तेनैव सह गंतव्यं यत्र याति स कौरवः
गत्वा च ब्रूहि कौंतेयमर्जुनं वचनान्मम । पालनीयस्त्वया शक्त्या जनोऽयं मत्परिग्रहः
त्वमर्जुनेन सहितो द्वारवत्यां तथा जनम् । गृहीत्वा यादि वज्रश्च यदुराजो भविष्यति
श्रीपराशर उवाच। इत्युक्तो दारुकः कृष्णं प्रणिपत्य पुनःपुनः । प्रदक्षिणं च बहुशः कृत्वा प्रायाद्यथोदितम्
स च गत्वा तदाचष्ट द्वारकायां तथाऽर्जुनम् । आनिनाय महाबुद्धिर्वज्रं चक्रे तथा नृपम्
भगवानपि गोविंदो वासुदेवात्मकं परम् । ब्रह्मात्मनि समारोप्य सर्वभूतेष्वधारयत् । निष्प्रपंचे महाभाग संयोज्यात्मानमात्मनि । तुर्यावस्थसलीलं च श्तोए!स्म पुरुषोत्तमः
संमानयन्द्विजवचो दुर्वासा यदुवाच ह । योगयुक्तोऽभवत्पादं कृत्वा जानुनि सत्तम
आययौ स जरानाम तदा तत्र स लुब्धकः । मुसलावशेषलोहैकसायकन्यस्ततोमरः
स तत्पादं मृगाकारमवेक्ष्यारादवस्थितः । तले विव्याध तेनैव तोमरेण द्विजोत्तम
ततश्च ददृशो! तत्र चदुर्बाहुधरं नरम् । प्रणिपत्त्याह चैवैनं प्रसीदेति पुनःपुनः
अजानता कृतमिदं मया हरिणशंकया । क्षम्यतां मम पापेन दग्धं मां त्रातुमर्हसि
श्रीपराशर उवाच। ततस्तं भगवानाह न तेस्तु भयमण्वपि । गच्छ त्वं मत्प्रसादेन लुब्ध स्वर्गं सुरास्पदम्
श्रीपराशर उवाच। विमानमागतं सद्यस्तद्वाक्यसमनंतरम् । आरुह्य प्रययौ स्वर्गं लुब्धकस्तत्प्रसादतः
गते तस्मिन्सभगवान्संयोज्यात्मानमात्मनि । ब्रह्मभूतेऽव्ययेचिंत्ये वासुदेवमयेऽमले
अजन्मन्यमरे विष्णावप्रमेयेऽखिलात्मनि । तत्याज मानुषं देहमतीत्य त्रिविधां गतिम्