जहि कृत्यामिमामुग्रां वह्निज्वालाजटालकाम् । चक्रमुत्सृष्टमक्षेषु क्रीड़ासक्तेन लीलया ।। ५-३४-
तदग्रिमालाजटिलज्वालोदूगारातिभीषणाम् । कृत्यामनुजगामाशु विष्णुचक्र सुदर्शनम् ।। ५-३४-
चक्रगतापविध्वस्ता कृत्या माहेश्वरी तदा । ननाश वेगिनी वेगात् तदप्यनुजगाम ताम् ।। ५-३४-
कृत्.या वाराणसीमेव प्रविवेश त्वरान्विता । विष्णचक्रप्रतिहतप्रभावा मुनिसत्तम ।। ५-३४-
ततः काशिबलं भूरि प्मथानां तथा बलम् । समस्तशस्त्रस्त्रयुतं चक्रस्याभिमुखं ययौ ।। ५-३४-
शस्त्रस्त्रमोक्षचतुरं दग्ध्वा तदूबलमोजसा । कृत्यागर्भामशेषां तां दग्ध्वा वाराणसीं पुरीम् ।। ५-३४-
सभूभृदूभृत्यपौरान्तु साश्वमातङ्गमानवाम् । अशेषकोषकोष्ठां तां दुनिंरीक्ष्यां सुरैरपि ।। ५-३४-
ज्वालापरिप्लुताशेष-गृहृ-प्राकारचत्वराम् । ददाह तद्धरेश्वक्रं सकलामेव तां पुरीम् ।। ५-३४-
अक्षीणामर्षमत्युग्रसाध्यसाधनसस्पृहम् । तज्वक्र प्रस्फुरद्दीप्ति विष्णोरभ्याययौ करम् ।। ५-३४-
मैत्रेय उवाच । भूय एवाहमिच्छामि बलभद्रस्य धीमतः । श्रोतु पराक्रमं ब्रह्मन् ! तन्ममाख्यातुमर्हसि ।। ५-३५-
यमुनाकर्षणादीनि श्रुतानि भगवन्मया । तत् कथ्यतां महाभाग! यदन्यत् कृतवान् बलः ।। ५-३५-
पराशर उवाच । मैत्रेय!श्रूयतां कर्म्म यदू रोमेणाभवत् कृतम् । अनन्तेनाप्रमेयेण शेषेणा धरणीभृता ।। ५-३५-
दुर्य्योधनस्य तनयां खयंवरकृतक्षणाम् । बलादादत्तवान् वीरः शाम्बो जाम्बवतीसुतः ।। ५-३५-
ततः क्रुद्धा महावीर्य्याः कर्ण-दुर्य्योधनादयः । भीष्म-ग्रोणादयश्चैव बबुन्धर्यघि निर्ज्जितम् ।। ५-३५-५?।। तच्छ्रत्वा यादवाः सर्व्वे क्रोधं दुर्य्योधनादिषु । मैत्रेय! चक्रुश्व ततो तिहन्तु ते महोद्यमम् ।। ५-३५-
तान् निवार्य्य बलः प्राह मदलोलाकुलाक्षरम् । मोक्ष्यन्ति ते मद्धचनादू यास्याम्येको हि कौरवान् ।। ५-३५-
बलदेवस्तातो गत्वा नगरं नागसाह्वयम् । बाह्योपवनमध्येऽभूदू न विवेश च ततूपुरम् ।। ५-३५-
बलमागतमाज्ञाय भूपा दुर्य्योधनादयः । गामर्घ्यमुदकञ्चैव रामाय प्रत्यवेदयन् ।। ५-३५-
गृहीत्वा विधिवत् सर्व्वं ततस्तानाह कौरवान् । आज्ञापयत्युग्रसेनः शाम्बमाशु विमुञ्चत ।। ५-३५-
ततस्ते तदूचः श्रुत्वा भीष्मद्रोणादये द्रिज । कर्णादुर्य्योधनाद्याश्व चक्रुधुर्द्रिजसत्तम ।। ५-३५-
ऊचुश्व कुपिताः सर्व्वे वाह्लीकाद्याश्व कौरवाः । अराज्यार्हं यदोर्व्वशमवेक्ष्य मुसलायुधम् ।। ५-३५-
भो भोः !किमेतद्भवता बलभद्रेरितं बचः । आज्ञां कुरुकुलोत्थानां यादवः कः प्रदास्यति ।। ५-३५-
उग्रसेनोऽपि यद्याज्ञां कौरवाणां प्रदास्यति । तदलं पाण्डुरच्छत्रैर्नृ पयोग्यैर्विड़म्बितैः ।। ५-३५-
तदूगच्छ बल!पापाढ्य शाम्बमन्यायचेष्टितम् । विमोक्ष्यामो न भवतो नोग्रसेनस्य शासनात् ।। ५-३५-
प्रणतिर्या कृतास्माकमार्य्याणां कुकुरान्धकैः । ननाम सा कृता केयमाज्ञा स्वामिनि भृत्यतः ।। ५-३५-
गर्व्वमारोपिता युयं समानासनभोजनैः । को दोषो भवतां नितिर्यत् प्रीत्या नावलोकिता ।। ५-३५-
अस्माभिरर्घो भवतो योऽयं बल! निवेदितः । प्र मूणैतन्नैतदस्माक कुल्यं युष्मत्कुलोचितम् ।। ५-३५-
इत्युक्त्वा कुरवः सर्व्वे न मुञ्चामो हरेः सुतम् । कृतैकनिश्वयास्तूर्णं विविशुर्गजसाह्वयम् ।। ५-३५-
मत्तःकोपेन चाघूर्णंस्तदधिक्षेपजन्मना । अत्थाय पार्ष्ण्या वसुधां जघान स हलायुधः ।। ५-३५-
ततो विदारिता पृथ्वी पार्ष्णिघातान्महात्मनः । आस्फोटयामास तथा दिशः शब्देन पूरयन् ।। ५-३५-
स उवाचातिताम्राक्षो भ्रु कुटीकुटिलाननः । अहो मदापलेपोऽयमसाराणां द्ररात्मनाम ।। ५-३५-