विचरन् बलदेवोऽपि मदिरागन्धमुत्तमम् । आघ्राय मादरातर्षमवापाथ पुरातनम् ।। ५-२५-
ततः कदम्बात् सहसा मद्यधारां स लाङ्गली । पतन्तीं वीक्ष्य मंत्रेय !प्रययौ परमां मुदम् ।। ५-२५-
पपौ च गोपगोपीभिः समवेतो मुदान्वितः । प्रगीयमानो ललितं गीतवाद्यविशारदैः ।। ५-२५-
समन्तोतूपन्न-घर्म्माम्भः कणिकामौक्तिकोज्जवलः । आगच्छ यमुने! स्त्रतुमिच्चामीत्त्याह विह्वलः ।। ५-२५-
तस्य वाचं नदी सा च मत्तोक्तामवमत्य वै । नाजगाम ततः क्रुद्धो हलं जग्राह लाङ्गली ।। ५-२५-
गृहीत्वा तां तटे तेन चकर्ष मदविह्वलः । पापे नायासि नायासि गम्यतामिच्छयात्मनः ।। ५-२५-
सा कृष्टा तेन सहसा गार्ग सन्त्यज्य निम्रगा । यत्रास्ते बलभद्रोऽसौ प्लावयामास तदूनम् ।। ५-२५-
शरीरिणी तथोत्पत्य त्रासविह्वललोचना । प्रसीदेत्यब्रवीद् रामं मुञ्च मां मुषलायुध ।। ५-२५-
सोऽब्रवीदवजानासि मम शौर्य्यबले यदि । सोऽहं त्वां हलपातेन विनेष्यामि सहस्त्रधा ।। ५-२५-
इत्युक्तयातिसन्त्रासात् तया नद्या प्रसादितः । भूभागे प्लाविते तस्मिन् मुमोच यमुनां बलः ।। ५-२५-
ततः स्त्रातस्य वै कान्तिराजगाम महात्मनः । अवतंसोतूपलं चारु गृहीत्वैकञ्च कुण्डलम् ।। ५-२५-
वरुणप्रहितां चास्मै मालामम्लानपङ्कजाम् । समूद्राभे तथा वस्त्रे नीले लक्ष्मीरयच्छत ।। ५-२५-
कृतावतंसः स तदा चारुकुण्जलभूषितः । नीलाम्बरधरः स्क्षग्वी शुशुबे कान्तिसंयुतः ।। ५-२५-
इत्थं विभूषितो रेमे तत्र रामस्तथा व्रजे । मासदूयेन यातश्व पुनः स द्रारकां पुरीम् ।। ५-२५-
रेवतीं नाम तनयां रैवतस्य महीपतेः । उपयेमे बलस्तस्यां जज्ञाते निशठोल्मुकौ ।। ५-२५-
भीष्मकः कुणिडने राजा विदर्भविषयेऽभवत् । रूकमी तस्याभवत् पुत्रो रुविमणी च वराङ्गन ।। ५-२६-
रुक्मिणी चकमे कृष्णः सा च तं चारुहासिनी । नि ददौ याचते चैनां रुक्मी द्रेषेण चक्रिणो ।। ५-२६-
ददौ च शिशुपालाय जरासन्धप्रदेशितः । भीष्मको रुक्मिणा सार्द्ध रुक्मिणीमुरुविक्रमः ।। ५-२६-
विवाहार्थं ततः सर्व्वे जरासन्धमुखा नृपाः । भीष्मकस्य पुरं जग्मुः शिशुपालप्रियैषिणः ।। ५-२६-
कृष्णोऽपि बलभद्राद्यर्यादवैर्बहुभिर्वृतः । प्रययौ कुण्दिनं द्रष्टुं विवाहञ्चैव भूभृतः ।। ५-२६-
शोभाविनि विवाहे तु तां कन्यां ह्टतवान् हरिः । विपक्षभारमासज्य रामाद्य ष्वथ बन्धुषु ।। ५-२६-
ततश्व पौण्ड्रकः श्रीमान् दन्तवक्रो विदूरथः । शिशुपाल-जरासन्ध-शाल्वाद्याश्व महीभृतः ।। ५-२६-
कुपितास्ते हरिं हन्तुं चक्रु रुदूयोगमुत्तमम् । निर्ज्जिताश्व समागम्य रामाद्यर्यदुपुङ्गवैः ।। ५-२६-
कुणिडनं न प्रवेक्ष्यामि अहत्वा युधि केशवम् । कृत्वा प्रतिज्ञां रुकमी च हन्तुं कृष्णमभिद्रुतः ।। ५-२६-
हत्वा बलं सनागाश्व-पत्ति-स्यन्दनसङ्कुलम् । निर्जितः पातितश्वोर्व्व्यां लीलयैव स चकिणा।। ५-२६-
हन्तु कृतमतिः कृष्णो रुक्मिणां युद्धदुर्म्मदम् । प्रणम्य याचितो ब्रह्मन् रुविमण्या मगवान हरिः ।। ५-२६-
एक एव मम भ्राता न हन्तव्यस्त्वयाधुना । कोपं नियम्य देवेश!भ्रातृभिक्षा प्रदीयताम् ।। ५-२६-
इत्युक्तेन परित्यक्तः कृष्णेनाक्लिष्टकर्म्मणा । रुक्मी भोजकटं नाम पुरं कुत्वावसत् तदा ।। ५-२६-
निर्जित्य रुक्मिणं सम्यगुपयेमे स रुक्मिणीम् । राक्षसेन विवाहेन सम्प्रप्तां मधुसूदनः ।। ५-२६-
तस्यां जज्ञ ऽथ प्रद्युम्रो मदनांश- स वीर्य्यवान् । जहार शम्बरो यं वै यो जघान च शम्बरम् ।। ५-२६-