ॥ १,७.
दुःखोत्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः । नैषां पुत्रोस्ति वै भार्या ते सर्वे ह्यूर्ध्वरेतसः ॥ १,७.
रौद्राण्येतानिरूपाणि विष्णोर्मुनिवरात्मज । नित्यप्रलयहेतुत्वं जगतोस्य प्रयान्ति वै ॥ १,७.
दक्षो मरीचिरत्रिश्च भृग्वाद्याश्च प्रजेश्वराः । जगत्यत्र महाभाग नित्यसर्गस्य हेतवः ॥ १,७.
मनवो मनुपुत्राश्च भूपा वीर्यधराश्च ये । सन्मार्गनिरताः शूरास्ते सर्वे स्थितिकारिणः ॥ १,७.
श्रीमैत्रेय उवाच येयं नित्या स्थितिर्ब्रह्मन्नित्यसर्गस्तथेरितः । नित्याभावश्च तेषां वै स्वरूपं मम कथ्यताम् ॥ १,७.
श्रीपराशर उवाच सर्गस्थितिविनाशांश्च भगवान्मधुसूदनः । तैस्तै रूपैरचिन्त्यात्मा करोत्यव्याहतो विभुः ॥ १,७.
नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको द्विज । नित्यश्च सर्वभूतानां प्रलयोऽयं चतुर्विधः ॥ १,७.
ब्रह्मो नैमित्तिकस्तत्र च्छेतेयं जगतीपतिः । प्रयाति प्राकृतं चैव ब्रह्मण्डं प्रकृतौ लयम् ॥ १,७.
ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि । नित्यः सदैव भूतानां यो विनाशो दिवानिशम् ॥ १,७.
प्रसूतिः प्रकृतेर्या तु सा सृष्टिः प्राकृता स्मृता । दैनन्दिनी तथा प्रोक्ता नान्तरप्रलयादनु ॥ १,७.
भूतान्यनुदिने यत्र जायन्ते मुनिसत्तम । नित्यसर्गो हि स प्रोक्तः पुराणार्थविचक्षणैः ॥ १,७.
एवं सर्वशरीरेषु भगवान्भूतभावनः । संस्थितः कुरुते विष्णुरुत्पत्तिस्थितिसंयमान् ॥ १,७.
सृष्टि स्थितिविनाशानां शक्तयः सर्वदेहिषु । वैष्णव्यः परिवर्तन्ते मैत्रेयाहर्निशं समाः ॥ १,७.
गुणत्रयमयं ह्यतद्ब्रह्यन् शक्तित्रयं महत् । योऽतियाति सा यात्येव परं नावर्तते पुनः ॥ १,७.
श्रीपारशर उवाच कथितस्तामसः सर्गो ब्रह्मणस्ते महामुने । रुद्रसर्गं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ १,८.
कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः । प्रादुरासीत्प्रभोरङ्के कुमारो नीललोहितः ॥ १,८.
रुरोद सुस्वरं सोथ प्राद्रवद्दि जसत्तम । किं त्वं रोदिषि तं ब्रह्म रुदन्तं प्रत्युवाच ह ॥ १,८.
नाम देहीति तं सोऽथ प्रत्युवाच प्रजापतिः । रुद्रस्त्वं देवनाम्नासि मारो दीर्धैर्यमावह । एवमुक्तः पुनः सोऽथ सप्तकृत्वो रुरोद वै ॥ १,८.
ततोन्यानि ददौ तस्मै सप्त नामानि वै प्रभुः । स्थानानि चैषामष्टानां पत्नीः पुत्रांश्च स प्रभुः ॥ १,८.
भवं शर्वमथेशानं तथा पशुपतिं द्विज । भीममुग्रं महादेवमुवाच स पितामहः ॥ १,८.
चक्रे नामान्यथैतानि स्थानान्येषां चकार सः । सूर्यो जलं मही वायुर्वह्निराकाशमेव च । दीक्षितो ब्रह्मणः सोम इत्येतास्तनवः क्रमात् ॥ १,८.
सुवर्चला तथैवोषा विकेशी चापरा शिवा । स्वाहा दिशस्तथा दीक्षा रोहिणी च यथाक्रमम् ॥ १,८.
सूर्यादीनां द्विजश्रेष्ठ रुद्राद्यैर्नामभिः सह । पत्न्यः स्मृता महाभाग तदपत्यानि मे शृणु ॥ १,८.