गयामुपेत्य यः श्राद्धं करोति पृथिवीपते । सफलं तस्य तज्जन्म जायते पितृतुष्टिदम्
प्रशान्तिकास्सनीवाराः श्यामाका द्विविधास्तथा । वन्यौषधीप्रधानास्तु श्राद्धार्हाः पुरुषर्षभ
यवाः प्रियङ्गवो मुद्गा गोधूमा व्रीहयस्तिलाः । निष्पावाः कोविदाराश्च सर्षपाश्चात्र शोभनाः
अकृताग्रयणं यच्च धान्यजातं नरेश्वर । राजमाषानणूंश्चैव मसूरांश्च विसर्जयेत्
अलाबुं गृञ्जनं चैव पलाण्डुं पिण्डमूलकम् । गान्धारककरम्बादिलवणान्यौषराणि च
आरक्ताश्चैव निर्यासाः प्रत्यक्षलवणानि च । वर्ज्यान्येतानि वै श्राद्धे यच्च वाचा न शस्यते
नक्ताहृतमनुच्छिन्नं तृप्यते न च यत्र गौः । दुर्गन्धि फेनिलं चाम्बु श्राद्धयोग्यं न पार्थिव
क्षीरमेकशफानां यदौष्ट्रमाविकमेव च । मार्गं च माहिषं चैव वर्जयेच्छ्राद्धकर्मणि
षण्ढापविद्धचाण्डालपापिपाषण्डिरोगिभिः । कृकवाकुश्वननग्नैश्च वानरग्रामसूकरैः
उदक्यासूतकाशौचिमृतहारैश्च वीक्षिते । श्राद्धे सुरा न पितरो भुञ्जते पुरुषर्षभ
तस्मात्परिश्रिते कुर्याच्छ्राद्धं श्रद्धासमन्वितः । उर्व्यां च तिलविक्षेपाद्यातुधानान्निवारयेत्
नखादिना चोपपन्नं केशकीटादिभिर्नृप । न चैवाभिषवैर्मिश्रमन्नं पर्युषितं तथा
श्रद्धासमन्वितैर्दत्तं पितृभ्यो नामगोत्रतः । यदाहारास्तु ते जातास्तदाहारत्वमेति तत्
श्रूयते चापि पितृर्भिगीता गाथा महीपते । इक्ष्वाकोर्मनुपुत्रस्य कलापोपवने पुरा
अपि नस्ते भविष्यन्ति कुले सन्मार्गशीलिनः । गयामुपेत्य ये पिण्डान् दास्यन्त्यस्माकमादरात्
अपि नः स कुले जायाद्यो नो दद्यात् त्रयोदशीम् । पायसं मधुसर्पिर्भ्यां वर्षासु च मघासु च
गौरीं वाप्युद्वहेत् कन्यां नीलं वा वृषमुत्सृजेत् । यजेत वाश्वमेधेन विधिवद्दक्षिणावता
श्रीपराशर उवाच अतः परं ययातेः प्रथमपुत्रस्य यदोर्वंशमहं कथयामि ॥ ४,११.१ ४,११.२ ४,११.३ ४,११.४ ४,११.५ ४,११.६ ४,११.७ ४,११.८ ४,११.९ ४,११.१० ४,११.११ ४,११.१२ ४,११.१३ ४,११.१४ ४,११.१५ ४,११.१६ ४,११.१७ ४,११.१८ ४,११.१९ ४,११.२० ४,११.२१ ॥ जयध्वजात्तालजङ्घः पुत्रोभवत्
श्रीपराशर उवाच ययातेश्चातुर्थपुत्रस्यानोःसभानलचक्षुः परमेषुसंज्ञास्त्रयः पुत्रा बभूवुः ॥ ४,१८.१ ॥ सभानलपुत्रः कालानलः
श्रीमैत्रेय उवाच । ब्रह्मानारायणाख्योऽसौ कल्पादौ भगवान्यथा । ससर्ज सर्वभूतानि तदाचक्ष्व महामुने
श्रीपराशर उवाच । प्रजाः ससर्ज भगवान्ब्रह्मा नारायणात्मकः । प्रजापतिपतिर्देवो यथा तन्मे निशामय
अतीतकल्पावसाने निशासुप्तोत्थितः प्रभुः । सत्त्वोद्रि क्तस्तथा ब्रह्मा शून्यं लोकमवैक्षत
नारायणः परोऽचिन्त्यः परोषामपि स प्रभुः । ब्रह्मस्वरूपी भगवाननादिः सर्वसम्भवः
इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति । ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम्
आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः
तोयान्तःस्थां महीं ज्ञात्वा जगत्येकार्णवीकृते । अनुमानात्तदुद्धारं कर्तुकामः प्रजापतिः
अकरोत्स्वतनूमन्यां कल्पादिषु यथा पुरा । सत्स्यकूर्मादिकां तद्वद्वाराहं वरुरास्थितः
वेदयज्ञमयं रूपमश्षोजगतः स्थितौ । स्थितः स्थिरात्मा सर्वात्मा परमात्मा प्रजापतिः
जनलोकगतैस्सिद्धैस्सनकाद्यैरभिष्टुतः । प्रविवेश तदा तोयमात्माधारो धराधरः
निरीक्ष्य तं तदा देवी पातालातलमागतम् । तुष्टाव प्रणता भूत्वा भक्तिनम्रा वसुन्धरा