मनुष्यधर्म्मशीलस्य लीला सा जगतः पतेः । अस्त्रणयनेकरूपाणि यदरातिषु मुञ्चति ।। ५-२२-
मनसैव जगत्सृष्टिं संहारञ्च करोति यः । तस्यारिपक्षक्षपणे कोऽयमुद्यमविस्तरः ।। ५-२२-
तथापि यो मनुष्याणां धर्म्मस्तमनुवर्त्तते । कुर्व्वने बलवता सन्धिं हीनैर्युद्धं करोत्यसौ ।। ५-२२-
साम चोपप्रदानञ्च तथा भेदं प्रदर्शयन् । करोति दण्डपातञ्च क्बचिदेव पलायनम् ।। ५-२२-
मनुष्यदेहिनां चेष्टामित्येवमनुवर्त्ततः । लीला जगतूपतेस्तस्य च्छन्दतः सम्प्रवर्त्तते।। ५-२२-
श्रीपराशर उवाच इत्थंस्तुतस्तदा तेन मुचुकुन्देन धीमता । प्राहेशः सर्वभूतानामनादिनिधनो हरिः ॥ ५,२४.
श्रीभगवानुवाच यथाभिवाञ्छितान्दिव्यान्गच्छलोकान्नराधिप । अव्याहतपरैश्वर्यो मत्प्रसादोपबृंहितः ॥ ५,२४.
भुक्त्वा दिव्यन्महा भोगान्भविष्यसि महाकुले । जातिस्मरो मत्प्रसादात्ततोमोक्षमवाप्स्यसि ॥ ५,२४.
श्रीपराशर उवाच इत्युक्तः प्रणिपत्येशं जगतामच्युतं नृपः । गुहामुखाद्विनिष्क्रान्ततःस ददर्शाल्पकान्नरान् ॥ ५,२४.
ततः कलियुगं मत्वा प्राप्तं तप्तुं नृपस्तपः । नरनारायणस्थानं प्रययौ गन्धमादनम् ॥ ५,२४.
कृष्णोपि घातयित्वारिमुपायेन हि तद्वलम् । जग्राह मथुरामेत्य हस्त्यश्वस्यन्दनोज्ज्वलम् ॥ ५,२४.
आनीय चोग्रसेनाय द्वारवत्वां न्यवेदयत् । पराभिभवनिः शङ्कं बभूव च यदोः कुलम् ॥ ५,२४.
बलदेवोऽपि मैत्रेय प्रशान्ताखिलविग्रहः । ज्ञातिदर्शनसोत्कण्ठः प्रययौ नन्दगोकुलम् ॥ ५,२४.
ततो गोपाश्च गोप्यश्च यथा पूर्वममित्रजित् । तथैवाभ्यवदत्प्रम्णा बहुमानपुरःसरम् ॥ ५,२४.
स कैश्चित्संपरिष्वक्तः कांश्चिच्च परिषस्वजे । हास्यं चक्रे समं कैश्चिद्गोपैर्गोपीजनैस्तथा ॥ ५,२४.
प्रियाण्यनेकान्यवदन् गोपास्तत्र हलायुधम् । गोप्यश्च प्रेमकुपिताः प्रोचुःसेर्ष्यमथापराः ॥ ५,२४.
गोप्यः पप्रच्छुरपरा नागरीजनवल्लभम् । कच्चिदास्ते सुखं कृष्णश्चलप्रेमलवात्मकः ॥ ५,२४.
अस्मच्चेष्टामपहसन्न कच्चित्पुरयोषिताम् । सौभाग्यमान मधिकं करोति क्षणसौहृदः ॥ ५,२४.
कच्चित्स्मरति नः कृष्णो गीतानुगमनं कलम् । अप्यसौ मातरं द्रष्टु सकृदप्यागमिष्यति ॥ ५,२४.
अथ वा किं तदालापैः क्रियन्तामपराः कथाः । यस्यास्मभिर्विना तेन विनास्माकं भविष्यति ॥ ५,२४.
पिता माता तथा भ्राता भर्ता बन्धुजनश्च किम् । संत्यक्तस्तत्कृतेस्माभिरकृतज्ञध्वजो हि सः ॥ ५,२४.
तथापि कच्चिदालापमिहागमनसंश्रयम् । करोति कृष्णो वक्तव्यं भवता राम नानृतम् ॥ ५,२४.
दामोदरोऽसौ गोविन्दः पुरस्त्रीसक्तमानसः । अपेतप्रीतिरस्मासु दुर्दर्शः प्रतिभाति नः ॥ ५,२४.
आमन्त्रितश्च कृष्णेति पुनर्दामोदरेति च । जहसुःसस्वरं गोप्यो हरिणा हृतचेतसः ॥ ५,२४.
संदेशैः साममधुरैः प्रेमगर्भैरगर्वितैः । रामेणाश्वासिता गोप्यः कृष्णस्यातिमनोहरैः ॥ ५,२४.
गोपैश्च पूर्ववद्रामः परिहासमनोहराः । कथाश्चकार रेमे च सह तैर्व्रजभूमिषु ॥ ५,२४.
वने विचरतस्तस्य सह गोपैर्महात्मनः । मानुषच्छद्मरूपस्य शेषस्य धरणीभृतः ।। ५-२५-
निष्पादितोरुकाय्यस्य काय्यणोर्व्वीविचारिणः । उपभोगाथमत्यर्थ वरुणः प्राह वारुणीम् ।। ५-२५-
अभीष्टा सर्व्वदा यस्य मदिरे त्व!महौजसः । अनन्तस्यौपभोगाय तस्य गच्छ मुदे शुभे ।। ५-२५-
इत्युक्ता वारुणी तेन सन्निधानमथाकरोत् । वृन्दावनवनोतूपन्न-कदम्बतरुकोटरे ।। ५-२५-