स्वर्गापवर्गौ मानुष्यात्प्राप्नुवन्ति नरा मुने । यच्चाभिरुचितं स्थानं तद्यान्ति मनुजा द्विज ॥ १,६.
प्रजास्ता ब्रह्मणा सृष्टाश्चातुर्वर्ण्यव्यवस्थि ताः । सम्यक्छ्रद्धाः समाचारप्रवणा मुनिसत्तम ॥ १,६.
यथेच्छावासनिरताः सर्वबाधाविवर्जिताः । शुद्धान्तः करणाः शुद्धाः कर्मानुष्ठा ननिर्मलाः ॥ १,६.
शुद्धे च तासां मनसि शुद्धेन्तःसंस्थिते हरौ । सुद्धज्ञानं प्रपश्यन्ति बिल्वाख्यं येन तत्पदम् ॥ १,६.
ततः कालात्म को योऽसौ स चांशः कथितो हरेः । स पातयत्यघं घोरमल्पमल्पाल्पसारवत् ॥ १,६.
अधर्मबीजमुद्भुतं तमोलोभसमुद्भवम् । प्रजासु तासु मैत्रेय रागादिकमसाधकम् ॥ १,६.
ततः सा सहजा सिद्धस्तासां नातीव जायते । रसोल्लासादयश्चान्याः सिद्धयोष्टौ भवन्ति याः ॥ १,६.
तासु क्षीणास्वशेषासु वर्धमाने च पातके । द्वन्द्वाभिभवदुःखार्तास्ता भवन्ति ततः प्रजाः ॥ १,६.
ततो दुर्गाणि ताश्चक्रुर्धान्वं पार्वतमौदकम् । कृत्रिमं च तथा दुर्गं पुरखर्वटकादिकम् ॥ १,६.
गृहीणि च यथान्यायं तेषु चकुः पुरादिषु । शीतातपादिबाधानां प्रशमाय महामते ॥ १,६.
प्रतीकारमिमं कत्वा शीतादेस्ताः प्रजाः पुनः । वार्तोपायं ततश्चक्रुर्हस्तसिद्धिं च कर्मजाम् ॥ १,६.
व्रीहयश्च यवाश्चैव गोधूमाश्चणवस्तिलाः । प्रियङ्गवो ह्युदा राश्च कोरदूषाः सतीनकाः ॥ १,६.
माषा मुद्गा मसूराश्च निष्पावाः सकुलात्थकाः । आढक्यश्चणकाश्चैव शणाः सप्तदश स्मृताः ॥ १,६.
इत्येता ओषधीनां तु ग्राम्यानां जातयो मुने । ओषध्यो यज्ञियाश्चैव ग्राम्यारण्याश्चतुर्दश ॥ १,६.
व्रीहयःसयवा माषा गोधूमाश्चाणव स्तिलाः । प्रियङ्गुसप्तमा ह्येते अष्टमास्तु कुलत्थकाः ॥ १,६.
श्यामाकास्त्वथ नीवारा जर्तिलाः सगवेधुकाः । तथा वेणुयवाः प्रोक्तस्तथा मर्कटका मुने ॥ १,६.
ग्राम्यारण्याः स्मृता ह्येता ओषध्यस्तु चतुर्दश । यज्ञनिष्पत्तये यज्ञस्तथासां हेतुरुत्तमः ॥ १,६.
एताश्च सह यज्ञेन प्रजानां कारणं परम् । परावरविदः प्राज्ञास्ततो यज्ञान्वितन्वेत ॥ १,६.
अहन्यहन्यनुष्ठानं यज्ञानां मुनिसत्तम । उपकारकरं पुंसां क्रियमाणा घशान्तिदम् ॥ १,६.
येषां तु कालसृषोऽसौ पापबन्दुर्महामुने । चेतःसु ववृधे चक्रुस्ते न यज्ञेषु मानसम् ॥ १,६.
वेदवादांस्तथा वेदान्यज्ञ कर्मादिकं च यत् । तत्सर्वं निन्दयामासुर्यज्ञव्यासेधकारिणः ॥ १,६.
प्रवृत्तिमार्गव्युच्छित्तिकारिणो वेदनिन्दकाः । दुरात्मानो दुराचारा बभूवुः कुटिलाशयाः ॥ १,६.
संसिद्धायां तु वार्तायां प्रजाः सृष्ट्वा प्रजापतिः । सर्यादां स्थापयामास यथास्थानं यथागुणम् ॥ १,६.
वर्णा नामाश्रमाणां च धर्मधर्मभृतां वर । लोकांश्च सर्ववर्णानां सम्यग्धर्मानुपालिनाम् ॥ १,६.
प्रजापत्यं ब्रह्मणानां स्मृतं स्थानं क्रियावताम् । स्थानमैन्द्रं क्षत्रियाणां संग्रमेष्वनिवर्तताम् ॥ १,६.
वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तिनाम् । गान्धर्वं शूद्रजातीनां.परिचर्यानुवर्तिनाम् ॥ १,६.
अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् । स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम् ॥ १,६.
सप्तर्षिणां तु यत्स्थानं स्मृतं तद्वै वनौकसाम् । प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मसंज्ञितम् ॥ १,६.
योगिनाममृतं स्थानं स्वात्मसंतोषकारिणाम् ॥ १,६.
एकान्तिनः सदा ब्रह्मध्यायिनो योगिनश्च ये । तेषां तु परमं स्थानं यत्तत्पश्यन्ति सूरयः ॥ १,६.