चकर्ष पद्भ्यां च तदा ऋजुत्वं केशवोऽनयत् । ततस्सा ऋजुतां प्राप्ता योषितामभवद्वरा
विलासललितं प्राह प्रेमगर्भभरालसम् । वस्त्रे प्रगृह्य गोविंदं मम गेहं व्रजेति वै
एवमुक्तस्तया शौरी रामस्यालोक्य चाननम् । प्रहस्य कुब्जां तामाह नैकवक्रामनिंदिताम्
आयास्ये भवतीगेहमिति तां प्रहसन्हरिः । विससर्ज जहासोच्चै रामस्यालोक्य चाननम्
भक्तिभेदानुलिप्तांगौ नीलपीतांबरौ तु तौ । धनुश्शालां ततो यातौ चित्रमाल्योपशोभितौ
आयागं तद्धनूरत्नं ताभ्यां पृष्टैस्तु रक्षिभिः । आख्याते सहसा कृष्णो गृहीत्वा पूरयद्धनुः
ततः पूरयता तेन भज्यमानं बलाद्धनुः । चकार सुमहच्छब्दं मथुरा येन पूरिता
अनुयुक्तौ ततस्तौ तु भग्ने धनुषि रक्षिभिः । रक्षिसैन्यं निहत्योभौ निष्क्रांतौ कार्मुकालयात्
अक्रूरागमवृत्तांतमुपलभ्य महद्धनुः । भग्नं श्रुत्वा च कंसोऽपि प्राह चाणूरमुष्टिकौ
कंस उवाच। गोपालदारकौ प्राप्तौ भवद्भ्यां तु ममाग्रतः । मल्लयुद्धेन हंतव्यौ मम प्राणहरौ हि तौ
नियुद्धे तद्विनाश्नो भवद्भ्यां तोषितो ह्यहम् । दास्याम्यभिमतान्कामान्नान्यथैतौ महाबलौ
न्यायतोन्यायतो वापि भवद्भ्यां तौ ममाहितौ । हंताव्यौ तद्वधाद्रा ज्यं सामान्यं वां भविष्यति
इत्यादिश्य स तौ मल्लौ ततश्चाहूय हस्तिपम् । प्रोवाचोच्चैस्त्वया मल्लसमाजद्वारि कुंजरः
स्थाप्यः कुवलयापीडस्तेन तौ गोपदारकौ । घातनीयौ नियुद्धाय रंगद्वारमुपागतौ
तमप्याज्ञाप्य दृष्ट्वा च सर्वान्मंचानुपाकृतान् । आसन्न मरणः कंसः सूर्योदयमुदैक्षत
ततः समस्तमंचेषु नागरस्स तदा जनः । राजमंचेषु चारूढास्सह भृत्यैर्नराधिपाः
मल्लप्राश्निकवर्गश्च रंगमध्यसमीपगः । कृतः कंसेन कंसोऽपि तुंगमंचे व्यवस्थितः
अंतःपुराणां मंचाश्च तथाऽन्ये परिकल्पिताः । अन्ये च वारमुख्यानामन्ये नागरयोषिताम्
नंदगोपादयो गोपा मंचेष्वन्येष्ववस्थिताः । अक्रूरवसुदेवौ च मंचप्रांते व्यवस्थितौ
नागरीयोषितां मध्ये देवकीपुत्रगर्द्धिनी । अंतकालेऽपि पुत्रस्य द्रक्ष्यामीति मुखं स्थिता
वाद्यमानेषु तूर्येषु चाणूरे चातिवल्गति । हाहाकारपरे लोके ह्यास्फोटयति मुष्टिके
ईषद्धसंतौ तौ वीरौ बलभद्र जनार्दनौ । गोपवेषधरौ बालौ रंगद्वारमुपागतौ
ततः कुवलयापीडो महामात्रप्रचोदितः । अभ्यधावत वेगेन हंतुं गोपकुमारकौ
हाहाकारो महाञ्जज्ञे रंगमध्ये द्विजोत्तम । बलदेवोऽनुजं दृष्ट्वा वचनं चेदमब्रवीत्
हंतव्यो हि महाभाग नागोऽयं शत्रुचोदितः
इत्युक्तस्सोऽग्रजेनाथ बलदेवेन वै द्विज । सिंहनादं ततश्चक्रे माधवः परवीरहा
करेण करमाकृष्य तस्य केशिनिषूदनः । भ्रामयामास तं शौरिरैरावतसमं बले
ईशोपि सर्वजगतां बाललीलानुसारतः । क्रीडित्वा सुचिरं कृष्णः करिदंतपदांतरे
उत्पाट्य वामदंतं तु दक्षिणेनैव पाणिना । ताडयामास यंतारं तस्यासीच्छतधा शिरः
दक्षिणं दंतमुत्पाट्य बलभद्रो ऽपि तत्क्षणात् । स रोषस्तेन पार्श्वस्थान् गजपालानपोथयत्