श्रीपराशर उवाच। एवमुक्ते तु कृष्णेन यादवप्रवरस्ततः । महाभागवतः प्राह प्रणिपत्योद्धवो हरिम्
भगवन्यन्मया कार्यं तदाज्ञापय सांप्रतम् । मन्ये कुलमिदं सर्वं भगवान्संहरिष्यति
नाशायास्य निमित्तानि कुलस्याच्युत लक्षये
श्रीभगवानुवाच। गच्छ त्वं दिव्यया गत्या मत्प्रसादसमुत्थया । यद्बदर्याश्रमं पुण्यं गंधमादनपर्वते । नरनारायणस्थाने तत्पवित्रं महीतले
मन्मना मत्प्रसादेन तत्र सिद्धिमवाप्स्यसि । अहं स्वर्गं गमिष्यामि ह्युपसंहृत्य वै कुलम्
द्वारकां च मया त्यक्तां समुद्र ः! प्लावयिष्यति । मद्वेश्म चैकं मुक्त्वा तु भयान्मत्तो जलाशये । तत्र सन्निहितश्चाहं भक्तानां हितकाम्यया
श्रीपराशर उवाच। इत्युक्तः प्रणिपत्यैनं जगामाशु तपोवनम् । नरनारायणस्थानं केशवेनानुमोदितः
ततस्ते यादवास्सर्वे रथानारुह्य शीघ्रगान् । प्रभासं प्रययुस्सार्द्धं कृष्णरामादिभिर्द्विज
प्रभासं समनुप्राप्ताः कुकुरांधकवृष्णयः । चक्रुस्तत्र महापानं वासुदेवेन चोदिताः
पिबतां तत्र चैतेषां संघर्षेण परस्परम् । अतिवादेंधनो जज्ञे कलहाग्निः क्षयावहः
मैत्रेय उवाच। स्वंस्वं वै भुंजतां तेषां कलहः किंनिमित्तकः । संघर्षो वा द्विजश्रेष्ठ तन्ममाख्यातुमर्हसि
श्रीपराशर उवाच। मृष्टं मदीयमन्नं ते न मृष्टमिति जल्पताम् । मृष्टामृष्टकथा जज्ञे संघर्षकलहौ ततः
ततश्चान्योन्यमभ्येत्य क्रोधसंरक्तलोचनाः । जघ्नुः परस्परं ते तु शस्त्रैर्दैवबलात्कृताः
क्षीणशस्त्राश्च जगृहुः प्रत्यासन्नामथैरकाम्
एरका तु गृहीता वै वज्रभूतेव लक्ष्यते । तया परस्परं जघ्नुस्संप्रहारे सुदारुणे
प्रद्युम्नसांबप्रमुखाः कृतवर्माथ सात्यकिः । अनिरुद्धादयश्चान्ये पृथुर्विपृथुरेव च
चारुवर्मा चारुकश्च तथाक्रूरादयो द्विज । एरकारूपिभिर्वज्रैस्ते निजघ्नुः परस्परम्
निवारयामास हरिर्यादवांस्ते च केशवम् । सहायं मेनिरेरीणां प्राप्तं जघ्नुः परस्परम्
कृष्णोऽपि कुपितस्तेषामेरकामुष्टिमाददे । वधाय सोपि मुसलं मुष्टर्लौहमभूत्तदा
जघान तेन निश्श्षोआ!न्यादवानाततायिनः । जघ्नुस्ते सहसाभ्येत्य तथाऽन्येपि परस्परम्
ततश्चार्णवमध्येन जैत्रोऽसौ चक्रिणो रथः । पश्यतो दारुकस्याथ प्रायादश्वैर्धृतो द्विज
चक्रं गदा तथा शार्ङ्गं तूणीशंखोसिरेव च । प्रदक्षिणं हरिं कृत्वा जग्मुरादित्यवर्त्त्मना
क्षणेन नाभवत्कश्चिद्यादवानामघातितः । ऋते कृष्णं महात्मानं दारुकं च महामुने
चंक्रम्यमाणौ तौ रामं वृक्षमूले कृतासनम् । ददृशाते मुखाच्चास्य निष्क्रामंतं महोरगम्
निष्क्रम्य स मखात्तस्य महाभोगो भुजंगमः । प्रययावर्णवं सिद्धैः पूज्यमानस्तथोरगैः
ततोर्घ्यमादाय तदा जलधिस्संमुखं ययौ । प्रविवेश ततस्तोयं पूजितः पन्नगोत्तमैः
दृष्ट्वा बलस्य निर्याणं दारुकं प्राह केशवः । इदं सर्वं समाचक्ष्व वसुदेवोग्रसेनयोः
निर्याणं बलभद्र स्य यादवानां तथा क्षयम् । योगे स्थित्वाहमप्येतत्परित्यक्ष्ये कलेवरम्
वाच्यश्च द्वारकावासी जनस्सर्वस्तथाहुकः । यथेमां नगरीं सर्वां समुद्र ः! प्लावयिष्यति
तस्माद्भवद्भिस्सर्वैस्तु प्रतीक्ष्यो ह्यर्जुनागमः । न स्थेयं द्वारकामध्ये निष्क्रांते तत्र पांडवे