श्रीपराशर उवाच। एवं दैत्यवधं कृष्णो बलदेव सहायवान् । चक्रे दुष्टक्षितीशानां तथैव जगतः कृते
क्षितेश्च भारं भगवान्फाल्गुनेन समन्वितः । आवतारयामास विभुस्समस्ताक्षोहिणी वधात्
कृत्वा भारावतरणं भुवो हत्वाऽखिलान्नृपान् । शापव्याजेन विप्राणामुपसंहृतवान्कुलम्
उत्सृज्य द्वारकां कृष्णस्त्यक्त्वा मानुष्यमात्मनः । सांशो विष्णुमयं स्थानं प्रविवेश मुने निजम्
मैत्रेय उवाच। स विप्रशापव्याजेन संजह्रे स्वकुलं कथम् । कथं च मानुषं देहमुत्ससर्ज जनार्दनः
श्रीपराशर उवाच। विश्वामित्रस्तथा कण्वो नारदश्च महामुनिः । पिंडारके महातीर्थे दृष्ट्वा यदुकुमारकैः
ततस्ते यौवनोन्मत्ता भाविकार्यप्रचोदिताः । सांबं जांबवतीपुत्रं भूषयित्वा स्त्रियं यथा
प्रश्रितास्तान्मुनीनूचुः प्रणिपातपुरस्सरम् । इयं स्त्री पुत्रकामा वै ब्रूत किं जनयिष्यति
श्रीपराशर उवाच। दिव्यज्ञानोपपन्नास्ते विप्रलब्धाः कुमारकैः । मुनयः कुपिताः प्रोचुर्मुसलं जनयिष्यति
सर्वयादवसंहारकारणं भुवनोत्तरम् । येनाखिलकुलोत्सादो यादवानां भविष्यति
इत्युक्तास्ते कुमारास्तु आचचक्षुर्यथातथम् । उग्रसेनाय मुसलं जज्ञे सांबस्य चोदरात्
तदुग्रसेनो मुसलमयश्चूर्णमकारयत् । जज्ञे तदेरकाचूर्णं प्रक्षिप्तं तैर्महोदधौ
मुसलस्याथ लोहस्य चूर्णितस्य तु यादवैः । खंडं चूर्णितशेषं तु ततो यत्तोमराकृति
तदप्यंबुनिधौ क्षिप्तं मत्स्यो जग्राह जालिभिः । घातितस्योदरात्तस्य लुब्धो जग्राह तज्जराः
विज्ञातपरमार्थोपि भगवान्मधुसूदनः । नैच्छत्तदन्यथा कर्त्तुं विधिना यत्समीहितम्
देवैश्च प्रहितो वायुः प्रणिपत्त्याह केशवम् । रहस्येवमहं दूतः प्रहितो भगवन्सुरैः
वस्वश्विमरुदादित्यरुद्र साध्यादिभिस्सह । विज्ञापयति शक्रस्त्वां तदिदं श्रूयतां विभो
भारावतरणार्थाय वर्षाणामधिकं शतम् । भगवानवतीर्णोत्र त्रिदशैस्सह चोदितः
दुर्वृत्ता निहता दैत्या भुवो भारोऽवतारितः । त्वया मनाथास्त्रिदशा भवंतु त्रिदिवे सदा
तदतीतं जगन्नाथ वर्षाणामधिकं शतम् । इदानीं गम्यतां स्वर्गो भवता यदि रोचते
देवैर्विज्ञाप्यते देव तथात्रैव रतिस्तव । तत्स्थीयतां यथाकालमास्थेयमनुजीविभिः
श्रीभगवानुवाच। यत्त्वमात्थाखिलं दूत वेद्म्येतदहमप्युत । प्रारब्ध एव हि मया यादवानां परिक्षयः
भुवो नाद्यापि भारोऽयं यादवैरनिबर्हितैः । अवतार्य करोम्येतत्सप्तरात्रेण सत्वरः
यथा गृहीतमंभोधेर्दत्त्वाहं द्वारकाभुवम् । यादवानुपसंहृत्य यास्यामि त्रिदशालयम्
मनुष्यदेहमुत्सृज्य संकर्षणसहायवान् । प्राप्त एवास्मि मंतव्यो देवेंद्रे ण तथाऽमरैः
जरासंधादयो येऽन्ये निहता भारहेतवः । क्षितेस्तेभ्यःकुमारोऽपि यदूनां नापचीयते
तदेतं सुमहाभारमवतार्य क्षितेरहम् । यास्याम्यमरलोकस्य पालनाय ब्रवीहि तान्
श्रीपराशर उवाच। इत्युक्तो वासुदेवेन देवदूतः प्रणम्य तम् । मैत्रेय दिव्यया गत्या देवराजांतिकं ययौ
भगवानप्यथोत्पातान्दिव्यभौमांतरिक्षजान् । ददर्श द्वारकापुर्य्यां विनाशाय दिवानिशम्
तान्दृष्ट्वा यादवानाह पश्यध्वमतिदारुणान् । महोत्पाताञ्छमायैषां प्रभासं याम मा चिरम्