रुक्मिणी चावदत् प्रेमूणा प्रम्णा साश्रुदृष्टिरनिन्दिता । धन्यायाः खल्वयं पुत्रो वर्त्तते नवयौवने ।। ५-२७-
अस्मिन् वयसि पुत्रो मे प्रद्यु म्रो यदि जीवति । सभाग्या जननी वतूस! त्वया कापि विभूषिता ।। ५-२७-
अथवा यादृशः स्नेहो मम यादृगू वपुस्तव । हरेरपत्यं सुव्यक्त भवान् वत्स!भविष्यति ।। ५-२७-
एतिस्मिन्नन्तरे प्राप्तः सह कृष्णेन नारदः । अन्तः पुरचरीं देवीं रुक्मिणीं प्राह हर्षयन् ।। ५-२७-
एश ते तनयः सुभ्रु! हत्वा शम्बरमागतः । ह्टतो येनाभवद् बालो भवत्याः सूतिकागृहात् ।। ५-२७-
इयं मायावती भार्य्या तनयस्यास्य ते सती । शम्बरस्य न भार्य्येयं श्रूयतामत्र कारणम् ।। ५-२७-
मन्मथे तु गते नाशं तदुद्भवपरायाणा । शम्बरं मोहयामास मायारूपेण रूपिणी ।। ५-२७-
व्यवायाद्यु पभोगेषु रूपं मायामयं शुभम् । दर्शयामास दैत्यस्य तस्येयं मदिरेक्षणा ।। ५-२७-
कामोऽवतीर्णः पुत्रस्ते तस्येयं दयिता रतिः । विशङ्का नात्र कर्त्तव्या स्नुषेयं तव शोभना ।। ५-२७-
ततो हर्षसमाविष्टा रुक्मिणी केशवस्तथा । नगरी च समस्ता सा साधु साध्वित्यभाषत ।। ५-२७-
चिरं नष्टेन पुत्रेण संयुक्तां प्रेक्ष्य रुक्मिणीम् । अवाप विस्मयं सर्व्वो द्रारवत्यां जनस्तदा ।। ५-२७-
चारुदेष्णां सुदेष्णञ्च चारुदेवञ्च वीर्य्यवान् । सुषेणं चारुगुप्तञ्च भद्रचारु तथापरम् ।। ५-२८-
चारुविन्दं सुचारुञ्च चारुञ्च बलिनां वरम् । रुक्मिण्यजनयत् पुत्रान् कन्यां चारुमतीं तथा ।। ५-२८-
अन्याश्व भार्य्याः कृष्णस्य बभूवुः स्प्त शोभनाः । कालिन्दी मित्रविन्दा च सत्या नाग्रजिती तथा ।। ५-२८-
देवी जाम्बवती चापि रोहिणी कामरूपिणी । मद्रराजसुता चान्या सुशीला शीलभण्डना ।। ५-२८-
सात्राजिती सत्यभीमा लक्ष्णा चारुहासिनी । षोड़शासन सहस्त्राणि स्त्रीणामन्यानि चक्रिणः ।। ५-२८-
प्रद्यु म्रोऽपि महावीर्य्यो रुक्मिणस्तनयां शुभाम् । स्वयंवरस्थां जग्राह सा च तं तनय हरेः ।। ५-२८-
यस्यामस्याभवत् पुत्रो महाबलपराक्रमः । अनिरुद्धो रणो क्रे द्धो वीर्य्योदधिररिन्दमः ।। ५-२८-
तस्यापि रुक्मिणः पौत्रीं वरयामास केशवः । दौहित्राय ददौ रुक्मी तां स्पर्द्धन्नपि शौरिणा ।। ५-२८-
तस्या विवाहे रामाद्या यादवा हरिणा सह । रुक्मिणो नगरं जग्मुर्नाम्रा भोजकटं द्रिज ।। ५-२८-
विवाहे तत्र निवृत्ते प्राद्यूम्नेः सुमहात्मनः । कलिङ्गराजप्रमुखा रुक्मिणां वाक्यमब्रु वन् ।। ५-२८-
अनक्षज्ञो हली द्यूते तथास्य व्यसनं महत् । न जयामो बलं कस्मादू द्यूतेनैनं महाद्युते ।। ५-२८-
तथेति तानाह नृपान् रुक्मी बलसमन्वितः । सभायां सह रामेण चक्र द्रू तञ्च वै तदा ।। ५-२८-
सहस्त्रमेकं निष्काणां रुक्मिणा विजितो बलः । द्रितीयेऽपि पणे चान्यत् सहस्त्र रुक्मिणा जितम् ।। ५-२८-
ततो दश सहस्त्राणि निष्काणां पणमाददे । बलभद्रोऽजयत्तानि रुक्मी द्यूतविदां वरः ।। ५-२८-
ततो जहास खनवत् कलिङ्गाधिपतिर्द्रिज! दन्तान् विदर्शयन् मूढ़ो रुक्मी चाह मदोद्धतः ।। ५-२८-
ग्रविज्ञोऽयं मया द्यूते बलदेवः पराजितः । मुधैवाक्षावलेपान्धो यः स्वं मेनेऽक्षकाविदम् ।। ५-२८-
दृष्टा कलिङ्गराजं तं प्रकाशदशनाननम् । रुक्मिणञ्चपि दुव्वक्यिं कोपं चक्र हलायुधः ।। ५-२८-
ग्लहं जग्राह रुक्मी च तदर्थेऽक्षानपातयत् ।। ५-२८-
अजयद् बलदेवस्तं प्राहोच्चैस्तं जितं मया । मयेति रुक्मी प्राहोच्चैरलीकोक्तेरलं बल ।। ५-२८-