लाम!राम!महावाहो!क्षम्यतां क्षम्यतां त्वया । उपसंह्रियतां कोपः प्रसीद मुषलायुघ ।। ५-३५-
एष शाम्बः सपत्रीकस्तव निर्यातितो बल! अविज्ञातप्रभावाणां क्षम्यतामपराधिनाम ।। ५-३५-
ततो निर्यातयामासुः शाम्बं पत्रीसमन्वितम् । निष्कम्य नगरात्तूर्णां कौरवा मुनिपुङ्गव ।। ५-३५-
भीष्म-द्रोण-कृपादीनां प्रणम्य वदतां प्रियम् । क्षान्तमेतन्मयेत्याह बलो बलवतां वरः ।। ५-३५-
अद्याप्याघूर्णिताकारं लक्ष्यते तत् पुरं द्रिज! एष प्रवादो रामस्य बलशौर्य्योपलक्षणः ।। ५-३५-
ततस्तु कौरवाः शाम्ब सम्पूज्य हलिना सह । प्रषयामासुरुद्राहधनभार्य्यासमन्वितम् ।। ५-३५-
मेत्रेय!श्रूयतां तस्य बलस्य बलशालिनः । कृतं यदन्यत्तेनाभूत्तदपि श्रूयतां द्रिज ।। ५-३६-
नरकस्यासुरेन्द्रस्य देवपक्षविरोधिनः । सखाभवन्महावीर्य्यो द्रिविदो नाम वानरः ।। ५-३६-
वैरानुबन्ध बलवान् स चकार सुरान् प्रित । नरक हतवान् कृष्णो बलदर्पसमन्वितम् ।। ५-३६-
करिष्ये सर्व्वदेवानां तस्मादेतत्प्रतिक्रियाम् । यज्ञविध्वंसनं कुर्व्वन् मर्त्तलोकक्षयं तथा ।। ५-३६-
ततो विध्वसयामास यज्ञानज्ञानमोहितः । बिबेद साधुमर्य्यादां क्षयं चक्र च देहिनाम् ।। ५-३६-
ददाह च वनोद्देशान् पुरग्रामान्तराणि च । क्वचिज्व पर्व्वताक्षेपैर्ग्रामादीन् समचूणोयत् ।। ५-३६-
शैलानुतूपाट्य तोयेषु मुमोचाम्बुनिधौ तथा । पुनञ्चार्णवमध्यस्थः क्षोभयामास सागरम् ।। ५-३६-
तेन विक्षोभितश्वाब्धिरुद्रेलोऽजायत द्रिज । प्लावयंस्तीरजान् ग्रामान् पुरादीनतिवेगवान् ।। ५-३६-
कामरूपी महारूपं कृत्वा संस्थानशेषतः । लुण्ठन् भ्रमणसंमर्द्देः सञ्चूर्णायति वानरः ।। ५-३६-
तेन विप्रकृतं सर्व्वं जगदेतदूदुरात्मना । निः स्वाध्यायवषटूकारं मैत्रेयासीत् सुदुः खितम् ।। ५-३६-
एकदा रैवतोद्याने पपौ पानं हलायुधः । रेवती च महाभागा तथैवान्या वरस्त्रियः ।। ५-३६-
उपगीयमानो विलसल्ललनामौलिमध्यगः । रेमे यदुवरश्वष्ठः कुवेर इव मन्दरे ।। ५-३६-
ततः स वानरोऽभ्येत्य गृहीत्वा सीरिणो हलम् । मुषलञ्च चकारास्य सम्मुख़्च बिड़म्बनम् ।। ५-३६-
तथैव योषितां तासां जहासाभिमुखं कपिः । पानपूर्णाश्व करकांश्विक्षेपाहत्य वै तदा ।। ५-३६-
ततः कोपपरीतात्मा भर्तूसयामास तं बलः । तथापि तमवज्ञाय चक्र किलकिलाध्वनिम् ।। ५-३६-
ततः समुत्थाय बलो जग्राह मुषल रुषा । सोऽपि शैलशिलां भीमां जग्राह प्लवगोत्तमः ।। ५-३६-
चिक्षेप च स तां क्षिप्तां मुषलेन सहस्त्रधा । बिभेद यादवश्वेष्ठः सा पपात महीतले ।। ५-३६-
आपतन्मुषलञ्चासौ समुल्लङ्घय प्लवङ्गमः । वेगेनागम्य रोषेण तलेनोरस्यताड़यत् ।। ५-३६-
ततो बलेन कोपेन मुष्टिना मूद्धि ताड़ितः । पपात रुधिरोदूगारी द्रिविदः क्षीणाजीवितः ।। ५-३६-
पतता तच्छरीरेण गिरेः श्वृङ्गमदीर्य्यत । मैत्रेय!शतधा वज्रिवजणेव हि ताड़ितम् ।। ५-३६-
पुष्पवृष्टिं ततो देवा रामस्योपरि चिक्षिपुः । प्रशशंसुस्तथाभ्येत्य साध्वेतत्ते महत् कृतम् ।। ५-३६-
अनेन दुष्टकपिना दैत्यपक्षोपकारिणा । जगन्निराकृतं वीर! दिष्ट्यासौ क्षयमागतः ।। ५-३६-
इत्युक्त्वा दिवमाजग्मुर्देवा ह्टष्टाः सगुह्यकाः ।। ५-३६-
एवंविधान्यनेकानि बलदेवस्य धीमतः । कर्म्माण्यपरिमेयाणि शेषस्य धरणीबृतः ।। ५-३६-