श्रीपराशर उवाच इत्युक्तःस प्रहस्यैनां पारिजातं गरुत्मति । आरोपयामास हरिस्तमूचुर्वनरक्षिणः ॥ ५,३०.
भो शची देवराजस्य महिषी तत्परीग्रहम् । पारिजातं न गोविन्द हर्तुमर्हसि पादपम् ॥ ५,३०.
उत्पन्नो देवराजाय दत्तःसोऽपि ददौ पुनः । महिष्यै सुमहाभाग देव्यै शच्यै कुतूहलात् ॥ ५,३०.
शचीविभूषणार्थाय देवैरमृतमन्थने । उत्पादितोऽयं न क्षेमी गृहीत्वैनं गमिष्यसि ॥ ५,३०.
देवराजो मुखप्रेक्षी यस्यास्तस्याः परिग्रहम् । मैढ्यात्प्रार्थयसे क्षेमी गृहीत्वैनं हि को व्रजेत् ॥ ५,३०.
अवश्यमस्य देवेन्द्रो निष्कृतिं कृष्ण यास्यति । वज्रोद्यतकरं शक्रमनुयास्यन्ति चामराः ॥ ५,३०.
तदलं सकलैर्देवैर्विग्रहेण तवाच्युत । विपाककटु यत्कर्म तन्न शंसंति पण्डिताः ॥ ५,३०.
श्रीपराशर उवाच इत्युक्ते तैरुवाचैतान् सत्यभामातिकोपिनी । का शची पारिजातस्य को वा शक्रःसुराधिपः ॥ ५,३०.
सामान्यःसर्वलोकस्य यद्येषोऽमृतमन्थने । समुत्पन्नस्तरुः कस्मादोको गृह्णाति वासवः ॥ ५,३०.
यथा सुरा यथैवेन्दुर्यथा श्रीर्वनरक्षिणः । सामान्यःसर्वलोकस्य पारिजातस्तथा द्रुमः ॥ ५,३०.
भर्तृ बहुमहागर्वाद्रुणद्ध्येनमथो शची । तत्कथ्यतामलं क्षान्त्या सत्वा हारयति द्रुमम् ॥ ५,३०.
कथ्यतां च द्रुतं गत्वा पौलोम्या वचनं मम । सत्यभामा वदत्येतदितिगर्वोद्धताक्षरम् ॥ ५,३०.
यदि त्वं दयिता भर्तुर्यदि वश्यः पतिस्तव । मद्भर्तुर्हरतो वृक्षं तत्कारय निवारणम् ॥ ५,३०.
जानामि ते पतिं शक्रं जानामि त्रिदशेश्वरम् । पारिजातं तथाप्येनं मानुषी हारयामि ते ॥ ५,३०.
श्रीपराशर उवाच इत्युक्ता रक्षिणो गत्वा शच्याः प्रोचुर्यथोदितम् । श्रुत्वा चोत्साहयामास शची चक्रं सुराधिपम् ॥ ५,३०.
ततःसमस्तदेवानां सैन्यैः परिवृतो हरिम् । प्रययौ पारिजातार्थमिन्द्रोयोद्धुं द्विजोत्तम ॥ ५,३०.
ततः परिघनिस्त्रिंशगदाशूलवरायुधाः । बभूवुस्त्रिदसाःसज्जाः शक्रे वज्रकरे स्थिते ॥ ५,३०.
ततो निरिक्ष्य गोविन्दो नागराजोपरि स्थितम् । शक्रं देवपरिवारं युद्धाय समुपस्थितम् ॥ ५,३०.
चकार शङ्खनिर्घोषं दिशः शब्देन पूरयन् । मुमोच शरसंघातान् सहस्रायुतशः शितान् ॥ ५,३०.
ततो दिशो नभश्चैव दृष्ट्वा शरशतैश्चितम् । मुमुचुस्त्रिदशाःसर्वे ह्यस्त्रशस्त्राम्यनेकशः ॥ ५,३०.
एकैकमस्त्रं शस्त्रं च दैवैर्मुक्तं सहस्रशः । चिच्छेद लीलयैवेशो जगतां मधुसूदनः ॥ ५,३०.
पाशं सलिलराजस्य समाकृष्यीरगात्पुनः । चकार खण्डशश्चञ्च्वा बालपन्नगदेहवत् ॥ ५,३०.
यमेन प्रहितं दण्डं गदाविक्षेपखण्डितम् । पृथिव्यां पातयामास भगवान् देवकीसुतः ॥ ५,३०.
शिबिकां च धनेशस्य चक्रेण तिलशो विभुः । चकार शौरिरर्कं च दृषृदृष्टहतौजसम् ॥ ५,३०.
नीतोऽग्निः शीततां बाणैर्द्राविता वसवो दिशः । चक्रविच्छिन्नशुलाग्रा रुद्रा भुवि निपातिताः ॥ ५,३०.
साध्या विश्वेऽथ मरुतो गन्धर्वाश्चैव सा यकैः । शार्ङ्गिणा प्रेरितैरस्ता व्योम्नि शाल्मलितूलवत् ॥ ५,३०.
गरुत्मानपि तुण्डेन पक्षाभ्यां च नखाङ्कुरैः । भक्षयंस्ताडयन् देवान् दारयंश्च चचार वै ॥ ५,३०.
ततः शतसहस्रेण देवेन्द्रमधुसूदनौ । परस्परं ववर्षाते धाराभिरिव तोयदौ ॥ ५,३०.
ऐरावतेन गरुडो युयुधे तत्र संकुले । देवैः समस्तैर्युयुधे शक्रेण च जनार्दनः ॥ ५,३०.
भिन्नेष्वशेषबाणेषु शस्त्रेष्वस्त्रेषु च त्वरन् । जग्राह वासवो वज्रं कृष्णश्चक्रं सुदर्शनम् ॥ ५,३०.