कृष्णोपि युयुधे तेन लीलयैव जगन्मयः । खेदाच्चालयता कोपान्निजकेसरश्खोरम्
बलक्षयं विवृद्धिं च दृष्ट्वा चाणूकृष्णयोः । वारयामास तूर्याणि कंसः कोपपरायणः
मृदंगादिषु तूर्येषु प्रतिषिद्धेषु तत्क्षणात् । खे संगतान्यवाद्यंत देवतूर्याण्यनेकशः
जय गोविंद चाणूरं जहि केशव दानवम् । अंतर्द्धानगता देवास्तमूचुरतिहर्षिताः
चाणूरेण चिरं कालं पीडित्वा मधुसूदनः । उत्पाट्य भ्रामयामास तद्वधाय कृतोद्यमः
भ्रामयित्वा शतगुणं दैत्यमल्लममित्रजित् । भूमावास्फोटयामास गगने गतजीवितम्
भूमावास्फोटितस्तेन चाणूरः शतधाऽभवत् । रक्तस्रावमहापंकां चकार च तदा भुवम्
बलदेवोऽपि तत्कालं मुष्टिकेन महाबलः । युयुधे दैत्यमल्लेन चाणूरेण यथा हरिः
सोऽप्येनं मुष्टिना मूर्ध्नि वक्षस्याहत्य जानुना । पातयित्वा धरापृष्ठे निष्पिपेष गतायुषम्
कृष्ण स्तोशलकं भूयो मल्लराजं महाबलम् । वाममुष्टिप्रहारेण पातयामास भूतले
चाणूरे नहते मल्ले मुष्टेके विनिपातिते । नीते क्षयं तोशलके सर्वे मल्लाः प्रदुद्रु वुः
ववल्गतुस्ततो रंगे कृष्णसंकर्षणावुभौ । समानवयसो गोपान्बलादाकृष्य हर्षितौ
कंसोऽपि कोपरक्ताक्षः प्राहोच्चैर्व्यायतान्नरान् । गोपावेतौ समाजौघान्निष्क्राम्येतां बलादितः
नंदोऽपि गृह्यतां पापो निर्गलैरायसैरिह । अवृद्धार्हेण दंडेन वसुदेवोऽपि बध्यताम्
वल्गंति गोपाः कृष्णेन ये चेमे सहिताः पुरः । गावो निगृह्य तामेषां यच्चास्ति वसु किंचन
एवमाज्ञापयानं तु प्रहस्य मधुसूदनः । उत्प्लुत्यारुह्य तं मंचं कंसं जग्राह वेगतः
केश्ष्वोआ!कृष्य विगलत्किरीटमवनीतले । स कंसं पातयामास तस्योपरि पपात च
अश्षोजगदाधारगुरुणा पततोपरि । कृष्णेन त्याजितः प्राणानुग्रसेनात्मजो नृपः
नृतस्य केश्षोउ! तदा गृहीत्वा मधुसूदनः । चकर्ष देहं कंसस्य रंगमध्ये महाबलः
गौरवेणातिपतता परिघातेन कृष्यता । कृता कंसस्य देहेन वेगेनेव महांभसः
कंसे गृहीते कृष्णेन तद्भ्राताऽभ्यागतो रुषा । सुनामा बलभद्रे ण लीलयैव निपातितः
ततो हाहाकृतं सर्वमासीत्तद्रं गमंडलम् । अवज्ञया हतं दृष्ट्वा कृष्णेन मथुरेश्वरम्
कृष्णोऽपि वसुदेवस्य पादौ जग्राह सत्वरः । देवक्याश्च महाबाहुर्बलदेवसहायवान्
उत्थाप्य वसुदेवस्तं देवकी च जनार्दनम् । स्मृतजन्मोक्तवचनौ तावेव प्रणतौ स्थितौ
श्रीवसुदेव उवाच। प्रसीद सीदतां दत्तो देवानां यो वरः प्रभो । तथावयोः प्रसादेन कृतोद्धारस्स केशव
आराधितो यद्भगवानवतीर्णो गृहे मम । दुर्वृत्तनिधनार्थाय तेन नः पावितं कुलम्
त्वमंतः सर्वभूतानां सर्वभूतमयस्थितः । प्रवर्त्तेते समस्तात्मंस्त्वत्तो भूतभविष्यती
यज्ञैस्त्वमिज्यसेऽचिंत्य सर्वदेवमयाच्युत । त्वमेव यज्ञो यष्टा च यज्वनां परमेश्वरः
समुद्भवस्समस्तस्य जगतस्त्वं जनार्दन
सापह्नवं मम मनो यदेतत्त्वयि जायते । देवक्याश्चात्मजप्रीत्या तदत्यंतविडंबना