शोभाविनि विवाहे तु तां कन्यां ह्टतवान् हरिः । विपक्षभारमासज्य रामाद्य ष्वथ बन्धुषु ।। ५-२६-
ततश्व पौण्ड्रकः श्रीमान् दन्तवक्रो विदूरथः । शिशुपाल-जरासन्ध-शाल्वाद्याश्व महीभृतः ।। ५-२६-
कुपितास्ते हरिं हन्तुं चक्रु रुदूयोगमुत्तमम् । निर्ज्जिताश्व समागम्य रामाद्यर्यदुपुङ्गवैः ।। ५-२६-
कुणिडनं न प्रवेक्ष्यामि अहत्वा युधि केशवम् । कृत्वा प्रतिज्ञां रुकमी च हन्तुं कृष्णमभिद्रुतः ।। ५-२६-
हत्वा बलं सनागाश्व-पत्ति-स्यन्दनसङ्कुलम् । निर्जितः पातितश्वोर्व्व्यां लीलयैव स चकिणा।। ५-२६-
हन्तु कृतमतिः कृष्णो रुक्मिणां युद्धदुर्म्मदम् । प्रणम्य याचितो ब्रह्मन् रुविमण्या मगवान हरिः ।। ५-२६-
एक एव मम भ्राता न हन्तव्यस्त्वयाधुना । कोपं नियम्य देवेश!भ्रातृभिक्षा प्रदीयताम् ।। ५-२६-
इत्युक्तेन परित्यक्तः कृष्णेनाक्लिष्टकर्म्मणा । रुक्मी भोजकटं नाम पुरं कुत्वावसत् तदा ।। ५-२६-
निर्जित्य रुक्मिणं सम्यगुपयेमे स रुक्मिणीम् । राक्षसेन विवाहेन सम्प्रप्तां मधुसूदनः ।। ५-२६-
तस्यां जज्ञ ऽथ प्रद्युम्रो मदनांश- स वीर्य्यवान् । जहार शम्बरो यं वै यो जघान च शम्बरम् ।। ५-२६-
शम्बरेण ह्टतो वीरः प्रद्यु म्रः स कथं मुने ! शम्बरश्व महावीर्य्यः प्रद्यु म्नेन कथं हतः ।। ५-२७-
पराशर उवाच । षष्ठेऽह्नि जातमात्रन्तु प्रद्युम्र सूतिकागृहात् । ममैष हन्तेति मुने! ह्टतवान् कालशम्बरः ।। ५-२७-
ह्टत्वा चिक्षेप चैवैनं ग्राहोग्र लवणार्णावे । कल्लोलजनितावर्त्ते सुघोरे मकरालये ।। ५-२७-
पतितं तत्र चैवैको मत्स्यो जग्राह बालकम् । न ममार च तस्यापि जठरेऽनलदीपितः ।। ५-२७-
मतूस्यबन्धश्व मत्स्योऽसौ मत्स्यैरन्यैः सह द्रिज ! घातितोऽसुरवर्य्याय शम्बराय निवेदितः ।। ५-२७-
तस्य मायावती नाम पत्री सर्व्वगृहेश्वरी । कारयामास सूदानामाधिपत्यमनिन्दिता ।। ५-२७-
दारिते मत्स्यजठरे सा ददर्शातिशोभनम् । कुमारं मन्मथतरोर्दग्धस्य प्रथमाङ्कुरम् ।। ५-२७-
कोऽयं कथमयं मत्स्यजठरं समुपागतः । इत्येवं कौतुकाविष्टां तां तन्वीं प्राह नारादः ।। ५-२७-
अयं समस्तजगतः सूतिसंहारकारिणा । शम्बरेण ह्टतः कृष्णृ-तनयः सूतिकागृहात् ।। ५-२७-
क्षिप्तः समुद्र मत्स्येन निगीर्णास्ते वशं गतः । नररत्रमिदं सुभ्रू विस्त्रब्धा परिपालय ।। ५-२७-
नारदेनैवमुक्ता सा पालयामास तं शिशुम् । बाल्यादेवातिरागेण रूपातिशयमोहिता ।। ५-२७-
स यदा यौवनाभोग-भूषितोऽभून्महामते! साभिलाषा तदा साति बभूव गजगामिनी ।। ५-२७-
मायावती ददौ तस्म मायाः सर्व्वा महामुन ! प्रद्यु म्रायातिरागान्धा तन्नयस्तह्टदयेक्षणा ।। ५-२७-
प्रसज्जन्तीन्तु तामाह स कार्ष्णिः कमलेक्षणाम् । मातृभावमपाहाय किमेवं वर्त्तसेऽन्यथा ।। ५-२७-
सा चास्मै कथयामास न पुत्रस्त्वं ममेति वै । तनयं त्वामयं विष्णोह्ट तवान् कालशम्बरः ।। ५-२७-
क्षिप्तः समुद्र मत्स्यस्य सम्प्राप्तो जठरान्मया । सा तु रोदिति ते माता कान्ताद्याप्यतिवत्सला ।। ५-२७-
इत्युक्तः शम्बरं युद्धे प्रद्यु म्रः स समाह्वयत् । क्रोधाकुलीकृतमना युयुधे च महाबलः ।। ५-२७-
हत्वा सैन्यमशेषन्तु तस्य दैत्यस्य माधविः । सप्त माया व्यतिक्रम्य मायां प्रयुयुजेऽशष्टमीम् ।। ५-२७-
तया जघान तं दैत्यं मायया कालशम्बरम् । उत्पत्य च तया सार्द्धमाजगाम पितुर्गृहम् ।। ५-२७-
अन्तः परे निपतितं मायावत्या समन्वितम् । तं दृष्ट्वा कृष्णसंकल्पा बभूवुः कृष्णयोषितः ।। ५-२७-