विवाहे तत्र निवृत्ते प्राद्यूम्नेः सुमहात्मनः । कलिङ्गराजप्रमुखा रुक्मिणां वाक्यमब्रु वन् ।। ५-२८-
अनक्षज्ञो हली द्यूते तथास्य व्यसनं महत् । न जयामो बलं कस्मादू द्यूतेनैनं महाद्युते ।। ५-२८-
तथेति तानाह नृपान् रुक्मी बलसमन्वितः । सभायां सह रामेण चक्र द्रू तञ्च वै तदा ।। ५-२८-
सहस्त्रमेकं निष्काणां रुक्मिणा विजितो बलः । द्रितीयेऽपि पणे चान्यत् सहस्त्र रुक्मिणा जितम् ।। ५-२८-
ततो दश सहस्त्राणि निष्काणां पणमाददे । बलभद्रोऽजयत्तानि रुक्मी द्यूतविदां वरः ।। ५-२८-
ततो जहास खनवत् कलिङ्गाधिपतिर्द्रिज! दन्तान् विदर्शयन् मूढ़ो रुक्मी चाह मदोद्धतः ।। ५-२८-
ग्रविज्ञोऽयं मया द्यूते बलदेवः पराजितः । मुधैवाक्षावलेपान्धो यः स्वं मेनेऽक्षकाविदम् ।। ५-२८-
दृष्टा कलिङ्गराजं तं प्रकाशदशनाननम् । रुक्मिणञ्चपि दुव्वक्यिं कोपं चक्र हलायुधः ।। ५-२८-
ग्लहं जग्राह रुक्मी च तदर्थेऽक्षानपातयत् ।। ५-२८-
अजयद् बलदेवस्तं प्राहोच्चैस्तं जितं मया । मयेति रुक्मी प्राहोच्चैरलीकोक्तेरलं बल ।। ५-२८-
त्वयोक्तोऽ.यं ग्लहः सत्यं न ममैषोऽनुमोदितः । एवं त्वया चेदू विजितं मया न विजितं कथम् ।। ५-२८-
अथान्तरिक्षे वागुच्चैः प्राह गम्भीरनादिनी । बलदेवस्य तदूकोपं वर्द्धयन्ती महात्मनः ।। ५-२८-
जितं बलेन धर्म्मेण रुक्मिणो भाषितं मृषा । अनुक्त्वापि वचः किञ्चित् कृतं भवति कर्म्मा ।। ५-२८-
ततो बलः समुत्थाय कोपसंरक्तलोचनः । जघानाष्टापदेनैव रुक्मिणं सुमहाबलः ।। ५-२८-
कलिङ्गराजञ्चादाय विस्फुरन्तं बलाद बलः । वभञ्च दन्तान् कुपितो यैः प्रकाशं जहास सः ।। ५-२८-
आकृष्य च महास्तम्भं जातरूपमयं बलः । जघान येऽन्ये तत्पक्षा बूभृतः कुपितो बलात ।। ५-२८-
ततो हाहाकृतं सर्व्वं पलायनपरं द्रिज! तद्राजमणडलं भीतं बभूव कुपिते बले ।। ५-२८-
बलेन निहतं श्रुत्वा रुक्मिणं मधुसूदनः । नोवाच किञ्चिन्मैत्रेय!रुक्मिणी-बलयोर्भयात् ।। ५-२८-
द्वारवत्यां स्थिते कृष्णे शक्रस्त्रिभुवनेश्वरः । आजगामाथ मैत्रेय मत्तैरावतपृष्ठगः ॥ ५,२९.
प्रविश्य द्वारकां सोऽथ समेत्य हरिणा ततः । कथयामास दैत्यस्य नरकस्य विचोष्टितम् ॥ ५,२९.
त्वयानाथेन देवानां मनष्यत्वेपि तिष्ठता । प्रशमं सर्वदुःखानि नीतानि मधुसूदन ॥ ५,२९.
तपस्विव्यमनार्थाय सोरिष्टो धेनुकस्तथा । प्रवृत्तो यस्तथा केशीते सर्वे निहतास्त्वया ॥ ५,२९.
कंसः कुवलयापीडः पूतना बालघातिनी । नाशं नीतास्त्वया सर्वे येऽन्ये जगदुपद्रवाः ॥ ५,२९.
युष्मद्दोर्दडसंभूतिपरित्राते जगत्त्रये । यज्वयज्ञांशसंप्राप्त्या तृप्तिं यान्ति दिवौकसः ॥ ५,२९.
सोऽहं सांप्रतमायातो यन्निमित्तं जनार्दन । तच्छुत्वा तत्प्रतीकारप्रयत्नं कर्तुमर्हसि ॥ ५,२९.
भौमोऽयं नरको नाम प्राग्ज्योतिषपुरेश्वरः । करोति सर्वभूतानामुपघातमरिन्दम ॥ ५,२९.
देवसिद्दसुरादीनां नृपाणां च नजार्दन । हृत्वा तु सोऽसुरः कन्या रुरुधे निजमन्दिरे ॥ ५,२९.
छत्रं यत्सलिलस्रावि तज्जहार प्रचेतसः । मदंरस्य तथा शृङ्गं हृतवान्मणिपर्वतम् ॥ ५,२९.
अमृतस्त्राविणी दिव्ये मन्मातुः कृष्णकुञ्जले । जहार सोऽसुरो दित्या वाञ्छत्यैरावतं गजम् ॥ ५,२९.
दुर्नीतमेतद्गोविन्दमया तस्य निवेदितम् । यदत्र प्रतिकर्तव्यं तत्स्वयं परिमृश्यताम् ॥ ५,२९.