इत्युक्त्वा चोदयामास तान् हयान् वातरंहसः । सम्प्राप्तश्वातिसायाह्र सोऽक्रूरो मथुरां पुरीम् ।। ५-१९-
विलोक्य मथुरां कृष्णं रामञ्चाह स यादवः । पद्भयां यातं महावीर्य्यो रथेनैको विशाम्यहम् ।। ५-१९-
गन्तव्यं वसुदेवस्य भवद्भयां न तथा गृहम् । युवयोर्हि कृते वृद्धः स कंसेन निरस्यते ।। ५-१९-
इत्युत्तवा प्रविवेशाथ सोऽकूरो मथुरां पुरीम् । प्रिवष्टौ रामकृष्णौ, च राजमार्गमुपागतौ ।। ५-१९-
स्त्रीभिर्नरैश्व सानन्दं लोचनैरभिवीक्षितौ । जग्मतुलीलया वीरौ दृफ्तौ बालगजाविव ।। ५-१९-
भ्रममाणौ तु तौ दृष्ट्वा रजकं रङ्गकारकम् । अयाचेतां सुरूपाणि वासांसि रुचिराननौ ।। ५-१९-
कंसस्य रजकः सोऽथ प्रसादारूढ़विस्मयः । बहून्याक्षेपवाक्यानि प्राहोच्चै राम-केशवौ ।। ५-१९-
ततस्तलप्रहारेण कृष्णस्तस्य दुरात्मनः । पातयामास कापेन रजकस्य शिरो भुवि ।। ५-१९-
हत्वादाय च वस्त्राणि पीतनीलाम्बरौ ततः । कृष्ण-रामौ मुदा युक्तौ मालाकारगृहं गतौ ।। ५-१९-
विकाशिनेत्रयुगलौ मालाकारोऽतिविस्मितः । एतौ कस्य कुतो वैतौ मैत्रेयाचिन्तयत् तदा ।। ५-१९-
पीतनीलाम्बरधरौ तौ दृष्ट्वातिमनोहरौ । स तर्कयामास तदा भुवं देवावुपागतौ ।। ५-१९-
विकाशिमुखपद्माभ्यां ताभ्यां पुष्पाणि याचितः । भुवं विष्टभ्य हस्ताभ्यां पस्पर्श शिरसा महीम् ।। ५-१९-
प्रसादपरमौ नाथौ मम गेहमुपागतौ । धन्योऽहमर्ज्जयिष्यामीत्याह तौ माल्यजीवकः ।। ५-१९-
ततः प्रह्टश्टवदनस्तयोः पुष्पाणि कामतः । चारूण्येतान्यथैतानि प्रददौ स विलोभयन ।। ५-१९-
पुनः पुनः प्रणम्यासौ मालाकारौ नरोत्तमौ । ददौ पुष्पाणि चारूणि गन्धवन्त्यमलानि च ।। ५-१९-
मालाकाराय कृष्णोऽपि प्रसन्नः प्रददौ वरान । श्रीस्त्वां मतूसंश्रया भद्र! न कदाचित् प्रहास्तयि ।। ५-१९-
बलहानिर्न ते सौम्य! धनहानिस्थथैव च । यावद्दिनानि तावज्व न नशिष्यति सन्ततिः ।। ५-१९-
बुक्त्वा च विपुलान् भोगांस्तमन्ते मतूप्रसादजम् । ममानुस्मरणां प्राप्य दिव्यं लोकमवाप्स्यसि ।। ५-१९-
धर्म्मे मनश्व ते भद्र!सर्व्वकालं भविष्यति । युष्मत्सन्ततिजातानां दीर्घमायुर्भविष्यति ।। ५-१९-
नोपसर्गादिकं दोषं युष्मत्सन्ततिसम्भवः । सम्प्राप्स्यति महाभाग!यावत् सूर्य्यो धरिष्यति ।। ५-१९-
इतुक्त्वा तदूगृहात् कृष्णो बलदेवसहायवान् । निर्ज्जगाम मुनिश्वेष्ठ! मालाकारेण पूजितः ।। ५-१९-
श्रीपराशर उवाच। राजमार्गे ततः कृष्णस्सानुलेपनभाजनाम् । ददर्श कुब्जामायांतीं नवयौवनगोचराम्
तामाह ललितं कृष्णः कस्येदमनुलेपनम् । भवत्या नीयते सत्यं वदेंदीवरलोचने
सकामेनेव सा प्रोक्ता सानुरागा हरिं प्रति । प्राह सा ललितं कुब्जा तद्दर्शनबलात्कृता
कांत कस्मान्न जानासि कंसेन विनियोजिताम् । नैकवक्रेति विख्यातामनुलेपनकर्मणि
नान्यपिष्टं हि कंसस्य प्रीतये ह्यनुलेपनम् । भवाम्यहमतीवास्य प्रसादधनभाजनम्
श्रीकृष्ण उवाच। सुगंधमेतद्रा जार्हं रुचिरं रुचिरानने । आवयोर्गात्र सदृशं दीयतामनुलेपनम्
श्रीपराशर उवाच। श्रुत्वैतदाह सा कुब्जा गृह्यतामिति सादरम् । अनुलेपनं च प्रददौ गात्रयोग्यमथोभयोः
भक्तिच्छेदानुलिप्तांगौ ततस्तौ पुरुषर्षभौ । सेंद्र चापौ व्यराजेतां सितकृष्णाविवांबुदौ
ततस्तां चुबुके शौरिरुल्लापन विधानवित् । उत्पाट्य तोलयामास द्व्यंगुलेनाग्रपाणिना