तस्मात्तु पुरुषाद्देवी शतरूपा व्यजायत । प्रियव्रतोत्तानपादौ प्रसूत्याकूतिसंज्ञितम् ॥ १,७.
कन्याद्वयं च धर्मज्ञ रूपौदार्यगुणान्वितम् । ददौ प्रसूतिं दक्षाय आकूतिं रुचये पुरा ॥ १,७.
प्रजापतिः स जग्राह तयोर्जज्ञे सदक्षिणः । पुत्रो यज्ञे महाभाग दम्पत्योर्मिथुनं ततः ॥ १,७.
यज्ञस्य दक्षिणायां तु पुत्रा द्वादश जज्ञिरे । यामा इति समाख्याता देवाः स्वायंभुवे मनौ ॥ १,७.
प्रसूत्यां च तथा दक्षश्चतस्त्रो विंशतिस्तथा । ससर्ज कन्यास्तासां च सम्यङ्नामानि मे शृणु ॥ १,७.
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिर्मेधा पुष्टिस्तथा क्रिया । बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी ॥ १,७.
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः । ताभ्यः शिष्टयवीयस्य एकादश सुलोचनाः ॥ १,७.
ख्यातिः सत्यथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा । सन्ततिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥ १,७.
भृतुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः । पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा ॥ १,७.
अत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम । ख्यात्याद्य जगृहुः कन्या मुनयो मुनि सत्तम ॥ १,७.
श्रद्धा कामं चला दर्पं नियमं धृतिरात्मजम् । सन्तोषं च तथा तुष्टिर्लोभं पुष्टिरसूयत ॥ १,७.
मेधा श्रुतं क्रिया दण्डं नयं विनयमेव च ॥ १,७.
बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् । व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयता ॥ १,७.
सुखं सिद्धिर्यशः कीर्तिरित्येते धर्मसूनवः । कामाद्रतिः सुतं हर्षं धर्मपौत्रमसूयत ॥ १,७.
हिंसा भार्या त्वधर्मस्य ततो जज्ञे तथानृतम् । कन्या च निकृतिस्ताभ्यां माया जज्ञे च वेदना ॥ १,७.
माया च वेदना चैव मिथुनं त्विदमेतयोः । तयोर्जज्ञेथ वै माया मृत्युं भूतापहारिणम् ॥ १,७.
वेदना स्वसूतं चापि दुःखं जज्ञेऽथ रौरवात् । मृत्योर्व्याधिजराशोकतृष्णक्रोधाश्च जज्ञिरे ॥ १,७.
दुःखोत्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः । नैषां पुत्रोस्ति वै भार्या ते सर्वे ह्यूर्ध्वरेतसः ॥ १,७.
रौद्राण्येतानिरूपाणि विष्णोर्मुनिवरात्मज । नित्यप्रलयहेतुत्वं जगतोस्य प्रयान्ति वै ॥ १,७.
दक्षो मरीचिरत्रिश्च भृग्वाद्याश्च प्रजेश्वराः । जगत्यत्र महाभाग नित्यसर्गस्य हेतवः ॥ १,७.
मनवो मनुपुत्राश्च भूपा वीर्यधराश्च ये । सन्मार्गनिरताः शूरास्ते सर्वे स्थितिकारिणः ॥ १,७.
श्रीमैत्रेय उवाच येयं नित्या स्थितिर्ब्रह्मन्नित्यसर्गस्तथेरितः । नित्याभावश्च तेषां वै स्वरूपं मम कथ्यताम् ॥ १,७.
श्रीपराशर उवाच सर्गस्थितिविनाशांश्च भगवान्मधुसूदनः । तैस्तै रूपैरचिन्त्यात्मा करोत्यव्याहतो विभुः ॥ १,७.
नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको द्विज । नित्यश्च सर्वभूतानां प्रलयोऽयं चतुर्विधः ॥ १,७.
ब्रह्मो नैमित्तिकस्तत्र च्छेतेयं जगतीपतिः । प्रयाति प्राकृतं चैव ब्रह्मण्डं प्रकृतौ लयम् ॥ १,७.
ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि । नित्यः सदैव भूतानां यो विनाशो दिवानिशम् ॥ १,७.
प्रसूतिः प्रकृतेर्या तु सा सृष्टिः प्राकृता स्मृता । दैनन्दिनी तथा प्रोक्ता नान्तरप्रलयादनु ॥ १,७.
भूतान्यनुदिने यत्र जायन्ते मुनिसत्तम । नित्यसर्गो हि स प्रोक्तः पुराणार्थविचक्षणैः ॥ १,७.
एवं सर्वशरीरेषु भगवान्भूतभावनः । संस्थितः कुरुते विष्णुरुत्पत्तिस्थितिसंयमान् ॥ १,७.
सृष्टि स्थितिविनाशानां शक्तयः सर्वदेहिषु । वैष्णव्यः परिवर्तन्ते मैत्रेयाहर्निशं समाः ॥ १,७.