मथुरानगरीपौरनयनानां महोतूसवः । गोविन्दावयवैर्दृष्टरतीवाद्य भविष्यति ।। ५-१८-
को नु स्वप्रः सुभाग्याभिर्दृष्टस्ताभिरधोक्षजम् । विस्तारिकान्तिनयना या द्रक्ष्यन्त्यनिवारितम् ।। ५-१८-
अहो गोपीजनस्यास्य दर्शयित्वा महानिधिम् । उद्धृतान्यत्र नेत्राणि विधात्राकरुणात्मना ।। ५-१८-
अनुरागेण शैथिल्यमस्मासु व्रजता हरेः ! शैथिल्यमुपयान्त्याशु करेषु वलयान्यपि ।। ५-१८-
अक्रूरः क्रूरह्टदयः शीघ्र प्रेरयते हयान् । एवमार्त्तासु योषित्सु घृणा कस्य न जायते ।। ५-१८-
हा हा कृष्णरथस्योच्चैश्व क्ररेणुर्निरीक्ष्यताम् । दूरीकृतो हरिर्येन सोऽपि रेणुर्न लक्ष्यते ।। ५-१८-
इत्येवमतिहार्द्दन गोपीजननिरीक्षितः । तत्याज व्रजभूभागं सह रामेण केशवः ।। ५-१८-
गच्छन्तो जविताश्वेन रथेन यमुनातटम् । प्राप्ता मध्याह्नसमये रामाक्रू रजनार्द्दनाः ।। ५-१८-
अथाह कृष्णमक्रूरो भवद्भयां तावदास्यताम् । यावत् करोमि कालिन्द्यामाह्निकार्हणमम्भसि ।। ५-१८-
तथेत्युक्तं ततः स्त्रातः स्वाचान्तः स महामतिः । दध्यौ ब्रह्म परं विप्र!प्रविश्य यमुनाजले ।। ५-१८-
फणासहस्त्रमालाञय बलभद्र ददर्श सः । कुन्दमालाङ्गमुन्निद्र-पद्मपत्रारुणोक्षणम् ।। ५-१८-
वृतं वासुकिरम्भाद्यैर्महद्भिः पवनाशिभिः । संस्तूयमानं गन्धर्वैर्वनमालाविभूषितम् ।। ५-१८-
दधानमसिते वस्त्रे चारुपद्मावतंसकम् । चारुकुण्डलिनं भान्तमन्तर्जलतले स्थितम् ।। ५-१८-
तस्योतूसङ्ग घनश्याममाताम्रायतलोचनम् । चतुर्बाहुमुदाराङ्ग चक्राद्यायुधभूषणम् ।। ५-१८-
पीते वसानं वसने चित्रमाल्य-विभूषणाम् । शक्रचापतड़िन्माला-विचित्रमिव तोयदम् ।। ५-१८-
श्रीवत्सवक्षसञ्चारुकेयूरमुकुटोज्जवलम् । ददर्श कृष्णमक्लिष्ट-पुण्डरीकावतंसकम् ।। ५-१८-
सनन्दनाद्यैर्मुनिभिः सिद्धयोगैरकल्मषैः । विचिन्त्यमानं तत्रस्थैर्नासाग्रन्यस्तलोचनैः ।। ५-१८-
बल-कृष्णौ तथाक्रूरः प्रत्यभिज्ञाय विस्मितः । सोऽचिन्तयदू रथाच्छीघ्रं कथमत्रागताविति ।। ५-१८-
विवक्षोः स्तम्भयामास वाचं तस्य जनार्द्दनः । ततो निष्कम्य सलिलादू रथमभ्यागतः पुनः ।। ५-१८-
ददर्श तत्र चैवोभौ रथस्योपर्य्यधिष्ठितौ । राम-कृष्णौ यथापूर्व्वं मनुष्यवपुषान्वितौ ।। ५-१८-
निमग्रश्व ततस्तोये स ददर्ख तथैव तौ । संस्तूयमानौ गन्धर्व्व-मुनि-सिद्ध-महोरगैः ।। ५-१८-
ततो विज्ञातसद्भावः स तु दानपतिस्तथा । तुष्टाव सर्व्वविज्ञानमयमच्युतमीश्वरम् ।। ५-१८-
सन्मात्ररूपिणेऽचिन्त्यमहिम्ने परमात्मने । व्यापिने नैकरूपैकखरूपाय नमो नमः ।। ५-१८-
सत्त्वरूपाय तेऽचिन्त्य! हविर्भूताय ते नमः । नमोऽविज्ञातपाराय पराय प्रकृतेः प्रभो ।। ५-१८-
भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् । आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः ।। ५-१८-
प्रसीद सर्व्व सर्व्वात्मन् क्षराक्षरमयेश्वर । ब्रह्म-विष्णु-शिव्राद्याभिः कल्पनाभिरुदीरितः ।। ५-१८-
अनाख्येयखरूपात्मन्!अनाख्येयप्रयोजन! अनाख्येयाभिधानं त्वां नतोऽस्मि परमेश्वर ।। ५-१८-
न यत्र-नाथ!विद्यन्ते नामजात्यादिकल्पनाः । तदू ब्रह्म परमं नित्यमविकारि भवानजः ।। ५-१८-
न कल्पनामृतेऽर्थस्य सर्व्वस्याधिगमो यतः । ततः कृष्णाच्युतानन्तबिष्णुसंज्ञाभिरीडयसे ।। ५-१८-
सर्व्वार्थस्त्वमज! विकल्पनाभिरेतदू दवाद्य जगदखिलं त्वमेव विश्वम् । विश्वात्मंस्त्वमिति विकारभावहीनः सर्व्वस्मिन् न हि भबतोऽस्ति किञ्चिदन्यत् त्वं ब्रह्मा पशुपतिरर्य्यमा विधाता धाता त्वं त्रिदशपतिः समीरणोऽग्रिः । तोयेशो धनपतिरन्तकस्त्वमेको भिन्नार्थैर्जगदपि पासि शक्तिभेदैः ।। ५-१८-