कौरवाणां महीपत्वमस्माकं किल कालजम् । उग्रसेनस्य ये नाज्ञां मन्यन्तेऽद्यापि लङ्खनम् ।। ५-३५-
आज्ञां प्रतीच्छेद्धर्म्मेण सह देवैः शचीपतिः । सदाध्यास्ते सुधर्म्मा तामुग्रसेनः शचीपतेः ।। ५-३५-
धिङूमनुष्यशतोच्छिष्टे तुष्टिरेषां नृपासने । पारिजाततरोः पुष्पमञ्चरीर्वनिताजनः ।। ५-३५-
बिभर्त्ति यस्य भृत्यानां सोऽप्येषां न महीपतिः । समस्तभूभृतां नाथ उग्रसेनः स तिष्ठतु ।। ५-३५-
अद्य निष्कौरवामुर्व्वीं कृत्वा यास्यामि तत्पुरीम् । कर्णं दुर्य्योघनं द्रोणमद्य भीष्मं सवाह्लिकम् ।। ५-३५-
दुष्टान् दुःशासनादींश्व भूरिश्रवसमेव च । सोमदत्तं शलं भीममर्ज्जुनं सयुधिष्ठिरम् ।। ५-३५-
ममजौ कौरवांश्वान्यान् ह्टत्वा साश्वरथद्रिपान् । वीरमादाय शाम्बञ्च सपत्रीक ततः पुरीम् । द्रारकामुग्रसेनादीन् गत्वा द्रक्ष्यामि बान्धवान् ।। ५-३५-
अथवा कौरवाधीनं समस्तैः कुरुभिः सह । भारावतरणो शीघ्र देवराजेन चोदितः ५-३५-
इत्युक्त्वा मदरक्ताक्षः कर्षणाधोमुखं हलम् । प्राकारवप्र विन्यस्य चकर्ष मुषलायुधः ।। ५-३५-
आघूर्णितं तत् सहसा ततो वै हस्तिनापुरम् । दृष्ट्वा संक्षुब्धह्टदयाश्चुंक्र शुः सर्व्वकौरवाः ।। ५-३५-
लाम!राम!महावाहो!क्षम्यतां क्षम्यतां त्वया । उपसंह्रियतां कोपः प्रसीद मुषलायुघ ।। ५-३५-
एष शाम्बः सपत्रीकस्तव निर्यातितो बल! अविज्ञातप्रभावाणां क्षम्यतामपराधिनाम ।। ५-३५-
ततो निर्यातयामासुः शाम्बं पत्रीसमन्वितम् । निष्कम्य नगरात्तूर्णां कौरवा मुनिपुङ्गव ।। ५-३५-
भीष्म-द्रोण-कृपादीनां प्रणम्य वदतां प्रियम् । क्षान्तमेतन्मयेत्याह बलो बलवतां वरः ।। ५-३५-
अद्याप्याघूर्णिताकारं लक्ष्यते तत् पुरं द्रिज! एष प्रवादो रामस्य बलशौर्य्योपलक्षणः ।। ५-३५-
ततस्तु कौरवाः शाम्ब सम्पूज्य हलिना सह । प्रषयामासुरुद्राहधनभार्य्यासमन्वितम् ।। ५-३५-
मेत्रेय!श्रूयतां तस्य बलस्य बलशालिनः । कृतं यदन्यत्तेनाभूत्तदपि श्रूयतां द्रिज ।। ५-३६-
नरकस्यासुरेन्द्रस्य देवपक्षविरोधिनः । सखाभवन्महावीर्य्यो द्रिविदो नाम वानरः ।। ५-३६-
वैरानुबन्ध बलवान् स चकार सुरान् प्रित । नरक हतवान् कृष्णो बलदर्पसमन्वितम् ।। ५-३६-
करिष्ये सर्व्वदेवानां तस्मादेतत्प्रतिक्रियाम् । यज्ञविध्वंसनं कुर्व्वन् मर्त्तलोकक्षयं तथा ।। ५-३६-
ततो विध्वसयामास यज्ञानज्ञानमोहितः । बिबेद साधुमर्य्यादां क्षयं चक्र च देहिनाम् ।। ५-३६-
ददाह च वनोद्देशान् पुरग्रामान्तराणि च । क्वचिज्व पर्व्वताक्षेपैर्ग्रामादीन् समचूणोयत् ।। ५-३६-
शैलानुतूपाट्य तोयेषु मुमोचाम्बुनिधौ तथा । पुनञ्चार्णवमध्यस्थः क्षोभयामास सागरम् ।। ५-३६-
तेन विक्षोभितश्वाब्धिरुद्रेलोऽजायत द्रिज । प्लावयंस्तीरजान् ग्रामान् पुरादीनतिवेगवान् ।। ५-३६-
कामरूपी महारूपं कृत्वा संस्थानशेषतः । लुण्ठन् भ्रमणसंमर्द्देः सञ्चूर्णायति वानरः ।। ५-३६-
तेन विप्रकृतं सर्व्वं जगदेतदूदुरात्मना । निः स्वाध्यायवषटूकारं मैत्रेयासीत् सुदुः खितम् ।। ५-३६-
एकदा रैवतोद्याने पपौ पानं हलायुधः । रेवती च महाभागा तथैवान्या वरस्त्रियः ।। ५-३६-
उपगीयमानो विलसल्ललनामौलिमध्यगः । रेमे यदुवरश्वष्ठः कुवेर इव मन्दरे ।। ५-३६-
ततः स वानरोऽभ्येत्य गृहीत्वा सीरिणो हलम् । मुषलञ्च चकारास्य सम्मुख़्च बिड़म्बनम् ।। ५-३६-
तथैव योषितां तासां जहासाभिमुखं कपिः । पानपूर्णाश्व करकांश्विक्षेपाहत्य वै तदा ।। ५-३६-