श्रीपराशर उवाच अदित्या तु कृतानुज्ञो देवराजो जनार्दनम् । यथावत्पूजयामास बहुमानपुरःसरम् ॥ ५,३०.
शची च सत्यभामायै पारिजातस्य पुष्पकम् । न ददौ मानुषीं मत्वा स्वयं पुष्पैरलङ्कृता ॥ ५,३०.
ततो ददर्श कृष्णोऽपि सत्यभामासहायवान् । दवोद्यानानि हृद्यानि नन्दनादीनि सत्तम ॥ ५,३०.
ददर्श च सुगन्धाढ्यं मञ्जरीपुञ्जधारिणम् । नित्याह्लादकरं ताम्रबालपल्लवशोभितम् ॥ ५,३०.
मथ्यमानेऽमृते जातं जातरूपोपमत्वचम् । पारिजातं जगन्नाथः केशवः केशिसूदनः ॥ ५,३०.
तुतोष परमप्रीत्या तरुराजमनुत्तमम् । तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तम । कस्मान्न द्वारकामेष नीयते कृष्ण पादपः ॥ ५,३०.
यदि चेत्त्वद्वचः सत्यं त्वमत्यर्थं प्रियेति मे । मद्गेहनिष्कुटार्थाय तदयं नीयतां तरुः ॥ ५,३०.
न मे जांबवती तादृगभीष्टा न च रुक्मिणी । सत्ये यथा त्वमित्युक्तं त्वया कृष्णासकृत्प्रियम् ॥ ५,३०.
सत्यं तद्यदि गोविन्द नोपचारकृतं मम । तदस्तु पारिजातोऽयं मम गेहविभूषणम् ॥ ५,३०.
बिभ्रती पारिजातस्य केशपक्षेण मञ्जरीम् । सपत्नीनामहं मध्ये शोभेयमिति कामये ॥ ५,३०.
श्रीपराशर उवाच इत्युक्तःस प्रहस्यैनां पारिजातं गरुत्मति । आरोपयामास हरिस्तमूचुर्वनरक्षिणः ॥ ५,३०.
भो शची देवराजस्य महिषी तत्परीग्रहम् । पारिजातं न गोविन्द हर्तुमर्हसि पादपम् ॥ ५,३०.
उत्पन्नो देवराजाय दत्तःसोऽपि ददौ पुनः । महिष्यै सुमहाभाग देव्यै शच्यै कुतूहलात् ॥ ५,३०.
शचीविभूषणार्थाय देवैरमृतमन्थने । उत्पादितोऽयं न क्षेमी गृहीत्वैनं गमिष्यसि ॥ ५,३०.
देवराजो मुखप्रेक्षी यस्यास्तस्याः परिग्रहम् । मैढ्यात्प्रार्थयसे क्षेमी गृहीत्वैनं हि को व्रजेत् ॥ ५,३०.
अवश्यमस्य देवेन्द्रो निष्कृतिं कृष्ण यास्यति । वज्रोद्यतकरं शक्रमनुयास्यन्ति चामराः ॥ ५,३०.
तदलं सकलैर्देवैर्विग्रहेण तवाच्युत । विपाककटु यत्कर्म तन्न शंसंति पण्डिताः ॥ ५,३०.
श्रीपराशर उवाच इत्युक्ते तैरुवाचैतान् सत्यभामातिकोपिनी । का शची पारिजातस्य को वा शक्रःसुराधिपः ॥ ५,३०.
सामान्यःसर्वलोकस्य यद्येषोऽमृतमन्थने । समुत्पन्नस्तरुः कस्मादोको गृह्णाति वासवः ॥ ५,३०.
यथा सुरा यथैवेन्दुर्यथा श्रीर्वनरक्षिणः । सामान्यःसर्वलोकस्य पारिजातस्तथा द्रुमः ॥ ५,३०.
भर्तृ बहुमहागर्वाद्रुणद्ध्येनमथो शची । तत्कथ्यतामलं क्षान्त्या सत्वा हारयति द्रुमम् ॥ ५,३०.
कथ्यतां च द्रुतं गत्वा पौलोम्या वचनं मम । सत्यभामा वदत्येतदितिगर्वोद्धताक्षरम् ॥ ५,३०.
यदि त्वं दयिता भर्तुर्यदि वश्यः पतिस्तव । मद्भर्तुर्हरतो वृक्षं तत्कारय निवारणम् ॥ ५,३०.
जानामि ते पतिं शक्रं जानामि त्रिदशेश्वरम् । पारिजातं तथाप्येनं मानुषी हारयामि ते ॥ ५,३०.
श्रीपराशर उवाच इत्युक्ता रक्षिणो गत्वा शच्याः प्रोचुर्यथोदितम् । श्रुत्वा चोत्साहयामास शची चक्रं सुराधिपम् ॥ ५,३०.
ततःसमस्तदेवानां सैन्यैः परिवृतो हरिम् । प्रययौ पारिजातार्थमिन्द्रोयोद्धुं द्विजोत्तम ॥ ५,३०.
ततः परिघनिस्त्रिंशगदाशूलवरायुधाः । बभूवुस्त्रिदसाःसज्जाः शक्रे वज्रकरे स्थिते ॥ ५,३०.
ततो निरिक्ष्य गोविन्दो नागराजोपरि स्थितम् । शक्रं देवपरिवारं युद्धाय समुपस्थितम् ॥ ५,३०.
चकार शङ्खनिर्घोषं दिशः शब्देन पूरयन् । मुमोच शरसंघातान् सहस्रायुतशः शितान् ॥ ५,३०.
ततो दिशो नभश्चैव दृष्ट्वा शरशतैश्चितम् । मुमुचुस्त्रिदशाःसर्वे ह्यस्त्रशस्त्राम्यनेकशः ॥ ५,३०.