विश्वं भवान् सृजति सूर्य्यगभस्तिरूपोविश्वञ्च ते गुणमयोऽयमज! प्रपञ्चः । रूपं परं सदितिवाचकमक्षरं यजज्ञानात्मने सदसते प्रणातोऽस्मि तस्मै ।। ५-१८-
अँनमो वासुदेवाय नमः सङ्कर्षणाय ते । प्रद्यु म्राय नमस्तुभ्यमनिरुद्धाय ते नमः ।। ५-१८-
एवमन्तर्जले विष्णुमभिष्टूय स यादवः । अर्ज्जयामास सर्व्वेशं पुष्पैर्धूपैर्मनोरमैः ।। ५-१९-
परित्यक्तान्यविषयो मनस्तत्र निवेश्य सः । ब्रह्मभूते चिरं स्थित्वा विरराम समाधितः ।। ५-१९-
कृतकृत्यमिवात्मानं मन्यमानो महामतिः । आजगाम रथं भूयो निगम्य यमुनाम्भसः ।। ५-१९-
राम-कृष्णौ च ददृशे यथापूर्व्वं रथे स्थितौ । विस्मिताक्षस्तदाक्रू रस्तञ्च कृष्णोऽभ्यभाषत ।। ५-१९-
नूनं ते दृष्टमाश्वर्य्यमक्रूर!यमुनाजले । विस्मयोतूफूल्लनयनो भवान् संलक्ष्यते यतः ।। ५-१९-
अन्तर्जले यदाश्वर्य्यं दृष्टं तत्र मयाच्युत! तदत्रापि हि पश्यामि मूत्तिंमत् पुरतः स्थितम् ।। ५-१९-
जगदेतन्महाश्वर्य्य रूपं यस्य महात्मनः । तेनाश्वर्य्यवरेणाहं भवता कृष्ण!सङ्गतः ।। ५-१९-
तत् किमेतेन मथुरां व्रजामो मधुसूदन! बिभेमि कंसाद्धिग् जन्म परपिण्डोपजीविनाम् ।। ५-१९-
इत्युक्त्वा चोदयामास तान् हयान् वातरंहसः । सम्प्राप्तश्वातिसायाह्र सोऽक्रूरो मथुरां पुरीम् ।। ५-१९-
विलोक्य मथुरां कृष्णं रामञ्चाह स यादवः । पद्भयां यातं महावीर्य्यो रथेनैको विशाम्यहम् ।। ५-१९-
गन्तव्यं वसुदेवस्य भवद्भयां न तथा गृहम् । युवयोर्हि कृते वृद्धः स कंसेन निरस्यते ।। ५-१९-
इत्युत्तवा प्रविवेशाथ सोऽकूरो मथुरां पुरीम् । प्रिवष्टौ रामकृष्णौ, च राजमार्गमुपागतौ ।। ५-१९-
स्त्रीभिर्नरैश्व सानन्दं लोचनैरभिवीक्षितौ । जग्मतुलीलया वीरौ दृफ्तौ बालगजाविव ।। ५-१९-
भ्रममाणौ तु तौ दृष्ट्वा रजकं रङ्गकारकम् । अयाचेतां सुरूपाणि वासांसि रुचिराननौ ।। ५-१९-
कंसस्य रजकः सोऽथ प्रसादारूढ़विस्मयः । बहून्याक्षेपवाक्यानि प्राहोच्चै राम-केशवौ ।। ५-१९-
ततस्तलप्रहारेण कृष्णस्तस्य दुरात्मनः । पातयामास कापेन रजकस्य शिरो भुवि ।। ५-१९-
हत्वादाय च वस्त्राणि पीतनीलाम्बरौ ततः । कृष्ण-रामौ मुदा युक्तौ मालाकारगृहं गतौ ।। ५-१९-
विकाशिनेत्रयुगलौ मालाकारोऽतिविस्मितः । एतौ कस्य कुतो वैतौ मैत्रेयाचिन्तयत् तदा ।। ५-१९-
पीतनीलाम्बरधरौ तौ दृष्ट्वातिमनोहरौ । स तर्कयामास तदा भुवं देवावुपागतौ ।। ५-१९-
विकाशिमुखपद्माभ्यां ताभ्यां पुष्पाणि याचितः । भुवं विष्टभ्य हस्ताभ्यां पस्पर्श शिरसा महीम् ।। ५-१९-
प्रसादपरमौ नाथौ मम गेहमुपागतौ । धन्योऽहमर्ज्जयिष्यामीत्याह तौ माल्यजीवकः ।। ५-१९-
ततः प्रह्टश्टवदनस्तयोः पुष्पाणि कामतः । चारूण्येतान्यथैतानि प्रददौ स विलोभयन ।। ५-१९-
पुनः पुनः प्रणम्यासौ मालाकारौ नरोत्तमौ । ददौ पुष्पाणि चारूणि गन्धवन्त्यमलानि च ।। ५-१९-
मालाकाराय कृष्णोऽपि प्रसन्नः प्रददौ वरान । श्रीस्त्वां मतूसंश्रया भद्र! न कदाचित् प्रहास्तयि ।। ५-१९-
बलहानिर्न ते सौम्य! धनहानिस्थथैव च । यावद्दिनानि तावज्व न नशिष्यति सन्ततिः ।। ५-१९-
बुक्त्वा च विपुलान् भोगांस्तमन्ते मतूप्रसादजम् । ममानुस्मरणां प्राप्य दिव्यं लोकमवाप्स्यसि ।। ५-१९-
धर्म्मे मनश्व ते भद्र!सर्व्वकालं भविष्यति । युष्मत्सन्ततिजातानां दीर्घमायुर्भविष्यति ।। ५-१९-
नोपसर्गादिकं दोषं युष्मत्सन्ततिसम्भवः । सम्प्राप्स्यति महाभाग!यावत् सूर्य्यो धरिष्यति ।। ५-१९-