सितदीर्घादिनिः शेषकल्पनापरिवर्जित । जन्मादिभिरसंस्पृष्ट स्वप्नादिपरिवर्जित ॥ ५,३०.
संध्यारात्रिरहो भूमिर्गगनं वायुरंबु च । हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाच्युत ॥ ५,३०.
सर्गस्थितिविनाशानां कर्ता कर्तृपतिर्भवान् । ब्रह्मविष्णुशिवाख्याभिरात्ममूर्तिभिरीश्वर ॥ ५,३०.
देवा दैत्यास्तथा यक्षा राक्षसाः सिद्धपन्नगाः । कूष्माण्डाश्च पिशाचाश्च गन्धर्वा मनुजास्तथा ॥ ५,३०.
पशवश्च मृगाश्चैव पतङ्गाश्च सरीसृपाः । वृक्षगुल्मलताबह्व्यःसमस्तास्तृणजातयः ॥ ५,३०.
स्थूला मध्यास्तथा सूक्ष्माःसूक्ष्मात्सूक्ष्मतराश्च ये । देहभेदा भवान् सर्वे ये केचित्पुर्गलाश्रयाः ॥ ५,३०.
माया तवेयमज्ञातपरमार्थातिमोहिनी । अनात्मन्यात्मविज्ञानं यया मूढो निरुद्ध्यते ॥ ५,३०.
अस्वे स्वमिति भावोत्र यत्पुंसामुपजायते । अहं ममेति भावो यत्प्रायेणैवाभिजायते । संसारमातुर्मायायास्तवैतन्नाथ चेष्टितम् ॥ ५,३०.
यैः स्वधर्मपरैर्नाथ नरैराराधितो भवान् । ते तरन्त्यखिलामेतां मायामात्मविमुक्तये ॥ ५,३०.
ब्रह्माद्याःसकला देवा मनुष्याः पशवस्तथा । विष्णुमाया महावर्तमोहान्धतमसावृताः ॥ ५,३०.
आराध्य त्वामभीप्संते कामानात्मभवक्षयम् । यदेते पुरुषा माया सैवेयं भगवंस्तव ॥ ५,३०.
मया त्वं पुत्रकामिन्या वैरिपक्षजयाय च । आराधितो न मोक्षाय मायाविलसितं हि तत् ॥ ५,३०.
कौपीनाच्छादनप्राया वाञ्छा कल्पद्रुमादपि । जायते यदपुण्यानां सोपराधः स्वदोषजः ॥ ५,३०.
तत्प्रसीदाखिलजगन्मायामोहकराव्यय । अज्ञानं ज्ञानसद्भावभूतं भूतेश नाशय ॥ ५,३०.
नमस्ते चक्रहस्ताय शार्ङ्गहस्ताय ते नमः । नन्दहस्ताय ते विष्णो शङ्खहस्ताय ते नमः ॥ ५,३०.
एतत्पश्यामि ते रूपं स्थूलचिह्नोपलक्षितम् । न जानामि परं यत्ते प्रसीद परमेश्वर ॥ ५,३०.
श्रीपराशर उवाच अदित्यैवं स्तुतो विष्णुः प्रहस्याह सुरारणिम् । माता देवि त्वमस्माकं प्रसीद वरदा भव ॥ ५,३०.
अदिदिरुवाच एवमस्तु यथेच्छा ते त्वमशेषैः सुरासुरैः । अजेयः पुरुषव्याघ्र सर्त्यलोके भविष्यसि ॥ ५,३०.
श्रीपराशर उवाच ततः कृष्णस्य पत्नी च शक्रेण सहितादितिम् । सत्यभामा प्रणम्याह प्रसीदेति पुनः पुनः ॥ ५,३०.
अदितिरुवाच मत्प्रसादान्न ते सुभ्रु जरा वैरूप्यमेव वा । भविष्यत्यनवद्याङ्गि सुस्थिरं नवयौवनम् ॥ ५,३०.
श्रीपराशर उवाच अदित्या तु कृतानुज्ञो देवराजो जनार्दनम् । यथावत्पूजयामास बहुमानपुरःसरम् ॥ ५,३०.
शची च सत्यभामायै पारिजातस्य पुष्पकम् । न ददौ मानुषीं मत्वा स्वयं पुष्पैरलङ्कृता ॥ ५,३०.
ततो ददर्श कृष्णोऽपि सत्यभामासहायवान् । दवोद्यानानि हृद्यानि नन्दनादीनि सत्तम ॥ ५,३०.
ददर्श च सुगन्धाढ्यं मञ्जरीपुञ्जधारिणम् । नित्याह्लादकरं ताम्रबालपल्लवशोभितम् ॥ ५,३०.
मथ्यमानेऽमृते जातं जातरूपोपमत्वचम् । पारिजातं जगन्नाथः केशवः केशिसूदनः ॥ ५,३०.
तुतोष परमप्रीत्या तरुराजमनुत्तमम् । तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तम । कस्मान्न द्वारकामेष नीयते कृष्ण पादपः ॥ ५,३०.
यदि चेत्त्वद्वचः सत्यं त्वमत्यर्थं प्रियेति मे । मद्गेहनिष्कुटार्थाय तदयं नीयतां तरुः ॥ ५,३०.
न मे जांबवती तादृगभीष्टा न च रुक्मिणी । सत्ये यथा त्वमित्युक्तं त्वया कृष्णासकृत्प्रियम् ॥ ५,३०.
सत्यं तद्यदि गोविन्द नोपचारकृतं मम । तदस्तु पारिजातोऽयं मम गेहविभूषणम् ॥ ५,३०.
बिभ्रती पारिजातस्य केशपक्षेण मञ्जरीम् । सपत्नीनामहं मध्ये शोभेयमिति कामये ॥ ५,३०.