तं ददर्श हरिर्द्दूरादुदारस्यन्दने स्थितम् । चक्रहस्तं गदाखड़ गबाहु पाणिगताम्बुजम् ।। ५-३४-
स्त्रग्धरं धृतशाङ्गञ्च सुपर्णारचितध्वजम् । वक्षःस्थले कृतञ्चास्य श्रीवत्सं ददृशे हिरः ।। ५-३४-
किरीटकूणडलधरं पीतवासःसमन्वितम् । दृष्ट्वा तं भावगम्भरं जहास गरुडध्वजः ।। ५-३४-
युयुध च बलेनास्य हस्त्यश्वबहलिना द्रिज ! निस्त्रिंशर्ष्टिगदाशूलशक्तिकार्म्मुकशालिना ।। ५-३४-
क्षणेन शार्ह्गनिर्म्मुक्तैः शरैरिषुविदारणैः । गदाचक्रनिपातैश्व सूदयामास तदूबलम् ।। ५-३४-
काशिराजबलञ्चैव क्षर्यं नित्वा जनार्द्दनः । उवाच पौण्ड्रकं मूद़मात्मचिह्नोपलक्ष्णम् ।। ५-३४-
पौण्ड्रकोक्तं त्वया यत्तु दूतवक्तूणे मां प्रति । समुतूसृजेति चिह्नानि तत्ते सम्पादयाम्यहम ।।५-३४-
चक्रमेतत् समुत्सृष्टं गदेयं ते विसर्जिता । गरुत्मानेष निर्द्दिष्टः समारोहतु ते ध्वजम् ।। ५-३४-
इत्युज्वार्य्य विमुक्तेन चक्रणोसौ विदारितः । पोथितो गदया भग्रो गरुत्माश्व गरुत्मता ।। ५-३४-
ततो हाहाकृते लोके काशिपुर्य्यधिपो बली । युयुधे वासुदेवेन मित्रस्यापचितौ स्थितः ।। ५-३४-
ततः शार्ङ्गधनुर्मुक्तैश्छित्त्वा तस्य शरैः शिरः । काशिपुर्य्याञ्च चिक्षेप कुर्व्वन् सोकस्य विस्मयम् ।। ५-३४-
हत्वा च पौणड्रकं शौरिः काखिराजञ्च सानुगम् । पुनर्द्रारवतीं प्राप्तो रेमे स्वर्गगतो यथा ।। ५-३४-
तच्छिरः पतितं दृष्ट्वा तत्र काशिपतेः पुरे । जनः किमेतदित्याह केनत्यत्यन्तविस्मितः ।। ५-३४-
ज्ञात्वा तं वासुदेवेन हतं तस्य सुतस्ततः । पुरोहितेन सहितस्तो।यामास शङ्करम् ।। ५-३४-
अविमुक्ते महाक्षेत्रे तोषितस्तन शङ्करः । वरं वृणीष्वेति तदा तं प्रोवाच नृपात्मजम् ।। ५-३४-
स वब्र भगवान् कृत्या पितृहन्तुर्वधाय मे । समुत्तिष्ठतु कृष्णस्य त्वत्प्रसादान्महेश्वर ।। ५-३४-
एवं भविष्यतीत्युक्ते दक्षिणाग्नेरनन्तरम् । महाकृत्या समुत्तस्थौ तस्यैवाग्नेर्विन्मशिनी ।। ५-३४-
ततो ज्वालाकरालास्या ज्वलत्केशकलापिका । कृष्ण कृष्णेति कुपिता कृत्या द्रारवतीं ययौ ।। ५-३४-
तामवेक्ष्य जनस्त्रासविचल्लोचनो मुने! ययौ शरण्यं जगतां शरणं मधुसूदनम् ।। ५-३४-
काशिराजसुतेनेयमाराध्य वृषभध्वजम् । उत्पादिता महाकृत्येत्यवगम्याथ चक्रिणा ।। ५-३४-
जहि कृत्यामिमामुग्रां वह्निज्वालाजटालकाम् । चक्रमुत्सृष्टमक्षेषु क्रीड़ासक्तेन लीलया ।। ५-३४-
तदग्रिमालाजटिलज्वालोदूगारातिभीषणाम् । कृत्यामनुजगामाशु विष्णुचक्र सुदर्शनम् ।। ५-३४-
चक्रगतापविध्वस्ता कृत्या माहेश्वरी तदा । ननाश वेगिनी वेगात् तदप्यनुजगाम ताम् ।। ५-३४-
कृत्.या वाराणसीमेव प्रविवेश त्वरान्विता । विष्णचक्रप्रतिहतप्रभावा मुनिसत्तम ।। ५-३४-
ततः काशिबलं भूरि प्मथानां तथा बलम् । समस्तशस्त्रस्त्रयुतं चक्रस्याभिमुखं ययौ ।। ५-३४-
शस्त्रस्त्रमोक्षचतुरं दग्ध्वा तदूबलमोजसा । कृत्यागर्भामशेषां तां दग्ध्वा वाराणसीं पुरीम् ।। ५-३४-
सभूभृदूभृत्यपौरान्तु साश्वमातङ्गमानवाम् । अशेषकोषकोष्ठां तां दुनिंरीक्ष्यां सुरैरपि ।। ५-३४-
ज्वालापरिप्लुताशेष-गृहृ-प्राकारचत्वराम् । ददाह तद्धरेश्वक्रं सकलामेव तां पुरीम् ।। ५-३४-
अक्षीणामर्षमत्युग्रसाध्यसाधनसस्पृहम् । तज्वक्र प्रस्फुरद्दीप्ति विष्णोरभ्याययौ करम् ।। ५-३४-
मैत्रेय उवाच । भूय एवाहमिच्छामि बलभद्रस्य धीमतः । श्रोतु पराक्रमं ब्रह्मन् ! तन्ममाख्यातुमर्हसि ।। ५-३५-