परापरात्मन्विश्वात्मञ्जय यज्ञपतेऽनघ । त्वं यज्ञस्त्वं वषट्कारस्त्वमॐकारस्त्वमग्नयः
त्वं वेदास्त्वं तदङ्गानि त्वं यज्ञपुरुषो हरे । सूर्यादयो ग्रहास्तारा नक्षत्राण्यखितं जगत्
मूर्तामूर्तमदृश्यं च दृश्यं च पुरुषोत्तम । यच्चोक्तं यच्च नैवोक्तं मयात्र परमेश्वर । तत्सर्वं त्वं नमस्तुभ्यं भूयोभूयो नमोनमः
श्रीपराशर उवाच । एवं संस्तूयमानस्तु पृथिव्या धरणीधरः । सामस्वरध्वनिः श्रीमाञ् जगर्ज परिघर्घरम्
ततः समुत्क्षिप्य धरां स्वदंष्ट्रया महावराहः स्फुटपद्मलोचनः । रसातलादुत्पलपत्रसन्निभः समुत्थितो नील इवाचलो महान्
उत्तिष्ठता तेन मुखानिलाहतं तत्संभवाम्भो जनलोकसंश्रयान् । प्रक्षालयामास हि तान्महाद्युतीन् सनान्दनादीनपकल्मषान् मुनीन्
प्रयान्ति तोयानि खुराग्रविक्षतरसातलेऽधः कृतशब्दसन्तति । श्वासानिलास्ताः परितः प्रयांति सिद्धा जने ये नियता वसन्ति
उत्तिष्ठतस्तस्य जलार्द्र कुक्षेर्महावराहस्य महीं विगृह्य । विधुन्वतो वेदमयं शरीरं रोमान्तरस्था मुनयः स्तुवन्ति
तं तुष्टुवुस्तोषपरीतचेतसो लोके जने ये निवसन्ति योगिनः । सनन्दनाद्या ह्यतिनम्रकन्धरा धराधरं धीरतरोद्धतेक्षणम्
जयेश्वराणां परमेश केशव प्रभो गदाशंखधरासिचक्रधृक् । प्रसूतिनाशस्थितिहेतुरीश्वरस्त्वमेव नान्यत्परमं च यत्पदम्
पादेषु वेदास्तव यूपदंष्ट्रा दन्तेषु जज्ञाश्चितयश्च वक्त्रे । हुताशजिह्वोसि तनूरुहाणि दर्भाः प्रभो यज्ञपुमांस्त्वमेव
विलोचने रात्र्! यहनी महात्मन्सर्वाश्रयं ब्रह्मपरं शिरस्ते । सूक्तान्यश्षोआ!णि सटाकलापो घ्राणं समस्तानि हवींषि देव
स्रुक्तुण्डसामस्वरधीरनादप्राग्वंशकायाखिलसत्रसन्धे । पूर्तेष्टधर्मश्रवणोसि देव सनातनात्मन्भगवन्प्रसीद
पदक्रमाक्रान्तभुवं भवन्तमादिस्थितं चाक्षरविश्वमूर्ते । विश्वस्य विद्मः परमेश्वरोऽसि प्रसीद नाथोसि परावरस्य
दंष्ट्राग्रविन्यस्तमश्षोमेतद्भूमण्डलं नाथ विभाव्यते ते । विगाहतः पद्मवनं विलग्नं सरोजिनीपत्रमिवोढपंकम्
द्यावापृथिव्योरतुलप्रभाव यदन्तरं तद्वपुषा तवैव । व्याप्तं जगद्व्याप्तिसमर्थदीप्ते हिताय विश्वस्य विभो भव त्वम्
परमार्थस्त्वमेवैको नान्योस्ति जगतः पते । तवैष महिमा येन व्याप्तमेतच्चराचरम्
यदेतदृश्यते मूर्त्तमेतज्ज्ञानात्मनस्तव । भ्रान्तिज्ञानेन पश्यन्ति जगद्रू पमयोगिनः
ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः । अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसंप्लवे
ये तु ज्ञानविदः शुद्धचेतसस्तेऽखिलं जगत् । ज्ञानात्मकं प्रपश्यन्ति त्वद्रू पं परमेश्वर
प्रसीद सर्व सर्वात्मन्भवाय जगतामिमाम् । उद्धरोर्वीममेयात्मञ्छन्नो देह्यब्जलोचन
सत्त्वोद्रि क्तोऽसि भगवन् गोविंद पृथिवीमिमाम् । समुद्धर भवायेश शन्नो देह्यब्जलोचन
सर्गप्रवृत्तिर्भवतो जगतामुपकारिणी । भवत्वेषा नमस्तेऽस्तु शन्नो देह्यब्जलोचन
श्रीपराशर उवाच। एवं संस्तूयमानस्तु परमात्मा महीधरः । उज्जहार क्षितिं क्षिप्रं न्यस्तवांश्च महाम्भसि
तस्योपरि जलौघस्य महती नौरिव स्थिता । विततत्त्वात्तु देहस्य न मही याति संप्लवम्
ततः क्षितिं समां कृत्वा पृथिव्यां सोचिनोद्गिरीन् । यथाविभागं भगवाननादिः परमेश्वरः
प्राक्यसर्गदग्धानखिलान्पर्वतान्पृथिवीतले । अमोघेन प्रभावेण ससर्जामोघवाञ्छितः
भूविभागं ततः कृत्वा सप्तद्वीपान्यथातथम् । भूराद्यांश्चतुरो लोकान्पूर्ववत्समकल्पयत्
ब्रह्मरूपधरो देवस्ततोऽसौ रजसा वृतः । चकार सृष्टिं भगवांश्चतुर्वक्त्रधरो हरिः
निमित्तमात्रमेवाऽसौ सृज्यानां सर्गकर्मणि । प्रधानकारणीभूता यतो वै सृज्यशक्तयः