पृथ्व्युवाच यदाहमुद्धृता नाथ त्वया सूकरमूर्तिना । त्वत्स्पर्शसंभवः पुत्रस्तदायं मय्यजायत ॥ ५,२९.
सोऽयं त्वयैव दत्तो मे त्वयैब विनिपातितः । गृहाम कुण्डले चेमे पालयास्य च संततिम् ॥ ५,२९.
भारावतरणार्थाय ममैव भगवानिमम् । अंशेन लोकमायातः प्रसादसुमुखः प्रभो ॥ ५,२९.
त्वं कर्ता च विकर्ता च संहर्ता प्रभवोऽप्ययः । जगतान्त्वं जगद्रूपःस्तूयतेऽच्युत किं तव ॥ ५,२९.
व्याप्तिव्याप्यं क्रियाकर्ता कार्यं च भगवान्यथा । सर्वभूतात्मभूतस्य स्तूयते तव किं तथा ॥ ५,२९.
परमात्मा च भूतात्मा त्वमात्मा चाप्ययो भवान् । यथातथा स्तुतिर्नाथ किमर्थं ते प्रवर्तते ॥ ५,२९.
प्रसीद सर्वभूतात्मन्नरकेण तु यत्कृतम् । तत्क्षम्यतामदोषाय त्वत्सुतस्त्वन्निपातितः ॥ ५,२९.
श्रीपराशर उवाच तथेति चोक्त्वा धरणीं भगवान् भूतभावनः । रत्नानि नरकावासाज्जग्राह मुनिसत्तम ॥ ५,२९.
कन्यापुरे स कन्यानां षोडःशातुलविक्रमः । शताधिकानि ददृशे सहस्राणि महामुने ॥ ५,२९.
चतुर्दंष्ट्रान्गजांश्चाग्र्यान् षट्सहस्रांश्च दृष्टवान् । कांभोजानां तथाश्वानां नियुतान्येकविंशतिम् ॥ ५,२९.
ताः कन्यास्तांस्तथा नागांस्तानश्वान् द्वारकां पुरीम् । प्रापयामास गोविन्दः सद्यो नरककिङ्करैः ॥ ५,२९.
ददृशे वारुणं च्छत्रं तथैव मणिपर्वतम् । आरोपयामास हरिर्गरुडेपतगेश्वरे ॥ ५,२९.
आरुह्य च स्वयं कृष्णः सत्यभामासहायवान् । अदित्याः कुण्डले दानुं जगाम त्रिदशालयम् ॥ ५,२९.
श्रीपराशर उवाच गरुडो वारुणं छत्रं तथैव मणिपर्वतम् । सभार्यं च हृषीकेशं लीलयैव वहन्ययौ ॥ ५,३०.
ततः शंखमुपाध्मासीत्स्वर्गद्वारगतो हरिः । उपतस्थुस्तथा देवाःसार्घ्यहस्ता जनर्दनम् ॥ ५,३०.
स देवैरर्चितः कृष्णो देवमातुर्निवेशनम् । सिताभ्रशिखराकारं प्रविश्य ददृशेऽदितिम् ॥ ५,३०.
स तां प्रणम्य शक्रेण सह ते कुण्डलोत्तमे । ददौ नरकनाशं च शशंसास्यै जनार्दनः ॥ ५,३०.
ततः प्रीताजगन्माता धातारं जगतां हरिम् । तुष्टावादितिरव्यग्रा कृत्वा तत्प्रवणं मनः ॥ ५,३०.
अदितिरुवाच नमस्ते पुण्डरीकाक्ष भक्तानामभयङ्कर । सनातनात्मन् सर्वात्मन् भूतात्मन् भूतभावन ॥ ५,३०.
प्रणेतर्मनसो बुद्धेरिन्द्रियाणां गुणात्मक । त्रिगुणातीत निर्द्वंद्व शुद्धसत्त्व हृदि स्थित ॥ ५,३०.
सितदीर्घादिनिः शेषकल्पनापरिवर्जित । जन्मादिभिरसंस्पृष्ट स्वप्नादिपरिवर्जित ॥ ५,३०.
संध्यारात्रिरहो भूमिर्गगनं वायुरंबु च । हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाच्युत ॥ ५,३०.
सर्गस्थितिविनाशानां कर्ता कर्तृपतिर्भवान् । ब्रह्मविष्णुशिवाख्याभिरात्ममूर्तिभिरीश्वर ॥ ५,३०.
देवा दैत्यास्तथा यक्षा राक्षसाः सिद्धपन्नगाः । कूष्माण्डाश्च पिशाचाश्च गन्धर्वा मनुजास्तथा ॥ ५,३०.
पशवश्च मृगाश्चैव पतङ्गाश्च सरीसृपाः । वृक्षगुल्मलताबह्व्यःसमस्तास्तृणजातयः ॥ ५,३०.
स्थूला मध्यास्तथा सूक्ष्माःसूक्ष्मात्सूक्ष्मतराश्च ये । देहभेदा भवान् सर्वे ये केचित्पुर्गलाश्रयाः ॥ ५,३०.
माया तवेयमज्ञातपरमार्थातिमोहिनी । अनात्मन्यात्मविज्ञानं यया मूढो निरुद्ध्यते ॥ ५,३०.
अस्वे स्वमिति भावोत्र यत्पुंसामुपजायते । अहं ममेति भावो यत्प्रायेणैवाभिजायते । संसारमातुर्मायायास्तवैतन्नाथ चेष्टितम् ॥ ५,३०.
यैः स्वधर्मपरैर्नाथ नरैराराधितो भवान् । ते तरन्त्यखिलामेतां मायामात्मविमुक्तये ॥ ५,३०.
ब्रह्माद्याःसकला देवा मनुष्याः पशवस्तथा । विष्णुमाया महावर्तमोहान्धतमसावृताः ॥ ५,३०.