ततो हाहाकृतं सर्वं त्रैलोक्यं द्विजसत्तम । वज्रचक्रकरौ दृष्ट्वा देवाराजजनार्दनौ ॥ ५,३०.
क्षिप्तं वज्रमथेन्द्रेण जग्राह भगवान्हरिः । न मुमोच तदा चक्रं शक्रं तिष्ठेति चाब्रवीत् ॥ ५,३०.
प्रणष्टवज्रं देवेन्द्रं गरुडक्षतवाहनम् । सत्यभामाब्रवीद्वीरं पलायनपरायणम् ॥ ५,३०.
त्रैलोक्येश न ते युक्तं शचीभर्तुः पलायनम् । पारिजातस्रगाभोगा त्वामुपस्थास्यते शची ॥ ५,३०.
कीदृशं देवराज्यं ते पारिजातस्रगुज्ज्वलाम् । अपश्यतो यथापूर्वं ग्रणयाभ्यागतां शचीम् ॥ ५,३०.
अलं शक्र प्रयासेन न व्रीडां गन्तुमर्हसि । नीयतां पारिजातोयं देवाःसंतु गतव्यथाः ॥ ५,३०.
परिगर्वावलेपेन बहुमानपुरःसरम् । न ददर्श गृहं यातामुपचारेण मां शची ॥ ५,३०.
स्त्रीत्वादगुरुचित्ताहं स्वभर्तृश्लाघनापरा । ततः कृतवती शक्र भवता सह विग्रहम् ॥ ५,३०.
तदलं पारिजातेन परस्वेन हृतेन मे । रूपेण गर्विता सा तु भर्त्रा का स्त्री न गर्विता ॥ ५,३०.
श्रीपराशर उवाच इत्युक्तो वै निववृते देवराजस्तया द्विज । प्राह चैनामलं चण्डि सख्युः खेदोक्तिविस्तरैः ॥ ५,३०.
इन्द्र उवाच न चापि सर्गसंहारस्थितिकर्ताखिलस्य यः । जितस्य तेन मे व्रीडा जायते विश्वरूपिणा ॥ ५,३०.
यस्माज्जगत्सकलमेतदनादिमध्याद्यस्मिन्यतश्च न भविष्यति सर्वभूतात् । तेनोद्भवप्रलयपालनकारणेन व्रीडा कथं भवति देवि निराकृतस्य ॥ ५,३०.
सकलभुवनसूतिर्मूर्तिरल्पाल्पसूक्ष्माविदितसकलवेद्यैर्ज्ञायते यस्य नान्यैः । तमजमकृतमीशं शाश्वतं स्वेच्छयैनं जगदुपकृतिमर्त्यं को विजेतुं समर्थः ॥ ५,३०.
संस्तुतो भगवानित्थं देवराजेन केशवः । प्रहंस्य भावगम्भीरमुवाचेदं द्रिजोत्तम ।। ५-३१-
देवराजो भवानिन्द्रो वयं मर्त्त्या जगत्पते ! क्षन्तव्यं भवता चदमपराधकृत मम ।। ५-३१-
पारिजाततरुश्वायं नीयतामुचितास्पदम । गृहीतोऽयं मया शक्र!सत्यावचनकारणात् ।। ५-३१-
वज्रञ्चेदं गृहाण त्वं यत्त्वया प्रहितं मयि । तवैवैतत् प्रहरणां शक्र!वैरिविदारणम् ।। ५-३१-
विमोहयसि मामीश!मर्त्त्योऽहमिति किं वदन् । जानीमस्त्वां भगवतो न तु सूक्ष्मविदो वयम् ।। ५-३१-
योऽसि सोऽसि जगत्त्रण!प्रवृत्तौ नाथ!संस्थितः । जगतः शल्यनिष्कर्षं करोष्यसुरसूदन ।। ५-३१-
नीयतां पारिजातोऽयं कृष्ण!द्रारवतीं पुरीम् । मर्त्त्यलोके त्वया त्यक्ते नायं संस्थास्यते भुवि ।। ५-३१-
तथेत्युक्त्वा च देवेन्द्रमाजगाम भुवं हरिः । प्रसक्तैः सिद्ध-गन्धर्व्वैः स्तूयमानस्तथषिंभिः ।। ५-३१-
ततः शङ्खमुपाध्माय द्रारकोपरि संस्थितः । हर्षमुत्पादयामास द्रारकावासिनां द्रिज ।। ५-३१-
अवतीर्य्यथ गरुड़ात् सत्यभामासहायवान् । निष्कुटे स्थापयामास पारिजातं महातरुम ।। ५-३१-
यमभ्येत्य जनः सर्व्वो जातिं स्मरति पौर्व्विकीम् । वास्यते सादराः सर्व्वे देहबन्धानमानुषान् । ददृशुः पादपे तस्मिन् कुर्व्वन्तो सुखदर्शनम् ।। ५-३१-
ततस्ते सादराः सर्व्वे देहबन्धानमानुषान् । ददृशुः पादपे तस्मिन् कुर्व्वन्तो मुखदर्शनम् ।। ५-३१-
किङ्करैः समुपानीतं हस्त्यश्वादि ततो धनम । स्त्रियश्व कृष्णो जग्राह नरकस्य परिग्रहान् ।। ५-३१-
ततः काले शुभे प्राप्त उपयेमे जनार्द्दनः । ताः कन्या नरकेणासन् सर्व्वतो याः समाह्टताः ।। ५-३१-
एकस्मिन्नेव गोविन्दः काले तासां महामते! जग्राह विधिवत् पाणीन् पृथगूगेहेषु धर्म्मतः ।। ५-३१-
षोड़शस्त्रीसहस्त्राणि शतमेकं तथाधिकम् । तावन्ति चक्र रूपाणि भगवान् मधुसूदनः ।। ५-३१-
एकैकश्येन ताः कन्या मेनिरे मधुसूदनम् । ममैव पाणिग्रहणं भगवान् कृतवानिति ।। ५-३१-