अक्षय्यं नान्यदाधारममेयमजरं ध्रुवम् । शब्दस्पर्शविहीनं तद्रूपादिभिरसंहितम्
त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् । तेनाग्रे सर्वमेवासीद्व्यांत्पं वै प्रलयादनु
वेदवादविदो विद्दन्नियता ब्रह्मवादिनः । पठन्ति चैतमेवार्थ प्रधानप्रतिपादकम्
नाहो न रात्रिर्न नभो न भूमि- र्नासीत्ममोज्योतिरभूच्च नान्यत् । श्रोत्रादिबुद्धयानुपलभ्यमेकं प्राधानिकं ब्रह्म पुमांस्तदासीत्
विष्णोः स्वरूपात्परतो हि ते द्वे रूपे प्रधानं पुरुषश्च विप्र । तस्यैव तेऽन्येन धूते वियुक्ते रूपांन्तरं तद्द्विज कालसंज्ञम्
प्रकृतौ संस्थितं व्यक्तमतीतप्रलये तु यत् । तस्मात्प्राकृतसंज्ञोऽयमुच्यते प्रतिसत्र्चरः
अनादिर्भगवान्कालो नान्तोऽस्य द्विज विद्यते । अव्युच्छिन्नास्ततस्त्वेते सर्गस्थित्यन्तसंयमाः
गुणसाम्ये ततस्तस्मिन्पृथक्पूंसि व्यवस्थिते । कालस्वरूपं तद्विष्णोर्मैत्रेय परिवर्त्तते
ततस्तु तप्तरं ब्रह्मं परमात्मा जगन्मयः । सर्वगः सर्वभूतेशः सर्वात्मा परमेश्वरः
प्रधानपुरुषौ चापि प्रविश्यात्मेच्छया हरिः । क्षोभयामास सम्प्राप्ते सर्गकाले व्ययाव्ययौ
यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते । मनसो नोपकर्तृत्वात्तथाऽसौ परमेश्वरः
स एव क्षोभको ब्रह्मन् क्षोभ्यश्र्च पुरुषोत्तमः । स संकोचविकासाभ्यां प्रधानत्वेऽपिच स्थितः
विकासाणुस्वरूपैश्च ब्रह्मरूपादिभिस्तथा । व्यक्तस्वरूपश्च तथा विष्णुः सर्वेश्वरेश्वरः
गुणसाम्यात्ततस्तस्मात्क्षेत्रज्ञाधिष्ठितान्मुने । गुणव्यत्र्जनसम्भूतिः सर्गकाले द्विजोत्तम
प्रधानतत्त्वमुद्भतं महान्तं तत्समावृणोत् । सात्विको राजसश्चैव तामसश्च त्रिधा महान्
प्रधानतत्वेन समं त्वचा बीजमिवावृतम् । वैकारिकस्तैजसश्च भूतादिश्चैव तामस्वः
त्रिविधोऽयमहंकारो महत्तत्त्वादजायत । भूतेन्द्रियाणां हेतुस्स त्रिगुणत्वान्महामुने । यथा प्रधानेन महान्महता स तथावृतः
भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः । ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम्
शब्दमात्रं तथाकाशं भूतादिः स समावृणोत् । आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह
बलवानभवद्वायुस्तस्य स्पर्शो गुणो मतः । आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत्
ततो वायुर्विकुर्णाणो रूपमात्रं ससर्ज ह । ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते
स्पर्शमात्रं तु वै वायू रूपमात्रं समावृणोत् । ज्योतिश्चापि विकृर्वाणं रसमात्रं ससर्ज ह
सम्भवन्ति ततोऽम्भांसि रसाधाराणि तानि च र। रसमात्राणि चाम्भांसि रूपमात्रं समावृणोत्
विकुर्वाणानि चाम्भांसि गन्धमात्रं ससर्जिरे । संघातो जायते तस्मात्तस्य गन्धो गुणो मतः
तस्मिंस्तस्मिंस्तु तन्मात्रं तेन तन्मात्रता स्मृता
तन्मात्राण्यविशेषाणि अविशेषास्ततो हि ते
न शान्ता नापि घोरास्ते न मूढाश्चाविशेषिणः । भूततन्मात्रसर्गोऽयमहकांरात्तु तामसात्
तैजसानीन्द्रीयाण्याहूर्देवा वैकारिका दश । एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः
त्वक् चक्षुर्नासिका जिह्वा श्रोत्रमत्र च पत्र्चमम् । शब्दादीनामवाप्त्यर्थं बुद्धीयुक्तानि वै द्विज
पायूपस्थौ करौ पादौ वाक् च मैत्रेय पत्र्चमी । विसर्गशिल्पगत्युक्ति कर्म तेषां च कथ्यते