त्वयानाथेन देवानां मनष्यत्वेपि तिष्ठता । प्रशमं सर्वदुःखानि नीतानि मधुसूदन ॥ ५,२९.
तपस्विव्यमनार्थाय सोरिष्टो धेनुकस्तथा । प्रवृत्तो यस्तथा केशीते सर्वे निहतास्त्वया ॥ ५,२९.
कंसः कुवलयापीडः पूतना बालघातिनी । नाशं नीतास्त्वया सर्वे येऽन्ये जगदुपद्रवाः ॥ ५,२९.
युष्मद्दोर्दडसंभूतिपरित्राते जगत्त्रये । यज्वयज्ञांशसंप्राप्त्या तृप्तिं यान्ति दिवौकसः ॥ ५,२९.
सोऽहं सांप्रतमायातो यन्निमित्तं जनार्दन । तच्छुत्वा तत्प्रतीकारप्रयत्नं कर्तुमर्हसि ॥ ५,२९.
भौमोऽयं नरको नाम प्राग्ज्योतिषपुरेश्वरः । करोति सर्वभूतानामुपघातमरिन्दम ॥ ५,२९.
देवसिद्दसुरादीनां नृपाणां च नजार्दन । हृत्वा तु सोऽसुरः कन्या रुरुधे निजमन्दिरे ॥ ५,२९.
छत्रं यत्सलिलस्रावि तज्जहार प्रचेतसः । मदंरस्य तथा शृङ्गं हृतवान्मणिपर्वतम् ॥ ५,२९.
अमृतस्त्राविणी दिव्ये मन्मातुः कृष्णकुञ्जले । जहार सोऽसुरो दित्या वाञ्छत्यैरावतं गजम् ॥ ५,२९.
दुर्नीतमेतद्गोविन्दमया तस्य निवेदितम् । यदत्र प्रतिकर्तव्यं तत्स्वयं परिमृश्यताम् ॥ ५,२९.
श्रीपराशस उवाच इतिश्रुत्वा स्मितं कृत्वा भगवान्देवकीसुतः । गृहीत्वा वासवं हस्ते समुत्तस्थौ वरासनात् ॥ ५,२९.
संचिन्त्यागतमारुह्य गरुडं गगनेचरम् । सत्यभामां समारोप्य ययौ प्राग्ज्योतिषं पुरम् ॥ ५,२९.
आरुह्यौरावतं नागं शक्रोऽपि त्रिदिवं ययौ । ततौ जगाम कृष्णश्च पश्यतां द्वारकौकसाम् ॥ ५,२९.
प्राग्ज्योतिषपुरस्यापि समन्ताच्छतयोजनम् । आचिता मौरवैः पाशैः क्षुरान्तैर्भूर्द्विजोत्तम ॥ ५,२९.
ताञ्चिच्छेद हरिः पाशान्क्षिप्त्वा चक्रं सुदर्शनम् । ततो मुरःसमुत्तस्थौ तं जघान च केशवः ॥ ५,२९.
मुरस्य तनयान्सप्त सहस्रांस्तांस्ततो हरिः । चक्रधाराग्निनिर्दग्धांश्चकार शलभानिव ॥ ५,२९.
हत्वासुरं हयग्रीवं तथा पञ्चजनं द्विज । प्राग्ज्योतिषपुरं धीमांस्त्वारावान्समुपाद्रवत् ॥ ५,२९.
नरकेणास्य तत्राभून्महासैन्येन संयुगम् । कृष्णस्य यत्र गोविन्दो यत्र गोविन्दो जघ्ने दैत्यान्सहस्रशः ॥ ५,२९.
शस्त्रास्त्रवर्षं मुञ्चन्तं तं भौमं नरकं बली । क्षिप्त्वा चक्रं द्विधा चक्रे चक्री दैतेयचक्रहा ॥ ५,२९.
हते तु नरके भूमिर्गृहीत्वादितिकुण्डले । उपतस्थे जगन्नाथं वाक्यं चेदमथाब्रवीत् ॥ ५,२९.
पृथ्व्युवाच यदाहमुद्धृता नाथ त्वया सूकरमूर्तिना । त्वत्स्पर्शसंभवः पुत्रस्तदायं मय्यजायत ॥ ५,२९.
सोऽयं त्वयैव दत्तो मे त्वयैब विनिपातितः । गृहाम कुण्डले चेमे पालयास्य च संततिम् ॥ ५,२९.
भारावतरणार्थाय ममैव भगवानिमम् । अंशेन लोकमायातः प्रसादसुमुखः प्रभो ॥ ५,२९.
त्वं कर्ता च विकर्ता च संहर्ता प्रभवोऽप्ययः । जगतान्त्वं जगद्रूपःस्तूयतेऽच्युत किं तव ॥ ५,२९.
व्याप्तिव्याप्यं क्रियाकर्ता कार्यं च भगवान्यथा । सर्वभूतात्मभूतस्य स्तूयते तव किं तथा ॥ ५,२९.
परमात्मा च भूतात्मा त्वमात्मा चाप्ययो भवान् । यथातथा स्तुतिर्नाथ किमर्थं ते प्रवर्तते ॥ ५,२९.
प्रसीद सर्वभूतात्मन्नरकेण तु यत्कृतम् । तत्क्षम्यतामदोषाय त्वत्सुतस्त्वन्निपातितः ॥ ५,२९.
श्रीपराशर उवाच तथेति चोक्त्वा धरणीं भगवान् भूतभावनः । रत्नानि नरकावासाज्जग्राह मुनिसत्तम ॥ ५,२९.
कन्यापुरे स कन्यानां षोडःशातुलविक्रमः । शताधिकानि ददृशे सहस्राणि महामुने ॥ ५,२९.
चतुर्दंष्ट्रान्गजांश्चाग्र्यान् षट्सहस्रांश्च दृष्टवान् । कांभोजानां तथाश्वानां नियुतान्येकविंशतिम् ॥ ५,२९.