पीतनीलाम्बरधरौ तौ दृष्ट्वातिमनोहरौ । स तर्कयामास तदा भुवं देवावुपागतौ ।। ५-१९-
विकाशिमुखपद्माभ्यां ताभ्यां पुष्पाणि याचितः । भुवं विष्टभ्य हस्ताभ्यां पस्पर्श शिरसा महीम् ।। ५-१९-
प्रसादपरमौ नाथौ मम गेहमुपागतौ । धन्योऽहमर्ज्जयिष्यामीत्याह तौ माल्यजीवकः ।। ५-१९-
ततः प्रह्टश्टवदनस्तयोः पुष्पाणि कामतः । चारूण्येतान्यथैतानि प्रददौ स विलोभयन ।। ५-१९-
पुनः पुनः प्रणम्यासौ मालाकारौ नरोत्तमौ । ददौ पुष्पाणि चारूणि गन्धवन्त्यमलानि च ।। ५-१९-
मालाकाराय कृष्णोऽपि प्रसन्नः प्रददौ वरान । श्रीस्त्वां मतूसंश्रया भद्र! न कदाचित् प्रहास्तयि ।। ५-१९-
बलहानिर्न ते सौम्य! धनहानिस्थथैव च । यावद्दिनानि तावज्व न नशिष्यति सन्ततिः ।। ५-१९-
बुक्त्वा च विपुलान् भोगांस्तमन्ते मतूप्रसादजम् । ममानुस्मरणां प्राप्य दिव्यं लोकमवाप्स्यसि ।। ५-१९-
धर्म्मे मनश्व ते भद्र!सर्व्वकालं भविष्यति । युष्मत्सन्ततिजातानां दीर्घमायुर्भविष्यति ।। ५-१९-
नोपसर्गादिकं दोषं युष्मत्सन्ततिसम्भवः । सम्प्राप्स्यति महाभाग!यावत् सूर्य्यो धरिष्यति ।। ५-१९-
इतुक्त्वा तदूगृहात् कृष्णो बलदेवसहायवान् । निर्ज्जगाम मुनिश्वेष्ठ! मालाकारेण पूजितः ।। ५-१९-
श्रीपराशर उवाच। राजमार्गे ततः कृष्णस्सानुलेपनभाजनाम् । ददर्श कुब्जामायांतीं नवयौवनगोचराम्
तामाह ललितं कृष्णः कस्येदमनुलेपनम् । भवत्या नीयते सत्यं वदेंदीवरलोचने
सकामेनेव सा प्रोक्ता सानुरागा हरिं प्रति । प्राह सा ललितं कुब्जा तद्दर्शनबलात्कृता
कांत कस्मान्न जानासि कंसेन विनियोजिताम् । नैकवक्रेति विख्यातामनुलेपनकर्मणि
नान्यपिष्टं हि कंसस्य प्रीतये ह्यनुलेपनम् । भवाम्यहमतीवास्य प्रसादधनभाजनम्
श्रीकृष्ण उवाच। सुगंधमेतद्रा जार्हं रुचिरं रुचिरानने । आवयोर्गात्र सदृशं दीयतामनुलेपनम्
श्रीपराशर उवाच। श्रुत्वैतदाह सा कुब्जा गृह्यतामिति सादरम् । अनुलेपनं च प्रददौ गात्रयोग्यमथोभयोः
भक्तिच्छेदानुलिप्तांगौ ततस्तौ पुरुषर्षभौ । सेंद्र चापौ व्यराजेतां सितकृष्णाविवांबुदौ
ततस्तां चुबुके शौरिरुल्लापन विधानवित् । उत्पाट्य तोलयामास द्व्यंगुलेनाग्रपाणिना
चकर्ष पद्भ्यां च तदा ऋजुत्वं केशवोऽनयत् । ततस्सा ऋजुतां प्राप्ता योषितामभवद्वरा
विलासललितं प्राह प्रेमगर्भभरालसम् । वस्त्रे प्रगृह्य गोविंदं मम गेहं व्रजेति वै
एवमुक्तस्तया शौरी रामस्यालोक्य चाननम् । प्रहस्य कुब्जां तामाह नैकवक्रामनिंदिताम्
आयास्ये भवतीगेहमिति तां प्रहसन्हरिः । विससर्ज जहासोच्चै रामस्यालोक्य चाननम्
भक्तिभेदानुलिप्तांगौ नीलपीतांबरौ तु तौ । धनुश्शालां ततो यातौ चित्रमाल्योपशोभितौ
आयागं तद्धनूरत्नं ताभ्यां पृष्टैस्तु रक्षिभिः । आख्याते सहसा कृष्णो गृहीत्वा पूरयद्धनुः
ततः पूरयता तेन भज्यमानं बलाद्धनुः । चकार सुमहच्छब्दं मथुरा येन पूरिता
अनुयुक्तौ ततस्तौ तु भग्ने धनुषि रक्षिभिः । रक्षिसैन्यं निहत्योभौ निष्क्रांतौ कार्मुकालयात्
अक्रूरागमवृत्तांतमुपलभ्य महद्धनुः । भग्नं श्रुत्वा च कंसोऽपि प्राह चाणूरमुष्टिकौ
कंस उवाच। गोपालदारकौ प्राप्तौ भवद्भ्यां तु ममाग्रतः । मल्लयुद्धेन हंतव्यौ मम प्राणहरौ हि तौ