पादेषु वेदास्तव यूपदंष्ट्रा दन्तेषु जज्ञाश्चितयश्च वक्त्रे । हुताशजिह्वोसि तनूरुहाणि दर्भाः प्रभो यज्ञपुमांस्त्वमेव
विलोचने रात्र्! यहनी महात्मन्सर्वाश्रयं ब्रह्मपरं शिरस्ते । सूक्तान्यश्षोआ!णि सटाकलापो घ्राणं समस्तानि हवींषि देव
स्रुक्तुण्डसामस्वरधीरनादप्राग्वंशकायाखिलसत्रसन्धे । पूर्तेष्टधर्मश्रवणोसि देव सनातनात्मन्भगवन्प्रसीद
पदक्रमाक्रान्तभुवं भवन्तमादिस्थितं चाक्षरविश्वमूर्ते । विश्वस्य विद्मः परमेश्वरोऽसि प्रसीद नाथोसि परावरस्य
दंष्ट्राग्रविन्यस्तमश्षोमेतद्भूमण्डलं नाथ विभाव्यते ते । विगाहतः पद्मवनं विलग्नं सरोजिनीपत्रमिवोढपंकम्
द्यावापृथिव्योरतुलप्रभाव यदन्तरं तद्वपुषा तवैव । व्याप्तं जगद्व्याप्तिसमर्थदीप्ते हिताय विश्वस्य विभो भव त्वम्
परमार्थस्त्वमेवैको नान्योस्ति जगतः पते । तवैष महिमा येन व्याप्तमेतच्चराचरम्
यदेतदृश्यते मूर्त्तमेतज्ज्ञानात्मनस्तव । भ्रान्तिज्ञानेन पश्यन्ति जगद्रू पमयोगिनः
ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः । अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसंप्लवे
ये तु ज्ञानविदः शुद्धचेतसस्तेऽखिलं जगत् । ज्ञानात्मकं प्रपश्यन्ति त्वद्रू पं परमेश्वर
प्रसीद सर्व सर्वात्मन्भवाय जगतामिमाम् । उद्धरोर्वीममेयात्मञ्छन्नो देह्यब्जलोचन
सत्त्वोद्रि क्तोऽसि भगवन् गोविंद पृथिवीमिमाम् । समुद्धर भवायेश शन्नो देह्यब्जलोचन
सर्गप्रवृत्तिर्भवतो जगतामुपकारिणी । भवत्वेषा नमस्तेऽस्तु शन्नो देह्यब्जलोचन
श्रीपराशर उवाच। एवं संस्तूयमानस्तु परमात्मा महीधरः । उज्जहार क्षितिं क्षिप्रं न्यस्तवांश्च महाम्भसि
तस्योपरि जलौघस्य महती नौरिव स्थिता । विततत्त्वात्तु देहस्य न मही याति संप्लवम्
ततः क्षितिं समां कृत्वा पृथिव्यां सोचिनोद्गिरीन् । यथाविभागं भगवाननादिः परमेश्वरः
प्राक्यसर्गदग्धानखिलान्पर्वतान्पृथिवीतले । अमोघेन प्रभावेण ससर्जामोघवाञ्छितः
भूविभागं ततः कृत्वा सप्तद्वीपान्यथातथम् । भूराद्यांश्चतुरो लोकान्पूर्ववत्समकल्पयत्
ब्रह्मरूपधरो देवस्ततोऽसौ रजसा वृतः । चकार सृष्टिं भगवांश्चतुर्वक्त्रधरो हरिः
निमित्तमात्रमेवाऽसौ सृज्यानां सर्गकर्मणि । प्रधानकारणीभूता यतो वै सृज्यशक्तयः
निमित्तमात्रं मुक्त्वैवं नान्यत्किंचिदपेक्षते । नीयते तपतां श्रेष्ठ स्वशक्त्या वस्तु वस्तुताम्
श्रीमैत्रेय उवाच अर्वाक्स्रोतास्तु कथितो भवता यस्तु मानुषः । ब्रह्मन्विस्तरतो ब्रूहि ब्रह्म तमसृजद्यथा ॥ १,६.
यथा च वर्णानसृजद्यद्गुणां श्च प्रजापतिः । यच्च तेषां स्मृतं कर्म विप्रादीनां तदुच्यताम् ॥ १,६.
श्रीपराशर उवाच सत्याभिध्यायिनः पूर्वं सिसृक्षेर्ब्रह्मणो जगत् । अजायन्त द्विजश्रेष्ठ सत्त्वोद्रिक्ता मुखात्प्रजाः ॥ १,६.
वक्षमो रजसोद्रिक्तास्तथा वै ब्रह्मणोऽभवन् । रजसा तमसा चैव समुद्रिक्तास्तथोरुतः ॥ १,६.
पद्भ्यामन्याः प्रजा ब्रह्मा ससर्ज द्विजसत्तम । तमःप्रधानास्ताः सर्वश्चातुर्वर्ण्यमिदं ततः ॥ १,६.
ब्रह्मणाः क्षत्रिया वेश्याः शूद्राश्च द्विजसत्तम । पादोरुवक्षस्थलतो मुखतश्च समुद्गताः ॥ १,६.
यज्ञनिष्पत्तये सर्वमेतद्ब्रह्या चकार वै । चातुर्वर्ण्यं महाभाग यज्ञसाधनमुत्तमम् ॥ १,६.
यज्ञैराप्यायिता देवा वृष्ट्युत्सर्गेण वै प्रजाः । आप्याययन्ते धर्मज्ञ यज्ञाः कल्याणहेतवः ॥ १,६.
निष्पाद्यन्ते नरैस्तैस्तु स्वधर्माभिरतैः सदा । विशुद्धाचरणैपेतैः सद्भिः सन्मार्गगामिभिः ॥ १,६.