ततस्तूत्प्लुत्य वेगेन रौहिणेयो महाबलः । जघान वामपादेन मस्तके हस्तिनं रुषा
स पपात हतस्तेन बलभद्रे ण लीलया । सहस्राक्षेण वज्रेण ताडितः पर्वतो यथा
हत्वा कुवलयापीडं हस्त्यारोहप्रचोदितम् । मदासृगनुलिप्तांगौ हस्तिदंतवरायुधौ
मृगमध्ये यथा सिंहौ गर्वलीलावलोकिनौ । प्रविष्टौ सुमहारंगं बलभद्र जनार्दनौ
हाहाकारो महाञ्जज्ञे महारंगे त्वनंतरम् । कृष्णोऽयं बलभद्रो यमिति लोकस्य विस्मयः
सोऽयं येन हता घोरा पूतना बालघातिनी । क्षिप्तं तु शकटं येन भग्नौ तु यमलार्जुनौ
सोयं यः कालियं नागं ममर्दारुह्य वालकः । धृतो गोवर्द्धनो येन सप्तरात्रं महागिरिः
अरिष्टो धेनुकः केशी लीलयैव महात्मना । निहता येन दुर्वृत्ता दृश्यतामेष सोऽच्युतः
अयं चास्य महाबाहुर्बलभद्रो ऽग्रतोऽग्रजः । प्रयाति लीलया योषिन्मनोनयननंदनः
अयं स कथ्यते प्राज्ञैः पुराणार्थविशारदैः । गोपालो यादवं वंशं मग्नमभ्यद्धरिष्यति
अयं हि सर्वलोकस्य विष्णोरखिलजन्मनः । अवतीर्णो महीमंशो नूनं भारहरो भुवः
इत्येवं वर्णिते पौरै रामे कृष्णे च तत्क्षणात् । उरस्तताप देवक्याः स्नेहस्नुतपयोधरम्
महोत्सवमिवासाद्य पुत्राननविलोकनात् । युवेव वसुदेवोऽभूद्विहायाभ्यागतां जराम्
विस्तारिताक्षियुगलो राजांतःपुरयोषिताम् । नागरस्त्रीसमूहश्च द्र ष्टुं न विरराम तम्
सख्यः पश्यत कृष्णस्य मुखमत्यरुणेक्षणम् । गजयुद्धकृतायासस्वेदांबुकणिकाचितम्
विकासिशरदंभोजमपश्यामजलोक्षितम् । परिभूयं स्थितं जन्म सफलं क्रियतां दृशः
श्रीवत्सांकं महद्धाम बालस्यैतद्विलोक्यताम् । विपक्षक्षपणं वक्षो भुजयुग्मं च भामिनि
किं न पश्यसि दुग्धेंदुमृणालधवलाकृतिम् । बलभद्र मिमं नीलपरिधानमुपागतम्
वल्गतामुष्टिकेनैव चाणूरेण तथा सखि । क्रीडतो बलभद्र स्य हरेर्हास्यं विलोक्यताम्
सख्यः पश्यत चाणूरं नियुद्धार्थमयं हरिः । समुपैति न संत्यत्र किं वृद्धा मुक्तकारिणः
क्व यौवनोन्मुखीभूतसुकुमारतनुर्हरिः । क्व वज्रकठिनाभोगशरीरोऽयं महासुरः
इमौ सुललितैरंगैर्वर्त्तेते नवयौवनौ । दैतेयमल्लाश्चाणूरप्रमुखास्त्वतिदारुणाः
नियुद्धप्राश्निकानां तु महानेष व्यतिक्रमः । यद्बालबलिनोर्युद्धं मध्यस्थैस्समुपेक्ष्यते
श्रीपराशर उवाच। इत्थं पुरस्त्रीलोकस्व वदतश्चालयन्भुवम् । ववल्ग बद्धकक्ष्यॐतर्जनस्य भगवान्हरिः
बलभद्रो ऽपि चास्फोट्य ववल्गललितं तथा । पदेपदे तथा भूमिर्यन्न शीर्णा तदद्भुतम्
चाणूरेण ततः कृष्णो ययुधेऽमितविक्रमः । नियुद्धकुशलो दैत्यो बलभद्रे ण मुष्टिकः
सन्निपातावधूतैस्तु चाणूरेण समं हरिः । प्रक्षेपणैर्मुष्टिभिश्च कीलवज्रनिपातनैः
पादोद्धूतैः प्रमृष्टैश्च तयोर्युद्धमभून्महत्
अशस्त्रमतिघोरं तत्तयोर्युद्धं सुदारुणम् । बलप्राणविनिष्पाद्यं समाजोत्सवसन्निधौ
यावद्यावच्च चाणूरो युयुधे हरिणा सह । प्राणहानिमवापाग्र्यां तावत्तावल्लवाल्लवम्