तस्मात्परिश्रिते कुर्याच्छ्राद्धं श्रद्धासमन्वितः । उर्व्यां च तिलविक्षेपाद्यातुधानान्निवारयेत्
नखादिना चोपपन्नं केशकीटादिभिर्नृप । न चैवाभिषवैर्मिश्रमन्नं पर्युषितं तथा
श्रद्धासमन्वितैर्दत्तं पितृभ्यो नामगोत्रतः । यदाहारास्तु ते जातास्तदाहारत्वमेति तत्
श्रूयते चापि पितृर्भिगीता गाथा महीपते । इक्ष्वाकोर्मनुपुत्रस्य कलापोपवने पुरा
अपि नस्ते भविष्यन्ति कुले सन्मार्गशीलिनः । गयामुपेत्य ये पिण्डान् दास्यन्त्यस्माकमादरात्
अपि नः स कुले जायाद्यो नो दद्यात् त्रयोदशीम् । पायसं मधुसर्पिर्भ्यां वर्षासु च मघासु च
गौरीं वाप्युद्वहेत् कन्यां नीलं वा वृषमुत्सृजेत् । यजेत वाश्वमेधेन विधिवद्दक्षिणावता
श्रीपराशर उवाच अतः परं ययातेः प्रथमपुत्रस्य यदोर्वंशमहं कथयामि ॥ ४,११.१ ४,११.२ ४,११.३ ४,११.४ ४,११.५ ४,११.६ ४,११.७ ४,११.८ ४,११.९ ४,११.१० ४,११.११ ४,११.१२ ४,११.१३ ४,११.१४ ४,११.१५ ४,११.१६ ४,११.१७ ४,११.१८ ४,११.१९ ४,११.२० ४,११.२१ ॥ जयध्वजात्तालजङ्घः पुत्रोभवत्
श्रीपराशर उवाच ययातेश्चातुर्थपुत्रस्यानोःसभानलचक्षुः परमेषुसंज्ञास्त्रयः पुत्रा बभूवुः ॥ ४,१८.१ ॥ सभानलपुत्रः कालानलः
श्रीमैत्रेय उवाच । ब्रह्मानारायणाख्योऽसौ कल्पादौ भगवान्यथा । ससर्ज सर्वभूतानि तदाचक्ष्व महामुने
श्रीपराशर उवाच । प्रजाः ससर्ज भगवान्ब्रह्मा नारायणात्मकः । प्रजापतिपतिर्देवो यथा तन्मे निशामय
अतीतकल्पावसाने निशासुप्तोत्थितः प्रभुः । सत्त्वोद्रि क्तस्तथा ब्रह्मा शून्यं लोकमवैक्षत
नारायणः परोऽचिन्त्यः परोषामपि स प्रभुः । ब्रह्मस्वरूपी भगवाननादिः सर्वसम्भवः
इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति । ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम्
आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः
तोयान्तःस्थां महीं ज्ञात्वा जगत्येकार्णवीकृते । अनुमानात्तदुद्धारं कर्तुकामः प्रजापतिः
अकरोत्स्वतनूमन्यां कल्पादिषु यथा पुरा । सत्स्यकूर्मादिकां तद्वद्वाराहं वरुरास्थितः
वेदयज्ञमयं रूपमश्षोजगतः स्थितौ । स्थितः स्थिरात्मा सर्वात्मा परमात्मा प्रजापतिः
जनलोकगतैस्सिद्धैस्सनकाद्यैरभिष्टुतः । प्रविवेश तदा तोयमात्माधारो धराधरः
निरीक्ष्य तं तदा देवी पातालातलमागतम् । तुष्टाव प्रणता भूत्वा भक्तिनम्रा वसुन्धरा
श्रीपृथिव्युवाच । नमस्ते पुण्डरीकाक्ष शंखचक्रगदाधर । मामुद्धरास्मादद्य त्वं त्वत्तोऽहं पूर्वमुत्थिता
त्वयाहमुद्धृता पूर्वं त्वन्मयाहं जनार्दन । तथान्यानि च भूतानि गगनादीन्यश्षोतः
नमस्ते परमात्मात्मन्पुरुषात्मन्नमोस्तु ते । प्रधानव्यक्तभूताय कालभूताय ते नमः
त्वं कर्ता सर्वभूतानां त्वं पाता त्वं विनाशकृत् । सर्गादिषु प्रभो ब्रह्मविष्णुरुद्रा त्मरूपधृक्
सम्भक्षयित्वा सकलं जगत्येकार्णवीकृते । श्षोए! त्वमेव गोविंद चिन्त्यमानो मनीषिभिः
भवतो यत्परं तत्त्वं तन्न जानाति कश्चन । अवतारेषु यद्रू पं तदर्चन्ति दिवौकसः
त्वामाराध्य परं ब्रह्म याता मुक्तिं मुमुक्षवः । वासुदेवमनाराध्य को मोक्षं समवाप्स्यति
यत्किंचिन्मनसा ग्राह्यं यद्ग्राह्यं चक्षुरादिभिः । बुद्ध्या च यत्परिच्छेद्यं तद्रू पमखिलं तव
त्वन्मयाहं त्वदाधारा त्वत्सृष्टा त्वत्समाश्रया । माधवीमिति लोकोयमभिधत्ते ततो हि माम्
जयाखिलज्ञानमय जय स्थूलमयाव्यय । जयाऽनन्त जयाव्यक्त जय व्यक्तमय प्रभो