निशासु च जगतस्त्रष्टा तासां गुहेषु केशवः । उवास विप्र! सर्व्वासां विश्वरूपधरो हरिः ।। ५-३१-
पराशार उवाच । प्रद्यु म्राद्या हरेः पुत्रा रुक्मिण्याः कथितास्तव । भानुं भैमरिकञ्चैव सत्यभामा व्यजायत ।। ५-३२-
दीप्तिमान् ताम्रपक्षाद्या रोहिणयां तनया हरेः । बभूवुर्जाम्बवत्याञ्च शाम्बाद्या बलशालिनः ।। ५-३२-
तनया भद्रविन्दाद्या नाग्रजित्यां महाबलाः । संग्रामजित्प्रधानास्तु शैव्यायान्त्वभवन् सुताः ।। ५-३२-
वृकाद्याश्व सुता माद्रयां गात्रवत्प्रमुखान् सुतान् । अवाप लक्ष्मणा पुत्राः कालिन्द्याञ्च श्रुतादयः ।। ५-३२-
अन्यासाञ्चैव भार्य्याणां समुतूपन्नानि चक्रिणः । अष्टायुतानि पुत्राणां सहस्त्रणां शतं तथा ।। ५-३२-
प्रद्यु म्रः प्रथमस्तेषा सर्व्वेषां रुक्मिणीसुतः । प्रद्यु म्रादनिरुद्धोऽभूदू वजूस्तस्मादजायत ।। ५-३२-
अनिरुद्धो रणो रुद्धो बलेः पौत्रीं महाबलः । वाणास्य तनयामूषामुपयेमे द्रिजोत्तम ।। ५-३२-
यत्र युद्धमभूदू घोरं हरि-शङ्करयोर्महत् । छिन्न सहस्त्र बाहूनां यत्र वाणस्य चक्रिणा ।। ५-३२-
मैत्रेय उवाच । कथं युद्धमभूदू ब्रह्मन्नुषार्थे हर-कृष्णयोः । कथं क्षयञ्च वाणस्य बाहूनां कृतवान् हरिः ।। ५-३२-
एतत् सर्व्व महाभाग! समाख्यातु त्वमर्हसि । महत् कौतूहलं जातं कथां श्रोतुमिमां हरेः ।। ५-३२-
पराशर उवाच । ऊषा वाणसुता विप्र! पार्व्वतीं सह शम्भुना । क्रीड़न्तीमुपलक्ष्योच्चैः स्पृहाञ्चक्र तदाश्रयाम् ।। ५-३२-
ततः सकलाचित्तज्ञा गौरी तामाह भामिनीम् । अलमत्यर्थतापेन भर्त्रा त्वमपि रंस्यसे ।। ५-३२-
इत्युक्ते सा तदा चक्र कदेति मतिमात्मनः । को वा भर्त्ता ममेत्येतां पुनरप्याह पार्व्वती ।। ५-३२-
वैशाखशुक्लद्रादश्यां स्वप्ने योऽभिभवं तव । करिष्यति स ते भर्त्ता राजपुत्रि!भविष्यति ।। ५-३२-
तस्यां तिथौ पुमान् खप्ने यथा देव्या उदीरितम् । तथैवाभिभवं चक्र रागञ्चक्र तथैव सा ।। ५-३२-
ततः प्रबुद्धा पुरुषमपश्यन्ती तमुत्सुका । क्व गतोऽसीति निर्लज्जा मैत्रेयोक्तवती सखीम् ।। ५-३२-
वाणस्य मन्त्री कुम्भाणडश्वित्रलेशा तु तत्सुता । तस्याः सख्यभवत् सा च प्राह कोऽय त्वयोच्यते ।। ५-३२-
यदा लज्जाकुला नास्यै कथयामास सा सती । तदा विश्वासमानीय सर्व्वमेवाभ्यवादयत् ।। ५-३२-
विदितार्थान्तु तामाह पुनरूषा यथोदितम् । देव्या तथैव तत्प्राप्तौ योऽभ्युपायः कुरुष्व तम् । ५-३२-
ततः पटे सुरान् दैत्यान् गन्धर्व्वांश्व प्रधानतः । मनुष्यांश्वाबिलिख्यास्यै चित्रलेखा व्यदर्शयत् ।। ५-३२-
अपास्य सा तु गन्धर्व्वांस्तथोरगसुरासुरान् । मनुष्येषु ददौ दृष्टिं तेष्वप्यन्धकवृष्णिषु ।। ५-३२-
कृष्ण-रामौ विलोक्यासौ सुभ्रु र्लज्जाजड़ेव सा । प्रद्यु म्रदर्शाने व्रीड़ा-दृष्टिं निन्येऽन्यतो द्रिज ।। ५-३२-
दृष्टमात्रे ततः कान्ते प्रद्यु म्रतनये द्रिज । दृष्ट्यात्यर्थविकाशिन्या लज्जा क्कापि निराकृता ।। ५-३२-
सोऽयं सोऽयमितीत्युक्त तया सा योगगामिनी । ययौ द्रारवतीमूषां समाश्वास्य ततः सखीम् ।। ५-३२-
चक्र कर्म्म महच्छौरिर्बिब्राणो मानुषीं तनुम् । जिगाय शक्र सर्व्वञ्च सर्व्वदेवांश्व लीलया ।। ५-३४-
यज्वान्यदकरोत् कर्म्म दिव्यचेष्टाविघातकृत् । तत् कथ्यतां महाभाग!परं कातूहलं हि मे ।। ५-३४-
पराशर उवाच । गदतो मम विप्रर्षे!श्रूयतामिदमादरात् । नरावतारे कृष्णेन दग्धा वाराणसी यथा ।। ५-३४-
पौण्डुको वासुदेवस्तु वासुदेवीऽभवद् भिवि । अवतीर्णस्त्वमित्युक्तो जनैरज्ञानमोहितैः ।। ५-३४-
स-मेने वासुदेवोऽहमवतीर्णो महीतले । नष्टस्मृतिस्ततः सर्व्व विष्णचिह्निमचीकरत् ।। ५-३४-