कृष्णो ब्रवीति राजांर्हमेतद्रत्नमनुत्तमम् । सुधर्म्माख्या सभा युक्तमस्यां यदुभिरासितुम् ।। ५-२१-
इत्युक्तः पवनो गत्वा सर्व्वमाह शचीपतिम् । ददौ सोऽपि सुधर्म्माख्यां सभां वायोः पुरन्दरः ।। ५-२१-
वायुना चाहृतां दिव्यां सभां ते यदुपुङ्गवाः । बुभुजुः सर्व्वरत्नाढ्यां गोविन्दभुजसंश्रयात् ।। ५-२१-
विदिताखिलविज्ञानौ सर्व्वज्ञानमयावपि । शिष्याचार्य्यक्रमं वीरौ ख्यापयन्तौ यदूत्तमौ ।। ५-२१-
ततः सान्दीपनिं काश्यमवन्तीपुरवासिनम् । अस्त्रर्थं जग्मतुर्वीरौ बलदेव-जनार्द्दनौ ।। ५-२१-
तस्य शिष्यत्त्वमभ्येत्य गुरुवृत्तपरौ हि तौ । दर्शयाञ्चक्रतुर्वीरावाचारमखिले जने ।। ५-२१-
सरहस्यं धनुर्व्वेदं ससंग्रहमधीयताम् । अहोरात्रैश्वतुः षष्ट्य तदद्भुतमभूदू द्रिज ।। ५-२१-
सान्दीपनिरसम्भाव्यं तयोः कर्म्मातिमानुषम् । विचिन्त्य तौ तदा मेन प्राप्तौ चन्द्र-दिवाकारौ ।। ५-२१-
अस्त्रग्राममशेषञ्च प्रोक्तमात्रमवाप्य तौ । ऊचतुर्व्रियतां या ते दातव्या गुरुदक्षिणा ।। ५-२१-
सोऽप्यतीन्द्रियमालोक्य तयोः कर्म्म महामतिः । अयाचत मृतं पुत्रं प्रभासे लवणार्णावे ।। ५-२१-
गृहीतास्त्रौ ततस्तौ तु सार्घ्यहस्तो महोदधिः । उवाच न मया पुत्रो हतः सान्दीपनेरिति ।। ५-२१-
दैत्यः पञ्चजनो नाम शङ्खरूपः स बालकम् । जग्राह सोऽस्ति सलिले ममैवासुरसूदन ।। ५-२१-
इत्युक्तोऽन्तर्ज्जलं गत्वा हत्वा पञ्चजनं खलम् । कृष्णो जग्राह तस्यास्थि-प्रभवं शङ्खमुत्तमम् ।। ५-२१-
यस्य नादेन दैत्यानां बलहानिरजायत । देवानां ववृधे तेजो यात्यधर्म्मश्व संक्षयम् ।। ५-२१-
तं पाञ्चजन्यमापूर्य्य गत्वा यमपुरीं हरिः । बलदेवश्व बलवान् जित्वा वैवस्वतं यमम् ।। ५-२१-
तं बालं यातनासंस्थं यथापूर्व्वशरीरिणम् । पित्रे प्रदत्तवान् कृष्णो बलश्व बलिनां वरः ।। ५-२१-
मथुराञ्च पुनः प्राप्तावुग्रसेनेन पालिताम् । प्रहृष्टपुरुषस्त्रीकामुभौ राम-जनार्द्दनौ ।। ५-२१-
जरासन्घसुते कंस उपयेमे महाबलः । अस्ति प्राप्तिञ्च मैत्रेय!तयोर्भर्त्तृहनं हरिम् ।। ५-२२-
महाबलपरीवारो मगधाघिपतिर्बली । हन्तुमभ्याययौ कोपाज्जरासन्धः सयादवम ।। ५-२२-
उपेत्य मथुरां सोऽथ रुरोध मगधेखरः । अक्षौहिणीभिः सैन्यस्य त्रयोविंशतिभिर्वृतः ।। ५-२२-
निष्कम्याल्पपरीवारावुभौ राम-जनार्द्दनौ । युयुधातौ समं तस्य बलिनौ बलिसैनिकैः ।। ५-२२-
ततो बलश्व कृष्णश्व चक्राते मतिमुत्तमाम् । आयुधानां पुराणानामादाने मुनिसत्तम ।। ५-२२-
अनन्तरं हरेः शाङ्ग तूणौ चाक्षयसायकौ । आकाशादागतौ वीर!तथा कौमोदकी गदा ।। ५-२२-
हलञ्च बलभद्रस्य गगनादागतं कवे ! मनसोऽभिमतं विप्र!सौनन्दं मुसलं तथा ।। ५-२२-
ततो युद्धे पराजित्य ससैन्यं मगधाधिपम् । पुरीं विविशतुर्वीरावुभौ राम-जनार्द्दनौ ।। ५-२२-
जते तस्मिन् सुदुर्वृत्ते जरासन्धे महामुने ! जीवमाने गते कृष्णस्तं नामन्यत निर्ज्जितम् ।। ५-२२-
पुनरप्याजगामाथ जरासन्धो बलान्वितः । जितश्व राम-कृष्णाभ्यामपक्रान्तो द्रिजोत्तम।। ५-२२-
दश चाष्टौ च संग्रामानेवमत्यन्तदुर्म्मदः । यदुभिर्मागधो राजा चक्र कृष्णापुरोगमैः ।। ५-२२-
सर्व्वेष्वेतेषु युद्धेषु यादवैः स पराजितः । अपक्रान्तो जरासन्धः स्वल्पसैन्यैर्बलाधिकः ।। ५-२२-
तदू बल यादवानां तैरर्ज्जितं यदनेकशः । तत्तु सन्निधिमाहात्म्यं विष्णोरंशस्य चक्रिणः ।। ५-२२-