तत् क्षन्तव्यमिदं सर्वमतिक्रमकृतं पितः । कंसप्रतापवीर्य्याभ्यामार्त्तयोः परवश्ययोः ।। ५-२१-
इत्युक्त्वाथ प्रणम्योभौ यदुवृद्धाननुक्रमात् । यथावदभिपूज्याथ चक्रतुः पौर-माननम् ।। ५-२१-
कंसपत्न्यस्ततः कंसं परिवार्य्यहतं भुवि । विलेपुर्मातरश्वास्य दुःखशोकपरिप्लुताः ।। ५-२१-
बहुप्रकारमत्यर्थ पश्वात्तापातुरो हरिः । ताः समाश्वासयामास स्वयमस्त्राविलेक्षणः ।। ५-२१-
उग्रसेनं ततो बन्धान्मुमोच मधुसूदनः । अभ्यषिञ्चत् तथैवैनं निजराज्ये हतात्मजम् ।। ५-२१-
राज्याभिषिक्तः कृष्णेन यदुसिहः सुतस्य सः । चकार प्रेतकार्य्याणि ये चान्ये तत्र घातिताः ।। ५-२१-
कृतौर्द्ध्व दैहिकं चैनं सिहासनगतं हरिः । उवाचाज्ञापय विभो! यत् कार्य्यमविशङ्कितः ।। ५-२१-
ययातिशापाद वंशोऽयमराज्यार्होऽपि साम्प्रतम् । मयि भृत्ये स्थिते देवानाज्ञापयतु किं नुपैः ।। ५-२१-
इत्युत्त्वा सोऽस्मरदू वायुमाजगाम स तत्क्षणात् । उवाच चैनं भगवान केशवः कार्य्यमानुषः ।। ५-२१-
गच्छेन्द्रं ब्रूहि वायो ! त्वमलं गर्व्वेणा वासव! दीयतामुग्रसेनाय सुधर्म्मा भवता सभा ।। ५-२१-
कृष्णो ब्रवीति राजांर्हमेतद्रत्नमनुत्तमम् । सुधर्म्माख्या सभा युक्तमस्यां यदुभिरासितुम् ।। ५-२१-
इत्युक्तः पवनो गत्वा सर्व्वमाह शचीपतिम् । ददौ सोऽपि सुधर्म्माख्यां सभां वायोः पुरन्दरः ।। ५-२१-
वायुना चाहृतां दिव्यां सभां ते यदुपुङ्गवाः । बुभुजुः सर्व्वरत्नाढ्यां गोविन्दभुजसंश्रयात् ।। ५-२१-
विदिताखिलविज्ञानौ सर्व्वज्ञानमयावपि । शिष्याचार्य्यक्रमं वीरौ ख्यापयन्तौ यदूत्तमौ ।। ५-२१-
ततः सान्दीपनिं काश्यमवन्तीपुरवासिनम् । अस्त्रर्थं जग्मतुर्वीरौ बलदेव-जनार्द्दनौ ।। ५-२१-
तस्य शिष्यत्त्वमभ्येत्य गुरुवृत्तपरौ हि तौ । दर्शयाञ्चक्रतुर्वीरावाचारमखिले जने ।। ५-२१-
सरहस्यं धनुर्व्वेदं ससंग्रहमधीयताम् । अहोरात्रैश्वतुः षष्ट्य तदद्भुतमभूदू द्रिज ।। ५-२१-
सान्दीपनिरसम्भाव्यं तयोः कर्म्मातिमानुषम् । विचिन्त्य तौ तदा मेन प्राप्तौ चन्द्र-दिवाकारौ ।। ५-२१-
अस्त्रग्राममशेषञ्च प्रोक्तमात्रमवाप्य तौ । ऊचतुर्व्रियतां या ते दातव्या गुरुदक्षिणा ।। ५-२१-
सोऽप्यतीन्द्रियमालोक्य तयोः कर्म्म महामतिः । अयाचत मृतं पुत्रं प्रभासे लवणार्णावे ।। ५-२१-
गृहीतास्त्रौ ततस्तौ तु सार्घ्यहस्तो महोदधिः । उवाच न मया पुत्रो हतः सान्दीपनेरिति ।। ५-२१-
दैत्यः पञ्चजनो नाम शङ्खरूपः स बालकम् । जग्राह सोऽस्ति सलिले ममैवासुरसूदन ।। ५-२१-
इत्युक्तोऽन्तर्ज्जलं गत्वा हत्वा पञ्चजनं खलम् । कृष्णो जग्राह तस्यास्थि-प्रभवं शङ्खमुत्तमम् ।। ५-२१-
यस्य नादेन दैत्यानां बलहानिरजायत । देवानां ववृधे तेजो यात्यधर्म्मश्व संक्षयम् ।। ५-२१-
तं पाञ्चजन्यमापूर्य्य गत्वा यमपुरीं हरिः । बलदेवश्व बलवान् जित्वा वैवस्वतं यमम् ।। ५-२१-
तं बालं यातनासंस्थं यथापूर्व्वशरीरिणम् । पित्रे प्रदत्तवान् कृष्णो बलश्व बलिनां वरः ।। ५-२१-
मथुराञ्च पुनः प्राप्तावुग्रसेनेन पालिताम् । प्रहृष्टपुरुषस्त्रीकामुभौ राम-जनार्द्दनौ ।। ५-२१-
जरासन्घसुते कंस उपयेमे महाबलः । अस्ति प्राप्तिञ्च मैत्रेय!तयोर्भर्त्तृहनं हरिम् ।। ५-२२-
महाबलपरीवारो मगधाघिपतिर्बली । हन्तुमभ्याययौ कोपाज्जरासन्धः सयादवम ।। ५-२२-
उपेत्य मथुरां सोऽथ रुरोध मगधेखरः । अक्षौहिणीभिः सैन्यस्य त्रयोविंशतिभिर्वृतः ।। ५-२२-