चाणूरे नहते मल्ले मुष्टेके विनिपातिते । नीते क्षयं तोशलके सर्वे मल्लाः प्रदुद्रु वुः
ववल्गतुस्ततो रंगे कृष्णसंकर्षणावुभौ । समानवयसो गोपान्बलादाकृष्य हर्षितौ
कंसोऽपि कोपरक्ताक्षः प्राहोच्चैर्व्यायतान्नरान् । गोपावेतौ समाजौघान्निष्क्राम्येतां बलादितः
नंदोऽपि गृह्यतां पापो निर्गलैरायसैरिह । अवृद्धार्हेण दंडेन वसुदेवोऽपि बध्यताम्
वल्गंति गोपाः कृष्णेन ये चेमे सहिताः पुरः । गावो निगृह्य तामेषां यच्चास्ति वसु किंचन
एवमाज्ञापयानं तु प्रहस्य मधुसूदनः । उत्प्लुत्यारुह्य तं मंचं कंसं जग्राह वेगतः
केश्ष्वोआ!कृष्य विगलत्किरीटमवनीतले । स कंसं पातयामास तस्योपरि पपात च
अश्षोजगदाधारगुरुणा पततोपरि । कृष्णेन त्याजितः प्राणानुग्रसेनात्मजो नृपः
नृतस्य केश्षोउ! तदा गृहीत्वा मधुसूदनः । चकर्ष देहं कंसस्य रंगमध्ये महाबलः
गौरवेणातिपतता परिघातेन कृष्यता । कृता कंसस्य देहेन वेगेनेव महांभसः
कंसे गृहीते कृष्णेन तद्भ्राताऽभ्यागतो रुषा । सुनामा बलभद्रे ण लीलयैव निपातितः
ततो हाहाकृतं सर्वमासीत्तद्रं गमंडलम् । अवज्ञया हतं दृष्ट्वा कृष्णेन मथुरेश्वरम्
कृष्णोऽपि वसुदेवस्य पादौ जग्राह सत्वरः । देवक्याश्च महाबाहुर्बलदेवसहायवान्
उत्थाप्य वसुदेवस्तं देवकी च जनार्दनम् । स्मृतजन्मोक्तवचनौ तावेव प्रणतौ स्थितौ
श्रीवसुदेव उवाच। प्रसीद सीदतां दत्तो देवानां यो वरः प्रभो । तथावयोः प्रसादेन कृतोद्धारस्स केशव
आराधितो यद्भगवानवतीर्णो गृहे मम । दुर्वृत्तनिधनार्थाय तेन नः पावितं कुलम्
त्वमंतः सर्वभूतानां सर्वभूतमयस्थितः । प्रवर्त्तेते समस्तात्मंस्त्वत्तो भूतभविष्यती
यज्ञैस्त्वमिज्यसेऽचिंत्य सर्वदेवमयाच्युत । त्वमेव यज्ञो यष्टा च यज्वनां परमेश्वरः
समुद्भवस्समस्तस्य जगतस्त्वं जनार्दन
सापह्नवं मम मनो यदेतत्त्वयि जायते । देवक्याश्चात्मजप्रीत्या तदत्यंतविडंबना
त्वं कर्त्ता सर्वभूतानामनादिनिधनो भवान् । त्वं मनुष्यस्य कस्यैषा जिह्वा पुत्रेति वक्ष्यति
जगदेतज्जगन्नाथ संभूतमखिलं यतः । कया युक्त्या विना मायां सोऽस्मत्तः संभविष्यति
यस्मिन्प्रतिष्ठितं सर्वं जगत्स्थावरजंगमम् । स कोष्ठोत्संगशयनो मानुषो जाय ते कथम्
स त्वं प्रसीद परमेश्वर पाहि विश्वमंशावतारकरणैर्न ममासि पुत्रः । आब्रह्यपादपमिदं जगदेतदीश त्वत्तो विमोहयसि किं पुरुषोत्तमास्मान्
मायाविमोहितदृशा तनयो ममेति कंसाद्भयं कृतमपास्तभयोऽतितीव्रम् । नीतोऽसि गोकुलमरातिभया कुलेन वृद्धिं गतोऽसि मम नास्ति ममत्वमीश
कर्माणि रुद्र मरुदश्विशतक्रतूनां साध्यानि यस्य न भवंति निरीक्षितानि । त्वं विष्णुरीश जगतामुपकारहेतोः प्राप्तोसि नः परिगतो विगतो हि मोहः
तौ समुत्पन्नविज्ञानौ भगवत्कर्म्मदर्शनात् । देवकी-वसुदेवौ तु दृष्ट्वा मायां पुनर्हरिः । मोहाय यदुचक्रस्य विततान स वैष्णवीम ।। ५-२१-
उवाच चाम्ब! भोस्तात! चिरादुत्कण्ठितेन मे । भवन्तौ कंसभीतेन दृष्टौ सङ्कर्षणेन च ।। ५-२१-
कुर्व्वतां याति यः कालो मातापित्रोरपूजनम् । तत्खणडमायुषो व्यर्थमसाधूनां हि जायते ।। ५-२१-
गुरु-देव-द्विजातीनां मातापित्रोश्व पूजनम् । कुर्व्वतां सफलं जन्म देहिनां तात!जायते ।। ५-२१-