दूतञ्च प्रेरयामास कृष्णाय सुमहात्मने । त्यत्तवा चक्रादिकं चिह्न मदीयं नाम चात्मनः ।। ५-३४-
वासुदेवात्मकं मूढ़!मुत्तवा सर्व्वं विशेषतः । आत्मनो जीवितार्थाय ततो मे प्रणति व्रज ।। ५-३४-
इत्युक्तः सम्प्रहस्यैन दूतं प्राह जनार्द्दनः । निजचिह्नमहं चक्र समुत्स्मरक्ष्य त्वयीति वै ।। ५-३४-
वाच्यः स पौण्ड्रको गत्वा त्वया दूत!वचो मम । ज्ञातस्त्वद्राक्यसद्भावो यत् कार्य्यं तद्रिधीयताभ् ।। ५-३४-
गृहीतचिह्न एवाहमागमिष्यामि ते पुरम् । समुत्स्त्रक्ष्यामि ते चक्र निजनिह्नमसंशयम् ।। ५-३४-
आज्ञापूर्व्वञ्च यदिदमागच्छेति त्वयोदितम् । सम्पादयिष्ये श्वस्तुभ्यं तदप्येषोऽविलम्बितम् ।। ५-३४-
शरणां ते समब्येत्य कर्त्तास्मि नृपते!तदा । यथा त्वत्त्वो भयं बूयो न मे किञ्चिद्भविष्यति ।। ५-३४-
इत्युक्तेऽपगते दूते संस्मृत्याभ्यागतं हरिः । गरुत्मन्तमथारुह्य त्वरितं तत्पुरं ययौ ।। ५-३४-
स चापि केशवोद्योगं श्रुत्वा काशिपतिस्तदा । सर्व्वसैन्यपरीवारः पार्ष्णिग्राह उपाययौ ।। ५-३४-
ततो बलेन महता काशिराजबलेन च । पौण्ड्रको वासुदेवोऽसौ केशवाभिमुखं ययौ ।। ५-३४-
तं ददर्श हरिर्द्दूरादुदारस्यन्दने स्थितम् । चक्रहस्तं गदाखड़ गबाहु पाणिगताम्बुजम् ।। ५-३४-
स्त्रग्धरं धृतशाङ्गञ्च सुपर्णारचितध्वजम् । वक्षःस्थले कृतञ्चास्य श्रीवत्सं ददृशे हिरः ।। ५-३४-
किरीटकूणडलधरं पीतवासःसमन्वितम् । दृष्ट्वा तं भावगम्भरं जहास गरुडध्वजः ।। ५-३४-
युयुध च बलेनास्य हस्त्यश्वबहलिना द्रिज ! निस्त्रिंशर्ष्टिगदाशूलशक्तिकार्म्मुकशालिना ।। ५-३४-
क्षणेन शार्ह्गनिर्म्मुक्तैः शरैरिषुविदारणैः । गदाचक्रनिपातैश्व सूदयामास तदूबलम् ।। ५-३४-
काशिराजबलञ्चैव क्षर्यं नित्वा जनार्द्दनः । उवाच पौण्ड्रकं मूद़मात्मचिह्नोपलक्ष्णम् ।। ५-३४-
पौण्ड्रकोक्तं त्वया यत्तु दूतवक्तूणे मां प्रति । समुतूसृजेति चिह्नानि तत्ते सम्पादयाम्यहम ।।५-३४-
चक्रमेतत् समुत्सृष्टं गदेयं ते विसर्जिता । गरुत्मानेष निर्द्दिष्टः समारोहतु ते ध्वजम् ।। ५-३४-
इत्युज्वार्य्य विमुक्तेन चक्रणोसौ विदारितः । पोथितो गदया भग्रो गरुत्माश्व गरुत्मता ।। ५-३४-
ततो हाहाकृते लोके काशिपुर्य्यधिपो बली । युयुधे वासुदेवेन मित्रस्यापचितौ स्थितः ।। ५-३४-
ततः शार्ङ्गधनुर्मुक्तैश्छित्त्वा तस्य शरैः शिरः । काशिपुर्य्याञ्च चिक्षेप कुर्व्वन् सोकस्य विस्मयम् ।। ५-३४-
हत्वा च पौणड्रकं शौरिः काखिराजञ्च सानुगम् । पुनर्द्रारवतीं प्राप्तो रेमे स्वर्गगतो यथा ।। ५-३४-
तच्छिरः पतितं दृष्ट्वा तत्र काशिपतेः पुरे । जनः किमेतदित्याह केनत्यत्यन्तविस्मितः ।। ५-३४-
ज्ञात्वा तं वासुदेवेन हतं तस्य सुतस्ततः । पुरोहितेन सहितस्तो।यामास शङ्करम् ।। ५-३४-
अविमुक्ते महाक्षेत्रे तोषितस्तन शङ्करः । वरं वृणीष्वेति तदा तं प्रोवाच नृपात्मजम् ।। ५-३४-
स वब्र भगवान् कृत्या पितृहन्तुर्वधाय मे । समुत्तिष्ठतु कृष्णस्य त्वत्प्रसादान्महेश्वर ।। ५-३४-
एवं भविष्यतीत्युक्ते दक्षिणाग्नेरनन्तरम् । महाकृत्या समुत्तस्थौ तस्यैवाग्नेर्विन्मशिनी ।। ५-३४-
ततो ज्वालाकरालास्या ज्वलत्केशकलापिका । कृष्ण कृष्णेति कुपिता कृत्या द्रारवतीं ययौ ।। ५-३४-
तामवेक्ष्य जनस्त्रासविचल्लोचनो मुने! ययौ शरण्यं जगतां शरणं मधुसूदनम् ।। ५-३४-
काशिराजसुतेनेयमाराध्य वृषभध्वजम् । उत्पादिता महाकृत्येत्यवगम्याथ चक्रिणा ।। ५-३४-